एकजीववादपक्षे..
एकजीववादनिरासेन तत्र मुक्तत्वानुमानस्य विपक्षे बाधकाभावशङ्कानिरासः
श्रीमज्जयतीर्थटीका
यदुक्तं मुक्तामुक्तयोरित्यादि तदनुपपन्नं ब्रह्मैव ह्यविद्यावशाज्जीवभावमापन्नं सर्वक्षेत्रेषु संसरति न तु प्रतिक्षेत्रं क्षेत्रज्ञभेदोऽस्ति । तदेवोत्पन्नायां विद्यायां यदा मुच्यते न तदा किञ्चिदवशिष्यते । शुकवामदेवादिमुक्तिवादास्त्वर्थवादा एव । अतो येषां तत्वतः कल्पनया वा बहवो जीवा ईश्वरश्चैकः तत्र यस्याविद्या निवृत्ता स मुच्यते अन्ये संसरन्तीति मतम् । तेषामेवोक्तोऽतिप्रसङ्गः सङ्गच्छते । न त्वेकजीववादिनाम् । तेषां मुक्त्यवस्थायां संसारिणोऽभावात् संसारावस्थायां मुक्तस्याभावात् । तथा चैकजीववादिनं प्रति विपक्षे बाधकाभावादप्रयोजको मुक्तत्वहेतुरित्यत आह ।
मूलं
एकजीववादपक्षे तन्निष्ठानां मृत्यनन्तरमपि
विश्वस्यानिवृत्तत्वाद्भेदनिष्ठ एवैकजीव इत्यापतति ।
ये तु सर्वक्षेत्रेष्वेक एव जीवस्तदज्ञानवशादेव विश्वप्रतिभासो ज्ञानात्तन्मोक्षे सति न किञ्चिदवशिष्यत इति मन्यन्ते तत्पक्षे तत्वत्स एको जीवः साम्प्रतं भेदनिष्ठ एव वर्तत इत्यङ्गीकार्यं प्राप्नोति । कुतः? यद्यद्वैतनिष्ठोऽसौ स्यात्तदा तथात्वेन परप्रसिद्धः कश्चित् पुरुषः स्यात् । न चासौ तथा । तथात्वे तन्मृत्यनन्तरं विश्वनिवृत्तिः स्यात् । न चैवम् । अतोऽसौ नैको जीवोऽद्वैतनिष्ठः किं नाम भेदनिष्ठ इति स्वीकर्तव्यम् ? ततः किमित्यत आह ।
मूलं
तस्य च तत्रैवाग्रहान्न कदाचिद्भेदनिवृत्तिरित्यनिवृत्तिरेव भवति ।
इति शब्दो हेतौ । अनिवृत्तिः संसारस्येति शेषः । यदि चैको जीवः साम्प्रतं भेदनिष्ठः स्यात् तदा तस्य कालान्तरेऽपि तत्संस्कारेण भेद एवाग्रहो वर्धेत न त्वद्वैतसाक्षात्कारः कदाचित् । तथा च निवर्तकाभावान्न कदाचिदपि भेदनिवृत्तिः स्यात् । ततश्च दुःखादिसंसारस्यानिवृत्तिरेव स्यात् । भेदे सति दुःखादिसद्भावनियमाङ्गीकारात् । प्रागनिवृत्ता एव कामकोधादयो निवर्तमाना दृष्टाः । तथा भेदप्रत्ययोऽपि निवर्तत इति चेन्न । अनुमानपक्षे प्रागुक्तदोषदूषितत्वात् । सम्भावनापक्षे प्रमाणस्य वक्तव्यत्वात् । मोक्षश्रुतिः प्रमाणमिति चेन्न । शुकवामदेवादिमुक्तिवादवदर्थवादत्वस्यापि सम्भवात् ।
द्वैतद्युमणि:
एकजीववादमवष्टभ्य मुक्तत्वानुमाने विपक्षे बाधकतर्काभावमाशङ्कते ।। यदुक्तमित्यादिना ।। ब्रह्मैवेति ।। एवकारेण बहुजीववादिमत इव अविद्याबिम्बभूतात् सर्वैश्वर्यादिमच्चेतनरूपादीश्वरादनादितोऽभिन्नोऽविद्याप्रतिबिम्बभूतो जीव इत्यस्य व्यवच्छेदः । व्याधकुलसंवर्धितराजपुत्रदृष्टान्तेन ब्रह्मणः स्वाज्ञानात् संसारो ज्ञाने सति मोक्ष इति परभाष्यकारेण बृहदारण्यकभाष्ये निगदितत्वात् । सर्वक्षेत्रेषु सुरनरतिर्यगादिदेहेषु संसरति । तत्तद्देहगतान्तःकरणोपाध्यवच्छिन्नं सत् तत्तदन्तःकरणावच्छिन्नसुखाद्यनुभवितृ भवति ।
।। न त्विति ।। ननु सर्वक्षेत्रेष्वेकस्य सत्वे एकस्मिन् सुप्ते सर्वेषां ज्ञानाभावापातेन कस्यापि जागरानुपपत्तिः । एकस्मिन् सुखिनि दुःखिनि वा सति सर्वेऽपि तदनुसन्धानवन्तः स्युरिति चेन्न । तत्तन्मनोवच्छिन्नानां मनोरूपोपाधिभिन्नत्वाभ्युपगमेनौपाधिकभेदाभावसहि-तस्वरूपैक्यरूपप्रयोजकाभावेनानुसन्धानाप्रसक्तेः । तन्मनसो लीनत्वेन तत्र सुप्तिसत्वेऽप्यन्य-मनसामलीनत्वेनान्येषां जागराद्यनुपपत्तेरभावात् ।