देवदत्तादिस्वरूपमात्रस्य..

वक्तुर्विशिष्टार्थविवक्षाभावेन लक्षणाश्रयणमिति शङ्का तन्निरासश्च

श्रीमज्जयतीर्थटीका

ननु माभूद्वाच्यार्थानुपपत्तिर्लक्षणाऽऽक्षेपिका । वक्तुर्विशिष्टार्थविवक्षाऽभावस्तु गरलमभ्यवहरेत्यादाविव भविष्यति । स च स्वरूपमात्रप्रश्नोत्तरत्वात् सिद्ध्यति । अस्मिन् ज्योतिर्मण्डले कश्चन्द्र इति कोऽयमिति च चन्द्रदेवदत्तस्वरूपमात्रं ह्यनेन पृष्टम् । वक्ता च विशिष्टार्थं वदन् आम्रान्पृष्टः कोविदारानाचक्षाण इवानवधेयवचनः प्रसज्ज्येतेति चेत् । स्यादेवम् । यदि स्वरूपमात्रे प्रश्नः स्यात् । न चैवम् । स्वरूपमात्रस्य सिद्धत्वात् । न हि कश्चित्सिद्धं पृच्छतीत्याह–

मूलं

देवदत्तादिस्वरूपमात्रस्य सिद्धत्वान्न स्वरूपमात्रे प्रश्नः

ननु प्राक्प्रकृष्टप्रकाशश्चन्द्र इत्येतदुदाहरणं प्रथमं निराकृत्य पश्चात्सोऽयं देवदत्त इत्येतन्निराकृतम् । अतश्चन्द्रादिमात्रस्येति वक्तव्यम् । किमर्थं क्रमभङ्गः । उच्यते । परेण स्वग्रन्थे प्रकृष्टादिवाक्यविषय एव प्रश्नानुपपत्तिर्व्युत्पादिता । सोऽयमित्यत्र तु वाच्यार्थानु-पपत्तिरेव । अतश्चन्द्रादिरूपस्येत्युच्यमाने प्रकृष्टादिवाक्यविषयानुपपत्तिपरिहार एवायमिति विज्ञायेत । तदुभयविषयतां तु ज्ञापयितुं क्रमभङ्गः ।

एवमपि सोऽयमित्येतद्विषयतैव ज्ञास्यत इति चेन्न । प्रकृष्टादिवाक्यविषयत्वस्य परसिद्धत्वेन सुज्ञानत्वात् । परानुक्तं कस्माच्छङ्कनीयमिति चेन्न । न्यायप्राप्तस्यापि परिहार्यत्वात् ।

द्वैतद्युमणि:

।। विशिष्टार्थेति ।। प्रकृतवाक्येन स्वरसतः प्रतीयमानो योऽर्थस्तन्मात्र-परमतात्पर्याभाव इत्यर्थः ।। गरलमभ्यवहरेत्यादाविति ।। तत्र वाक्येन स्वरसतो बोध्ये १गरलभोजनमिष्टेष्टसाधनत्वे बोधमात्रे तात्पर्याभावः । किन्तु तद्द्वारा द्विषदन्नं न भोक्तव्य-मिति बोधान्तरे । तदुपपत्तये लक्षणादिकं यथा प्रकृते तथैवेत्यर्थः । ननु पुत्रहितेच्छोः पितुः पुत्रमरणसाधनोपदेशायोगाद्यथाश्रुतार्थे तात्पर्याभावोऽवसीयते । प्रकृते तज्ज्ञापकं किमित्यत आह ।। स चेति ।। कोऽयमितीति ।। देवदत्तस्वरूपमात्रप्रश्नपरवाक्यमिदम् । आम्रान् चूतवृक्षात् कोविदारान् निम्बवृक्षान् ।