ईशोऽनीशो जगन्मिथ्या न..
जगत्सत्यत्वादिविषये सर्वानुगुणश्रुत्युदाहरणम्
श्रीमज्जयतीर्थटीका
स्पष्टं च तं दिदर्शयिषुरागमोदाहरणे तस्य जगत्सत्यतापरत्वोपपादने प्राबल्य-व्युत्पादनेऽनुपपत्त्यन्तरपरिहारे च प्रयासनिरासाय सर्वानुगुणां स्मृतिमुदाहरति
मूलं
ईशोऽनीशो जगन्मिथ्या न पूज्यो गुरुरित्यपि ।
एक आत्मा परब्रह्मभावो मुक्तिरिति ह्यपि ।।
इतिशब्दः प्रत्येकमभिसम्बद्ध्यते । अत एव द्विर्ग्रहणम् । एवमपिशब्दोऽपि । हिशब्दो हेतौ
मूल
एवमादिविरुद्धानि वचनान्यथ युक्तयः ।
प्रमाणैर्बहुभिर्ज्ञेया आभासा इति वैदिकैः ।।
एवमादीति लुप्तविभक्तिकं भिन्नं पदम् । अथेति समुच्चये । यस्मादीशोऽनीश इत्येवमादीनि वचनानि बहुभिर्वैदिकैः प्रमाणैर्विरुद्धानि तस्मादाभासानीति ज्ञेयानि । तथैवमादयो युक्तयोऽपि यस्माद्बहुभिर्वैदिकैः प्रमाणैर्विरुद्धास्तस्मादाभासा इति ज्ञेया इति योज्यम् । वचनापेक्षया विरोधिप्रमाणानां प्राबल्यसमर्थनाय बहुभिरित्युक्तम् । उपलक्षणमेतत् । निरवकाशत्वादिकमपि ग्राह्यम् । अवैदिकवचनापेक्षया युक्त्यपेक्षया च प्राबल्योपपादनाय बहुभिरिति वैदिकैरिति चोक्तम् ।
द्वैतद्युमणि:
।। प्रयासनिरासायेति ।। जगन्मिथ्यात्ववादिश्रुत्यादीनां विरुद्धार्थकत्वेनार्थान्तरं वक्तव्यमित्युदाहरिष्यमाणस्मृतौ स्पष्टमभिधानान्न प्रयास इति भावः ।। प्रत्येकमिति ।। प्रत्येकं सम्बन्धाभावे जगन्मिथ्यात्वबोधकवाक्यस्य विरुद्धार्थकत्वालाभप्रसङ्गात्तथा सम्बन्धः प्रदर्शितः । एवमादिविरुद्धानीत्यस्यैकपदत्वे कण्ठोक्ता ये विरोधास्तदादिविरुद्धत्वशालीनी-त्यर्थो लभ्यते । स न युक्तः । विरुद्धपदार्थैकदेशे विरुद्धत्वे आदिपदार्थस्यान्वयप्रसङ्गात् । किञ्च पूर्वोक्तानीशोऽनीश इत्यादिपञ्चवचनानि इतिपदेनोपस्थितानि । इतिपदार्थस्य वचना-नीत्यनेनान्वयो वक्तव्यः । इत्थञ्च एवमादिविरुद्धानि इति वचनानीति लभ्यते । स न युक्तः । आदिपदग्राह्यविरोधान्तरस्याप्रतिभासेन बाधात् । विशेषणोभयसमासत्वस्य एव-मादिविरुद्धानीत्यस्याङ्गीकारेण कथञ्चिदुपपादनेऽपि विरोधप्रतियोगिबोधकप्रमाणपदस्य समा-साघटकतया तदर्थान्वितस्वार्थकत्वापत्तेः । स्वगतविरोधस्यैव तथात्वेन प्रतीत्या प्रमाणान्तरे विरोधप्रतियोगिन्याकाङ्क्षानुदयेन विवक्षितार्थालाभाच्चेत्यत आह ।। एवमादीति ।। लुप्तेति ।। सुपां सुलुगित्यनेन लोपविधानाच्छन्दसि । अस्या अपि स्मृतेस्तत्तुल्यत्वादिति भावः ।