अनुमानस्य चाप्रसिद्धविशेषणः पक्षः..

अनिर्वचनीयसाधकानुमाने अप्रसिद्धविशेषणत्वदोषसमर्थनम्

अनुमानस्य चाप्रसिद्धविशेषणः पक्षः

श्रीमज्जयतीर्थटीका

एतदनुमानप्रवृत्तेः प्रागनिर्वचनीयस्य क्वाप्यप्रसिद्धत्वेनायमनुमानस्य पक्षोऽ-प्रसिद्धविशेषणो भवति । ननु विशिष्टस्य पक्षत्वं । तत्कथमप्रसिद्धविशेषणः पक्ष इति निर्देशः स्यात् । न हि तद्विशिष्टस्य तद्विशेषणं भवति । आत्माश्रयप्रसङ्गात् । सत्यम् । पक्षपदेन तदेकदेशो धर्मी लक्ष्यत इत्यदोषः । यद्विशेषणेनायं पक्षस्तदप्रसिद्धमिति वा ।