दृष्टिसृष्टि..

सामान्यतो दृष्टिसृष्टिमतस्यासम्भवदुक्तिकत्वसमर्थनम्

दृष्टिसृष्टि

द्वैतद्युमणि:

ननु तन्मतस्य कथमसम्भवदुक्तिकत्वम् ? दृष्टिसृष्टिपदार्थानिरूपणादेव तथात्वम् । तथा हि । केयं दृष्टिसृष्टिः ? (?) दृष्ट्यभिन्ना सृष्टिरिति वा, (२) दृष्टिरेव सृष्टिरिति व्युत्पत्त्या दृष्टिव्यतिरिक्तसृष्ट्यभावो वा, (३) सृष्टिपदस्य कर्मणि क्तिनन्तत्वमभ्युपेत्य दृष्टिव्यतिरिक्त-सृज्याभावो वा, (४) दृष्टिसामग्रीजन्यत्वं वा, (५) दृष्टिसमानसत्ताकसृष्टिर्बा, (६) सदसद्विलक्षणत्वं वा, (७) त्रिविधसत्वबहिर्भूतत्वे सत्यसद्विलक्षणत्वं वा, (८) अज्ञातसत्वाभावो वा, (९) ज्ञातैकसत्वं वा । आद्ये वृत्तिरूपा वा चैतन्यरूपा वा दृष्टिरभिमता ? आद्ये चरमवृत्तिविषयस्यापि ब्रह्मणो दृष्टिसृष्टित्वापत्तेः । द्वितीये सर्वदा सृष्ट्यापत्तेः । न द्वितीयः । चैत्रेण सृष्टो घटो मया दृष्ट इति वैलक्षण्येन व्यवहारानुपपत्तेः । न तृतीयः । ज्ञातो घटो न घटज्ञानमित्यनुभवविरोधात् । न चतुर्थः । एकसामग्रीप्रसूतत्वे घटस्य दृष्टिभिन्नत्वाभावेन तयोरैक्यप्राप्त्या पूर्वोक्तानुभवविरोधात् । न पञ्चमः । शाब्दादिसमकालोत्पन्नघटादौ तस्य सत्यत्ववादिभिरङ्गीकृतत्वेन तादृशस्य सर्वत्र सत्वेऽपि सत्यत्वोपपत्त्या जगति तत्सादनस्य व्यर्थत्वापातात् । न षष्ठः । उभयसत्वेऽप्युपपत्तेः । तस्यैव मिथ्यात्वरूपत्वे तत्साधनायैतदुपन्यासानुपपत्तेः । न सप्तमः । त्रिविधसत्वमध्ये प्रातिभासिकसत्वस्याप्यन्तर्भावेण तद्वति जगति तद्बहिर्भावानुपपत्तेः । नाष्टमः । तुच्छसाधारण्यात् । न नवमः । सुखादौ सत्यत्ववादिभिरङ्गीकृतत्वात् । इति ।

Load More