न चानिर्वचनीये किञ्चिन्मानम्..
प्रमाणाभावे अनिर्वचनीयज्ञानसामान्याभावसमर्थनम्
न चानिर्वचनीये किञ्चिन्मानम्..
श्रीमज्जयतीर्थटीका
चशब्दो यस्मादित्यर्थे ।
ननु प्रमितिः प्रमाणमपेक्षते न प्रसिद्धिमात्रम् । न च संशयस्य प्रमितिसापेक्षता । प्रतीतिमात्रेणापि स्मरणोपपत्त्या संशयोपपत्तेः । यथा खलु विप्रलम्भकवाक्याच्छश-विषाणसद्भावं मन्यमानस्य विषाणमित्युक्ते भवति सन्देहः । अतोऽनिर्वचनीयप्रसिद्ध्य-भावोपपादनाय तत्कारणाभावे वक्तव्ये कथं प्रमितिकारणाभावाभिधानमिति । सत्यम् । प्रतीतिरेव सन्देहोपयोगिनीति वस्तुगतिः । तथापि प्रमाणविषयतयोपक्षिप्ते भेदेऽनिर्वचनीयो वेत्यादिसन्दिहानेन प्रतिवादिनाऽऽत्मनोऽनिर्वचनीयादिविषया प्रमितिरेव सन्देहकारणतया वक्तव्या । तत्प्रतीतेरप्रमात्वाङ्गीकारे स्वयमेव विलीनं संशयेन । अतः प्रमाणाभावेन प्रमाभावे साधितेऽप्रमायाश्च स्वयमेवानङ्गीकारे प्रतीत्यभाव एव साधितो भवतीति न कश्चिद्दोषः ।
द्वैतद्युमणि:
चशब्दस्य हेत्वर्थकत्वे यस्मादनिर्वचनीये प्रमाणं नास्ति तस्मात्सर्वत्रा-निर्वचनीयस्याप्रतीतत्वमित्यर्थः स्यात्तत्राशङ्कते ।। नन्विति ।। न चा प्रसिद्धत्वादित्यस्या-प्रमितत्वादित्यर्थः । तत्र चोक्तस्य हेतुत्वं युक्तमेवेत्याशङ्क्य निषेधति ।। न चेति ।। प्रतीति-मात्रेणेति ।। तथा चाप्रसिद्धत्वादित्यस्याप्रमितत्वादित्यर्थकरणे संशयनिराकरणतावच्छेदका-वच्छिन्नाभावे वक्तव्ये प्रमितत्वावच्छिन्नाभावकथनं व्यर्थं स्यात् इति भावः ।। अत इति ।। मौलप्रसिद्धिपदस्य ज्ञानसामान्यार्थकत्वस्य स्थितत्वादित्यर्थः ।। तत्कारणाभावे वक्तव्य इति ।। नन्वेतदयुक्तम् । न ह्यत्र प्रश्ने सन्देहे वाऽनुत्पन्नत्वरूपमयुक्तत्वं साध्यते । येनेयं कारणाभावस्य वक्तव्यत्वशङ्का सङ्गच्छेत । नैतदस्ति । तत्र प्रत्यक्षबोधोक्तिपूर्वकमविमर्श-भ्रमादिमूलकत्वरूपायुक्तत्वस्य साध्यताया अनुपदमेव स्वयं वक्ष्यमाणत्वात् । तत्र च प्रमाविषयत्वाभाववत्स्वकोटिकत्वमेव हेतुः । न तु ज्ञानसामान्याभावघटितः । सर्वस्यापि सन्देहस्य पूर्वं स्वस्मिंश्च कोट्योर्भानावश्यकत्वेन स्वपदेन संशयग्रहणे हेतोरसिद्ध्यापत्तेः । इत्थं चाप्रसिद्धत्वादित्यस्याप्यप्रमितत्वादित्येवार्थः । तत्र प्रमितिसामान्याभावसाधनाय प्रमाणा-भावाभिधानं सङ्गतमेव । न चाप्रसिद्धत्वादित्यस्याज्ञातत्वार्थकत्वाभिमानिनः इयमाशङ्केति वाच्यम् । तथात्वे अग्रे अभिमानस्यैव निराकर्तव्यतया तत्प्रतीत्यभाव एव साधितो भवतीति तस्यैव साध्यत्त्वोक्तेरसङ्गत्यापत्तेः । किं चोत्तरस्य प्रमितिरेव सन्देहहेतुतया वक्तव्येत्यस्या-सङ्गतिः । प्रतीत्यभावस्यैव साध्यत्वे तत्कथनस्योपयोगाभावात् । न च तस्मिन् भ्रमाभाव-साधने तदुपयुज्यत इति वाच्यम् । यतः प्रतिवादिनः सन्देडानुपपत्त्या तत्र कोटिज्ञानं भवतामप्यनुमानसिद्धम् । स्वज्ञाने भ्रमत्वं तु तेन न स्वीकृतम् । न ह्येतावता तत्र भ्रमाभावः सिद्ध्यति येनेदमुपयुक्तं स्यात् । एवं प्रतीत्यभाव एव साधितो भवतीत्येतद्बाधितार्थकं च । कोटिभ्रमस्य भवद्भिरेव तत्रानुमानेन निश्चितत्वात् । तथा च सर्वोप्ययं पूर्वापरग्रन्थः परस्परविरुद्ध इति चेन्न । यतः पूर्वमनिर्वचनीयस्य सर्वत्राप्रसिद्धत्वादिति मूलस्य प्रथम-व्याख्यया भेदत्वरूपसाधारणधर्मजन्यसंशयस्य साधारण्यांशे भ्रमात्मकज्ञानजन्यत्वेनायुक्तत्वे सिद्धान्तिनाऽभिहिते पूर्ववादिना स्वसंशयस्य भेदत्वरूपसाधारणधर्मज्ञानं विनाप्युपपादयता प्रकारविशेषनिर्भरं विहाय साधारणधर्मान्तरेण वान्येन वा संशये आवश्यकीभूतकोटिस्मृत्यादि-सत्त्वान्न मम संशयसामग्री भ्रमघटितेति निरूपणे कर्तव्ये कोटिप्रतिपत्तेः प्रमात्वं न निरूपणीयम् । सिद्धान्तिना कोटिज्ञानांशे भ्रमत्वं स्वीकृत्य तन्मूलकत्वेनायुक्ततायाः पूर्व-मनुक्तत्वात् । किं तु भेदत्वरूपसाधारणधर्मज्ञानाधीनत्वं त्याज्यम् । तन्मात्र एव भ्रमत्वस्य पूर्वमुक्तत्वात् । इत्थं च तच्छङ्कापरिहारके उक्तमूलस्य द्वितीयव्याख्यानेऽप्रसिद्धत्वादित्यास्या-प्रमितत्वादिति नार्थः कर्तव्यः । कोटिप्रमितेः पूर्वमनाशङ्कितत्वेन तन्निषेधासङ्गतेः । तस्य प्रमात्वाभावेऽपि भेदत्वरूपसाधारणधर्मांशे भ्रमाधीनत्वरूपपूर्वसाध्यस्य तत्कल्पपरित्यागपूर्वक-मेतच्छङ्ककप्रतिवादिसंशये बाधेनासिद्धेश्च । अतोऽनुमानान्तराभिप्रायेण सर्वत्र प्रेक्षावत्सु अप्रसिद्धेरप्रतीतत्वादित्येवार्थः कर्तव्यः । सर्वत्रेत्यस्य न सर्वस्मिन्नित्यर्थः । पृच्छकस्यैव प्रतीतत्वेन सामान्यतः प्रतीतत्वनिषेधायोगात् । उक्तरीत्याऽर्थाङ्गीकारे तु पृच्छकस्य प्रेक्षा-भावेनैव वाक्यस्याबाधितार्थत्वम् । इत्थं च विमतः प्रश्नः स्ववृत्तिप्रेक्षाधिकरणक्षणावच्छिन्न-पुरुषाधिकरणकोत्पत्यभाववान् तादृशक्षणावच्छिन्नपुरुषवृत्तिसंशयाविषयीभूतकोटिकत्वात् । शशविषाणमित्यादिप्रश्नवत् । विमतः संशयः तादृशक्षणावच्छिन्नपुरुषाधिकरणकोत्पत्त्यभाववान् तदवच्छिन्नवृत्तिप्रतीतिविषयत्वाभाववत्स्वकोटिकत्वादित्यनुमानद्वयमेव मूलटीकयोरभिप्रेतम् । अत एव टीकायां न पुनः प्रेक्षावतामुत्पद्यत इति प्रतिज्ञार्थोपपत्तेरित्यनेनोक्तस्य साध्यत्व-मादृतम् । प्रेक्षा च प्रकृते भ्रमाभाव एव । तस्योपलक्षणया निवेशे अन्ततः सुषुप्तिकालमादाय सर्वेषां भ्रमसामान्याभाववत्त्वाद्बाध१व्यभिचारासिद्धयः प्रसज्यन्त इत्युक्तरीत्यैव निवेशः । पूर्व-मस्मत्प्रदर्शितनिष्कर्षस्त्वेतन्मूलत्रयपरमतात्पर्यविषयीभूतो नेदानीमनुमतः । इत्थं च नन्वि-त्यादिग्रन्थेन प्रेक्षावत्सु संशयानुत्पत्तिरूपसाध्यसिद्धये तत्कारणीभूतप्रतीत्याभावस्यैव हेतु-शरीरप्रविष्टताया आवश्यकत्वेन पूर्ववाक्यतात्पर्यविषयत्वमभिप्रेत्य तत्र प्रमाणाभावोक्तेर-सङ्गतिशङ्का युक्तैव । समाधानग्रन्थोऽपि सन्दर्भशुद्धः । तथा हि । प्रतीतिसामान्यस्यैव हेतुशरीरनिविष्टत्वं अस्मत्सम्मतमित्याशयेनाह ।। सत्यमित्यादिना ।। वस्तुगतिरिति ।। तथा च प्रतीत्यभावनिवेश एव हेतौ युक्त इति भावः । तथापि प्रतीतिमात्रस्य संशयकारणत्वेऽपि । वक्तव्येत्यत्रान्वयः । उपक्षिप्ते गृह्यमाणे । एतच्च प्रमाणेन तत्वावधारणकामं प्रति प्रमाण-स्योक्तत्वेन तस्यान्यतरकोट्यवधारणकाले इच्छाधीनः आहार्यसंशयो न घटतेऽतो अनाहार्य एवायं संशयः तत्र युक्तायुक्तत्वादिचिन्ता युक्तैवेति सूचनाय । तत्र प्रतिवादित्वव्यवहारस्तु तत्वनिर्णयेच्छया परमतमनुरुद्ध्य प्रवृत्तत्वादिति ध्येयम् । आत्मन इत्येतत्सन्देहान्वितम् ।। वक्तव्येति ।। प्रतीतित्वेन कारणतया शङ्कितमप्यनिर्वचनीयत्वकौटौ सत्त्वज्ञानसामान्यं प्रमा-रूपमेवेति वस्तुत अभिप्रेतमिति वक्तव्यमित्यर्थः । अप्रमात्वाङ्गीकारे तादृशभ्रमत्वाङ्गीकारे । स्वयमेव विलीनं संशयकारणीभूतं ज्ञानजातमिति शेषः । प्रतीतिपदस्यैव विभक्तिविपरिणामेन सम्बन्धे नपंसकलिङ्गानुपपत्तेः । संशयमनुत्पाद्य नष्टं स्यादित्यर्थः । न संशयेन स्वफली-भूतसंशयेन नष्टं न स्यादित्यर्थः । स्वयमेव विलीनं संशयेनेति नञघटितपाठे तु स्वोत्पत्ति-प्रतिबन्धकासमवधानेऽपि स्वकारणाभावादेवानुत्पन्नः सन्देह इत्यर्थः । इत्थं च पाठद्वयेऽपि अप्रमात्वग्रहानास्कन्दितस्य वा प्रमात्वेन गृह्यमाणस्य वा कोटिप्रतिपत्त्यादेः संशयकारणत्वेन तदभावात्संशयो न स्यादिति भावः ।। अत इति ।। कोटिप्रतिपत्तिसामान्यस्य प्रमात्वाङ्गी-कारादित्यर्थः। इदं चानङ्गीकारे हेतुः । साधिते प्रेक्षावत्स्विति शेषः ।। प्रतीत्यभाव एवेति ।। हेतुशरीरघटक इत्यर्थः ।। साधितो भवतीति ।। प्रेक्षावत्स्वित्यत्राऽपि सम्बद्ध्यते ।। न कश्चिद्दोष इति ।। न न्यूनतेत्यर्थ इति ।
यद्वा पूर्वोक्तनिष्कृष्टानुमानमेव मूलटीकयोरभिप्रेतम् । सर्वत्रेति मूलं तु न हेतुशरीर-प्रविष्टाभावप्रदर्शकम् । किं तु त्वदन्येषु सर्वेषु प्रेक्षावत्सु अनिर्वचनीयकोटेरप्रतीतत्वात् त्वत्प्रतीतिर्भ्रमरूपैव ।
एकस्य प्रतिभातं तु कृतकान्नातिरिच्यते ।
इति न्यायादिति रीत्या कोटौ हेतुशरीरप्रविष्टप्रमाविषयत्वाभावोपपादकम् । टीकायां तूक्तवक्ष्यमाणग्रन्थाभिप्रायं हृदि निधाय शिष्यहिताय पूर्वमेवानुमानप्रकारोऽभिहितः । वस्तुत एतन्मूलव्याख्योत्तरमेव वक्तव्यः ।
इत्थं च नन्वित्यादिशङ्ककस्यायमभिप्रायः । भेदत्वरूपसाधारणधर्मज्ञानजन्यत्वेन स्वसंशयस्य भ्रममूलत्वरूपायुक्तत्वेऽभिहिते तं विना प्रतीतकोट्युपस्थित्यादिना स्वसंशय-मुपपाद्य पूर्वदोषे परिहृते पूर्वदोषव्यवस्थापनार्थं एतदन्यप्रकारेण कोट्युपस्थितिर्न घटते । त्वदन्यस्मिन् सर्वत्राप्रतीतत्वे तं प्रत्यन्यस्य कारणत्वाकल्पनादतो भेदत्वज्ञानेनैव कोट्युप-स्थितिस्तवैव वक्तव्यातः पूर्वोक्तदोषो दुर्वार इत्यनेन मूलेनोच्यते । तत्र प्रतीत्यभावः कथमित्याकाङ्क्षायां न चेति मूलं प्रवृत्तम् । तच्चानुपपन्नम् । पूर्वमूलस्य प्रमित्यभावपरत्वे तस्य संशयकारणाभावानुपमर्दकतया प्रतीत्यभावस्यैव पूर्वमूलाभिप्रेतत्वे तत्र मानाभावोऽनुपपादक इति । समाधानग्रन्थे तु संशयकारणनिरूपणादिकं यद्भवता कृतं तत्सर्वं युक्तमेव । तथाप्य-निर्वचनीयत्वादिकोटिप्रमितिरेव तेन स्वसन्देहहेतुतया वक्तव्या । तस्या अप्रमात्वाङ्गीकारे स्वयमेव विलीनं तूष्णीं स्थितं स्यात् । न संशयेन न संशयसाध्यप्रश्नादिना भाव्यम् । नञघटितपाठे तु वादिनि स्वयमेव विलीनं संशयेनानुत्पन्नमित्यर्थः । तथा च कथं तन्मूलक-प्रश्नाद्युपपादनाशेति भावः । साधारणधर्मज्ञानरूपभ्रममूलकत्वाभावेऽपि स्वसंशयस्य प्रकारान्तरेण भ्रममूलकत्वापरिहारात् । अस्माकं तु भ्रममूलकत्वमेव साध्यतयाऽभिमतं । न प्रथमदूषण एव निर्भरः । अतोऽप्रसिद्धत्वादित्येतदेकस्येति न्यायेन पृच्छकज्ञानस्याप्रमात्वोप-पादकमेव । तथा चान्यत्र कोटिभ्रमजनकसामग्री परानङ्गीकृता । तस्य भ्रमत्वे तत्समाना-कारस्य ज्ञानस्यापि प्रमात्वायोगात् । अनिर्वचनीये मानाभावात् प्रमासामग्री नास्त्येव । अतः प्रतीत्यभाव एव प्रेक्षावत्सु साधितो भवतीति भावः । अतो न पूर्वोत्तरविरोध इति स्थितम् ।