नन्विच्छायामपि जिज्ञासापदप्रयोगादिच्छाऽत्र जिज्ञासाशब्दार्थः..
स्वरीत्या विचारे रूढिसमर्थनेन इच्छार्थकत्वस्य प्रकृतेऽसम्भववर्णनम्
तात्पर्यचन्द्रिका
नन्विच्छायामपि जिज्ञासापदप्रयोगादिच्छाऽत्र जिज्ञासाशब्दार्थः किं न स्यादित्यत्राह ।। इच्छाया अविधेयत्वादिति ।। सुधायां तु ज्ञानेच्छान्तर्णीतो विचारो जिज्ञासापदेन लक्ष्यत इति परमतमुक्त्वा यदि च जिज्ञासाशब्दो मीमांसाशब्दवद्विचार एवोपसङ्ख्यायत इति स्वमतमुक्तम् । यद्वा सुधायां पक्षद्वयेऽपि जिज्ञासाशब्दस्य विचारपरत्वाविशेषादन्यतरनिर्धारणस्याप्रयोजनत्वात्पक्षद्वयोक्तिः । तदनुसारेणात्राप्य-सन्वाच्यत्वेऽपि लक्षणया विचारेऽपि तत्प्रयोगान्मुख्यार्थस्य चेच्छाया अविधेय-त्वादित्यपि योज्यम् ।
प्रकाशिका
ननु नानेन वाक्येन जिज्ञासाशब्दस्य तत्र शक्तताभिप्रायोऽवगन्तुं शक्यते । विचारस्य सन्नन्तावाच्यत्वेऽपि लक्षणया विचारेऽपि ‘‘जिज्ञासितम्’’ इत्यादिप्रयोगवदुपपत्तेरित्युत्तरवाक्यार्थसम्भवात् । अत एवेच्छाया अविधेयत्वादिति मुख्यार्थे विध्यनुपपत्तिर्लक्षणाबीजमाहेत्याशङ्क्य नेदं लक्षणाबीजोपपादनार्थं प्रवृत्तं येन पूर्वतनं परिहारवाक्यं लक्षणाभिप्रायेण वर्ण्येतेति भावेन प्रकारान्तरेणावतारयति ।। नन्विति ।। सुधाविरोधमाशङ्क्याह ।। सुधायां त्विति ।। एवं च तद्वाक्यद्वयं स्वपरमतत्वेन योज्यमित्युक्तं भवति । तथा च न विरोध इत्याशयः । नन्वेवं योजनायां न ज्ञापकमस्ति । अत एव प्रमेयदीपिकायां ‘‘मा कर्मफलहेतुर्भूर्माते सङ्गोऽस्त्वकर्मणि’’ इति वाक्यभाष्य-व्याख्यावसरे ‘‘ज्ञानेच्छापूर्वको विचारो लक्ष्यते’’ इति विचारे लक्षणा कण्ठोक्तेत्यत आह ।। यद्वेति ।। अत्रापीति ।। टीकायामपीत्यर्थः ।। इत्यपीति ।। लक्षणापरयापीत्यर्थः ।
चन्द्रिकाबिन्दु
लक्षणाप्रसक्तेरभावादित्याशङ्क्य तद्व्यावर्त्यां शङ्कां प्रकारान्तरेण दर्शयति । नन्विच्छायामपीति ।। सुधायां लक्षणोक्तेर्विरोधमाशङ्क्याह । सुधायामिति ।। अत्र इच्छाया अविधेयत्वाद्यनुपपत्तिप्रदर्शकवाक्यस्वारस्यानुरोधेन लक्षणापक्षमङ्गीकृत्य सुधाभिप्रायमाह । यद्वा सुधायामिति ।। अन्यतरनिर्धारणस्येति ।। रूढिलक्षणान्यतर-निर्धारणत्यर्थः । प्रकृते निर्धारणसाध्यप्रयोजनाभावात् पक्षद्वयेऽपि दोषाभावात् पक्षद्वय-मुपन्यस्तमिति भावः ।
पाण्डुरङ्गि
ननु टीकायां श्रवणादौ सन्नन्तपदलक्ष्यत्वेनैव जिज्ञासाशब्दप्रयोगो विवक्षितः । अन्यथा इच्छारूपमुख्यार्थानुपपत्तिकथनपरया ‘‘इच्छाया अविधेयत्वात्’’ इत्युत्तरटीकया विरोध इत्यतस्तद्वाक्यमन्यथा व्याचष्टे ।। नन्विच्छायामपीति ।। नन्वेवं टीकायां विचारे रूढत्वमेव यद्यभिप्रेतं तर्हि सुधाविरोधः स्यात् । तत्र ज्ञानेच्छान्तर्णीतो विचारो लक्ष्यत इत्युक्तत्वादित्यत आह ।। सुधायां त्विति ।। उपसङ्ख्यायत इति ।। ‘‘मान्बधदान्शान्भ्योदीर्घश्चे’’त्यत्र मीमांसाशब्दो यथा वर्तते तथा जिज्ञासाशब्दोऽपि तत्र द्रष्टव्यः । ननु मूलव्याख्यानावसरे परोक्तिरनवसरपराहतेत्यस्वरसादाह ।। यद्वेति ।। तर्ह्येतट्टीकाविरोध इत्यत आह ।। तदनुसारेणेति ।। सुधानुसारेणेत्यर्थः ।