नासतोऽदृष्टत्वात्’..

नासत इत्यादिसूत्राणां शून्यवादिमतनिरासपरतया न प्रपञ्चमिथ्यात्वविरोधित्वमिति शङ्का

नासतोऽदृष्टत्वात्’

श्रीमज्जयतीर्थटीका

नन्वेतानि सूत्राणि शून्यवादिमतनिराकरणपरतया सिद्धान्ते व्याख्यायन्ते । तथा हि । शून्यमेव जगत्कारणमस्तु किमीश्वरेणेति प्राप्ते प्रत्याख्यातं नासत इति । नासतः शून्यस्य जगत्कारणत्वं मन्तव्यम् । कुतः अदृष्टत्वात् । न हि किमपि शून्यादुत्पद्यमानं दृष्टम् । येन जगदपि तथा प्रतिपद्येमहि ।

भवेदिदं यदि जगत्पारमार्थिकं स्यात् । असत्त्वे तु शुक्तिरजतस्येव शून्यादुत्पत्तौ काऽनुपपत्तिरित्यतोऽभिहितं नाभाव इति । न जगत् अभावः असत् प्रतिपत्तव्यम् । कस्मात् । उपलब्धेः । सदिति प्रतीयमानत्वात् । सत्त्वेन प्रतीयमानमपि जग-त्स्वप्नादिवदसत्किं न स्यात् इत्यत उक्तं वैधर्म्याच्चेति । स्वप्नादिवत् असदेव जगत्सत्त्वेन प्रतीयत इति न वाच्यम् । कुतः वैधर्म्यात् । भवति हि स्वप्नादिवैधर्म्यं विश्वस्य बाधाभावलक्षणम् । उपलब्धिश्च प्रागबाधितैव हेतुतयोपन्यस्तेति भावः । दूषणान्तर-समुच्चयार्थश्चकार इति । तथा च कथमेषां सूत्राणां मायावादिमतनिरासायोदाहरणे सिद्धान्तविरोधो न स्यात् । न च योजनाभेदेनोभयपरता । तददर्शनादित्यत आह ।

द्वैतद्युमणि:

ननु शून्यवादिसकाशादित्यादिग्रन्थस्य प्रकृतासङ्गतत्वं । मुख्यप्रमेयभूतमुक्त-भेदासाधकत्वात् प्रसक्तमिथ्यात्वानुमानादूषकत्वाच्चेत्याशङ्ग्य तद्ग्रन्थमुत्थापयति ।। नन्वेता-नीति ।। तददर्शनादिति ।। मायावादिमते ब्रह्मणः सत्त्वादसत्पदेन तद्ग्रहणायोगः । द्वितीय-सूत्रे अभावपदार्थभूतासत्त्वनिराकरणं चानुपयुक्तं जगत्यसद्विलक्षणत्वस्यैव मायावाद्यङ्गी-कृतत्वात् । अतो नैतानि सूत्राणि तन्मतनिराकरणपरतया योजयितुं शक्यानीति भावः ।