देशतः कालतः..
देशतः कालतः परिच्छिन्नत्वहेतोर्भागासिद्ध्युपपादनम्
श्रीमज्जयतीर्थटीका
अथ परिच्छिन्नत्वहेतुमपि विशेषतः प्रत्याचिख्यासुस्तत्किं देशतः किं वा कालतः अथवा वस्तुत इति विकल्पं हृदि निधायाद्यद्वितीयौ निराकरोति ।
मूलं
देशतः कालतः परिच्छिन्नत्वं प्रकृतिकालादिष्वभावाद्भागासिद्धम्
प्रकृतिकालाकाशादीनां पक्षैकदेशानां सर्वगतत्वान्नित्यत्वाच्च देशतः कालतः परिच्छिन्नत्वं नास्तीति भागासिद्धं भवति । न च जडत्वादिना तस्यापि परिच्छिन्नत्व-सिद्धिः । उक्तविधया अनैकान्त्यात् आगमविरोधाच्च । न च प्रकृत्यादिव्यतिरिक्तस्यैव पक्षत्वम् । तन्मिथ्यात्वस्य निर्निबन्धनत्वापत्तेः । दृश्यत्वादेर्दुष्टत्वात् । आगमानाञ्च निरसिष्यमाणत्वात् । उक्तवक्ष्यमाणदूषणगणानिस्ताराच्च ।
द्वैतद्युमणि:
परिच्छिन्नत्वमभावप्रतियोगित्वमित्यर्थमभ्युपेत्य देशतः कालतः इति । सप्तम्यर्थे तसिः । नचैवमव्यावर्तकता । देशकालपदयोः किञ्चिद्देशकालपरत्वेनाभावे देशत्व-कालत्वव्यापकतानिवेशभ्रमनिवर्तनार्थत्वेन वाऽभावस्य संसर्गाभावरूपत्वबोधतात्पर्यकत्वेन वा सार्थक्यात् । परिच्छिन्नत्वमित्यस्य भेदप्रतियोगित्वमित्यर्थस्फोरणाय वस्तुत इति । आगमेति ।। ‘गौरनाद्यन्तवती’ ‘अजामेकां लोहितशुक्लकृष्णां’ ‘कालश्च नित्यः प्रकृतिश्च नित्या’ ‘स यथानन्तोऽयमाकाश एवमनन्त आत्मा वेदितव्यः’ ‘आकाशवत्सर्वगतश्च नित्यः’ ‘यावद्ब्रह्म विष्ठितं तावती वाक्’ इत्याद्यागमविरोधादित्यर्थः ।। आगमानामिति ।। वाचारम्भणमित्यादीनामित्यर्थः ।। उक्तवक्ष्यमाणेति ।। अप्रसिद्धविशेषणत्वादीनामुक्तानां प्रत्यक्षबाधादीनां वक्ष्यमाणानामित्यर्थः ।। अनिस्तारादिति ।। तेषां मित्थ्यात्वसाधकानु-मानादीनामित्यर्थः ।