श्रीमदानन्दतीर्थार्यहृदयाम्भोजमन्दिरः

मङ्गलाचरणपूर्वकं टीकासमापनम्

श्रीमज्जयतीर्थटीका

श्रीमदानन्दतीर्थार्यहृदयाम्भोजमन्दिरः ।

कमलाश्लेषरसिकः प्रीयतां नः परः पुमान् ।।

।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिततत्त्वोद्योतविवरणं

जयतीर्थभिक्षुविरचितं सम्पूर्णम् ।।

द्वैतद्युमणि:

एवं समापितग्रन्थो भगवांष्टीकाकारोऽतोऽपि शिष्टाचारपरम्पराप्राप्तं प्रचयहेतुं मङ्गलमारचय्य शिष्यशिक्षायै निबध्नाति ।। श्रीमदानन्दतीर्थेति ।। हृदयमम्भोजमिवेति विग्रहः । तेन यथाऽम्भोजस्य सौगन्ध्यसौन्दर्यादिशालित्वेन प्रशस्तता, तथाऽऽचार्यमनसोऽपि निखिलविषयकज्ञानभगवद्भक्त्यादिना प्राशस्त्यं लक्ष्यते । कमला महालक्ष्मीः ।। इत्यशेषमतिमङ्गलम् ।।

निखिलनिगमगीतानन्तकल्याणधर्मातुलमणिगणभूषो निर्भिदानन्तमूर्तिः ।

अघटितघटनायां शक्तशक्तिर्विशेषात् अखिलसुजनपालः प्रीयतां वेदनाथः ।। १ ।।

स्वप्रेरणामात्रत एतदुक्तं मया सुबद्धमथवाप्वबद्धम् ।

तत्सर्वमस्मान्न च मेऽपराधस्ततः प्रसीदेन्मयि मोदतीर्थः ।। २ ।।

परोत्प्रेक्षितदोषाणामसहिष्णुतया मया ।

यदुक्तं तन्मात्रतःस्यात् प्रीतो जयमुनीश्वरः ।। ३ ।।

यन्मन्त्राक्षतमाहात्म्याद्ग्रन्थोऽयं पूर्णतां गतः ।

तान्वन्दे सत्यसङ्कल्पानन्वर्थाभिधया युतान् ।। ४ ।।

औतवादप्रतिभासमार्जितैर्यशोभिरामोदितसन्मनस्ततिः ।

श्रीवासुदेवार्यगुरूत्तमःपिता विद्याप्रदाताऽस्तु मयि प्रसन्नः ।। ५ ।।

अनया ग्रन्थकृत्या यत्पुण्यं स्यात्तदशेषतः ।

गुरुहृत्पद्मवासाय प्राणेशायार्पयाम्यहम् ।। ६ ।।

औतचन्द्रिकाछद्मतमोहृत्पाटने पटुः ।

सन्मनःपङ्कजोल्लासी जेजीयाद्द्वैतभास्करः ।। ७ ।।

तुङ्गातीरस्थसद्व्याघ्रपुरीस्थेन विनिर्मितः ।

श्रीनाथनाम्ना पूर्णोऽयं द्वैतद्युमणिसंज्ञितः ।। ८ ।।

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यकृततत्त्वोद्योतटीकायाः श्रीमज्जयतीर्थपूज्यचरणविरचितायाः व्याख्यानरूपः व्याघ्रपुरीस्थवासुदेवाचार्याणां पुत्रेण तेषामेव छात्रेण श्रीनाथनाम्नाविरचितः द्वैतद्युमणिनामको ग्रन्थः समाप्तः ।

।। श्रीकृष्णार्पणमस्तु ।।

।। मध्वान्तर्गतबादरायणार्पणमस्तु ।।