नासदासीन्नो सदासीत्तदानीं ..
नासदासीदित्यागमस्य आगमतया सदसद्वैलक्षण्यपरत्वाभावसमर्थनम्
श्रीमज्जयतीर्थटीका
ननु नासदासीदित्याद्यागमोऽनिर्वचनीयामविद्यां वक्ति । सदसती प्रतिषिद्ध्य तम आसीदिति महाप्रलयेऽविद्यावस्थानस्योक्तत्वात् । न चासतः सत्त्वप्रसक्त्यभावेन तन्निषेधायोगादनुपपन्नार्थं वाक्यं नानिर्वचनीयामविद्यां गमयितुमलमिति साम्प्रतम् । अत्र सदसच्छब्दयोर्भावाभावपरत्वेनाङ्गीकृतत्वात् । भावाभाववैलक्षण्येनाप्यनिर्वनीयत्वसिदेः । अतः कथं ‘न भावाभावविलक्षणं क्वचिदागमो वक्ति’ इति । तत्राह
मूलं
‘नासदासीन्नो सदासीत्तदानीं नासीद्रजो नो व्योमापरो यत्’ इत्यत्र च ।
चशब्देन भावाभावविलक्षणं न वक्तीत्येतदनुकृष्यते । इदं खलु वाक्यं प्रलये सदसतोरभावं तमसश्च भावं प्रतिपादयदनुभूयते । न पुनस्तमः सदसद्विलक्षणमिति । ननु सदसतोरभावेऽवस्थितस्य तमसो बलात्सदसद्वैलक्षण्यमापाद्यत इति । सत्यम् । न तर्हीदं वाक्यमविद्यानिर्वचनीयतायामागमयितव्यम् । पदार्थसंसर्गमात्रस्याऽगमार्थत्वेन सामर्थ्य-लब्धस्यातदर्थत्वात् । यथोक्तं
यश्चार्थादर्थो न स चोदनार्थः । इति ।