अनिर्वचनीयासिद्धेरेवानुमानस्याप्यसिद्धिः

दृश्यत्वाद्यनुमानानां प्रतितर्कपराहतिसमर्थनम्

अनिर्वचनीयासिद्धेरेवानुमानस्याप्यसिद्धिः

श्रीमज्जयतीर्थटीका

अथ वा प्रतिकूलतर्कपराहतिमनेनाह । यदि जगन्मिथ्या स्यात्तदा दृश्यत्वाद्यनु-मानस्यापि जगदन्तःपातित्वेन मिथ्यात्वेनासिद्धिः स्यात् । अन्यथा तेन व्यभिचारापातात् ।

ननु न वयं मिथ्यापदेन जगतोऽसत्त्वमाचक्ष्महे । किं नामानिर्वचनीयत्वमेवातः कथं तदन्तःपातित्वेनानुमानस्यासिद्धिरिति चेत् न । तथा सत्यनिर्वचनीयासिद्धेरप्रसिद्धेरप्रसिद्ध-विशेषणत्वस्योक्तत्वादिति ।

द्वैतद्युमणि:

किं नामानिर्वचनीयत्वमेवेति द्वितीयान्तम् । ‘मिथ्यापदेनाचक्ष्महे’ इति सम्बन्धः । इदं चानिर्वचनीयासिद्धेरिति धर्मिरूपानिर्वचनीयवाचकपदघटितमूलनिवर्त्य-शङ्काप्रदर्शनार्थमिति द्रष्टव्यम् ।