न हि ज्ञानज्ञेययोरेकाऽकारता

आत्मज्ञानस्य आत्मविषयकत्वमेव आत्माकारत्वमिति समर्थनम्

श्रीमज्जयतीर्थटीका

कुतस्तद्विषयत्वमेव तदाकारत्वमिति चेत् । परिशेषात् । तथा हि, तदाकार एवाकारो यस्येति वा तदाकार इवाऽकारो यस्योति वा स आकारो यस्येति वा तदाकारं विज्ञानमित्यभिधातव्यम् । प्रकारान्तरासम्भवात् । तत्र तावत्प्रथमद्वितीयपक्षावनु-पपन्नावित्याह–

मूलं

न हि ज्ञानज्ञेययोरेकाऽकारता ।

सति हि ज्ञानज्ञेययोरेकाऽकारत्वे तदाकार एवाऽकारो यस्येति सम्भवेत् । न चैतदस्ति । अनुपलम्भात् । एकैव सत्ता ज्ञानज्ञेययोराकारोऽस्तीति चेन्न । अनुगतसत्ताया अनङ्गीकारात् । ब्रह्मसत्तयैकाऽकारत्वे च वेदान्तवाक्यजनितविज्ञानमात्माऽकारमेव कुतः । घटाऽकारमपि तत्स्यात् । नापि परेणाऽत्मनि सत्तानामाऽकारोऽङ्गीक्रियते । निराकारताऽङ्गीकारादिति ।

एवं न हि ज्ञानज्ञेययोरेकाकारता सदृशाकारताऽस्ति । येन तदाकार इवाकारो यस्येत्युपपद्येत । अत्यन्तसादृश्यस्यानुभवबाधितत्वात् । किञ्चित्सादृश्यस्य प्रागिवाति-प्रसञ्जकत्वादिति योज्यम् ।

तृतीयेऽपि पक्षे न तावत्साक्षाज्ज्ञेयं ज्ञानस्याऽकारः सम्भवति । आधाराधेयभावा-भावात् । अतः प्रकारान्तरासम्भवे परिशेषाद्विषयतया व्यावर्तकत्वेन स आकार इव यस्य तत्तदाकारमिति वक्तव्यम् । तथा च तद्विषयत्वमेव तदाकारत्वं सम्पद्यते । ततश्च वेदान्तवाक्यजनितं विज्ञानमात्मविषयं न चेत्तदा तदाकारमपि न भवेदिति युक्तमेवेति ।

यदि तर्हि तद्विषयत्वमेव तदाकारत्वम् । अतद्विषयत्वात्तदाकारं नेति व्याप्य-व्यापकयोरभेदापत्तिः’ इत्येतदप्यनेन निरस्तम् । न हि तदाकारत्वं तद्विषयत्वमिति पर्यायावेतौ । किं नाम सामान्यविशेषवचनौ । परिशेषसिद्धं तु पर्यवसानमभिप्रेत्य तद्विषयत्वमेव तदाकारत्वमित्युक्तमिति ।

द्वैतद्युमणि:

।। तदाकारत्वमिति ।। तदाकारत्वपदाधीनप्रमितिविषय इत्यर्थः ।। इतीति ।। इति व्युत्पत्त्येत्यर्थः । अभिधातव्यं निरूपणीयं ।। तावदिति ।। तृतीयपक्षस्य सर्वथा दूष्यत्वाभावादिवार्थमन्तर्भाव्य तस्यैवाङ्गीकारात्तावदित्युक्तम् । ननु मूलकारैस्तृतीयपक्ष-दूषणस्योत्तरत्राकृतत्वात् कथं तावदित्युक्तिरिति चेन्न । ज्ञानज्ञेययोरिति निर्धारणसप्तमी । ज्ञेयस्येति योग्यतया सम्बन्धः । एकपदं मुख्यार्थकम् । तथा च ज्ञानज्ञेययोर्मध्ये ज्ञेयस्य ज्ञानमुख्याकारता नेत्यभिप्रायकतयोत्तरत्र तृतीयपक्षेत्यादिना स्वयमधृत्वा व्याख्यास्यमानत्वेन तदभिप्रायकतया तावदित्युक्तिसम्भवात् । प्रथमकल्पे यावदाकारो वा यत्किञ्चिदाकारो वेति विकल्पं हृदि निधायाऽद्यं दूषयति ।। सति हीति ।। अनुपलम्भादिति ।। ज्ञाने घटत्वादि-सत्ताया अनुभवबाधितत्वादित्यर्थः । द्वितीयं शङ्कते ।। एकैवेति ।। आत्मनो निराकारत्वेनैव द्वितीयस्यापि पक्षस्य दूषितप्रायत्वेऽपि घटादिज्ञानसाधारण्येन दूषणान्तरं वक्तुं मूलं प्रकारान्तरेण योजयति ।। एवमिति ।। इति वक्तव्यमिति ।। एकपदस्य मुख्यार्थत्वमादृत्य मुख्याकारत्वे निराकृतेऽमुख्याकारत्वं व्यञ्जनया लभ्यत इति भावः ।। अनेनेति ।। अवयव-व्युत्पत्तिलभ्यार्थान्तरनिराकरणपूर्वकं तत्र परिशेषकथनद्वारा तदाकारत्वपदजन्यप्रमिति-विषयत्वरूपसामान्यसूचनेनेत्यर्थः। तथा च तद्विषयकत्वाभावात्तदाकारत्वपदजन्यप्रमिति-विषयाभाववानिति हेतुहेतुमद्भावो बोध्य इति भावः ।