न चान्नानन्नवैलक्षण्यमनुभूयते..
तर्कबाधितेऽनन्नवैलक्षण्यज्ञानस्याभ्यवहारादिकारणत्वाभावसमर्थनम्
श्रीमज्जयतीर्थटीका
ननु यस्य तर्केणान्नत्वं बाध्यते तदनन्नं भवत्येव । न चैवमभ्यवहाराद्यभावापातः। अनन्नवैलक्षण्येन तदुपपत्तेः । न हि तर्केण पदार्थानां स्वरूपासत्त्वमुच्यते । किं तर्हि प्रतिपन्नस्वभावानुपमर्देन तदनिर्वाच्यमेवेति चेन्न । तथा सति नेदं रजतमिति बाधकानन्तरं शुक्तिकानुभववदन्नानन्नवैलक्षण्यानुभवप्रसङ्गः । न चासावस्तीत्याह ।
मूलं
न चान्नानन्नवैलक्षण्यमनुभूयते ।
कुतो युक्त्यनुसन्धातुरेवंविधानुभवाभावोऽवगम्यत इति चेत् । तत्कार्यव्यवहारा-भावादित्याह ।
मूलं
न च तथा व्यवहारः ।
ननु न व्यवहार एवानुभवे प्रमाणं विनाऽपि व्यवहारेण बालमूकादीनामनु-भवसद्भावात् । अतो व्यवहाराभावेऽपि तथाऽनुभवो युक्त्यनुसन्धातुः किं न स्यात् । स्यात्, यदि तथाऽन्यदपि किञ्चित्प्रमाणं स्यात् । न चैतदस्तीत्याह ।
मूलं
न च तत्र किञ्चिन्मानम् ।
न चानुभवाभावे प्रत्यक्षस्य सत्वात्किमनेनेति वाच्यम् । विप्रतिपन्नं प्रति सत्युपायान्तरे प्रत्यक्षस्यानवतार्यत्वात् ।