श्रुतौ सर्वशब्दस्त्वदित्यदनयोग्यसर्वपरः
पूर्वपक्षिणा अदितिश्रुते: बाधकशन्कापरिहार:
तात्पर्यचन्द्रिका
श्रुतौ सर्वशब्दस्त्वदित्यदनयोग्यसर्वपरः । स्वीकृतश्च सिद्धान्तिनाप्यत्रैव प्रकरणे सर्वस्यैतस्यात्ता भवति सर्वमस्यान्नं भवति य एवमदितेरदितित्वं वेदेत्युत्तरवाक्यस्थसर्वशब्दस्य सङ्कोचः । यद्वा श्रुतिबलाददितेरेवासङ्कुचित सर्वात्तृत्वमस्तु । अत्र चाद्यः पक्षोऽदितिरपि स्वभोग्यस्यान्नपानादेर्भोक्त्रीति सुधोक्तः । द्वितीयस्त्वत्र टीकायाम् । नचाद्यपक्षे भाष्यस्थजन्मादिसूत्रोक्तासङ्कुचितसर्वसंहर्तृत्वस्यातिव्याप्त्युक्तिरयुक्तेति वाच्यम् । अदितेः स्वातन्त्र्येण कतिपयसंहर्तृत्वे ब्रह्मणः सर्वसंहर्तृत्वायोगेन कतिपयसंहर्तृत्वस्य लक्षणत्वेनातिव्याप्तिसम्भवात् । नचादेर्भक्षणार्थत्वेनादितेरत्तृत्वेऽपि पक्षद्वयेऽपि संहर्तृत्वस्य नातिव्याप्तिरिति शङ्क्यम् । ‘‘मृत्युनैवेद’’मित्युपक्रमे मृत्युशब्दात् ‘‘यद्यदेवासृजत तत्तदत्तु’’मिति च सृष्टिप्रतियोगित्वाद्भक्षणस्यापि संहारविशेषत्वादूर्णनाभ्यादिवच्च भगवतः संहर्तृत्वस्यात्तृत्वरूपत्वात् ‘‘अद्यतेऽत्ति च भूतानि’’ स सर्गकाले च करोति सर्वं संहारकाले तु तदत्तिभूयः । स्रष्टापातातथैवात्ते’’त्यादौ संहारेऽदधातु प्रयोगाच्च । अत एव टीकायां ‘‘संहर्तृत्वापरपर्यायमत्तृत्व’’मित्युक्तम् । ‘‘नैवेह किंचनाग्र आसी’’दित्यादिनाऽस्य प्रकरणस्य वैष्णवत्वेऽपि दर्शपूर्णमासप्रकरणात् ‘‘पूषाप्रपिष्टभाग’’ इत्युक्तं पौष्णं पेषणमिव विष्णुप्रकरणात् ‘‘तददितेरदितित्व’’मित्यादिकमुत्कृष्यताम् । प्रकरणात् श्रुतिलिङ्गयोर्बलीयस्त्वात् । अथवा यथा ‘‘अभिक्रामं जुहोती’’ति दर्शपूर्णमासप्रकरणे श्रुतस्याभिक्रमणस्य तदङ्गप्रयाजान्वयार्थं प्रयाजस्यावान्तरप्रकरणं तथा विष्णुप्रकरणेऽ दितेरवान्तरप्रकरणमस्तु । यद्वाऽदितिश्रुतिबलान्नैवेहेत्यादिमहाप्रकरणमप्यदितेरेवेति ।।
प्रकाशिका
नन्वत्र सर्वात्तृत्वरूपविष्णुलिङ्गं नैवेह किं च नेति विष्णुप्रकरणं च । अतो लिङ्गप्रकरणाभ्यां श्रुत्यादिबाधेन विष्णुरेवात्ता स्यादित्यतो लिङ्गस्य सावकाशत्वं तावदाह ।। श्रुताविति ।। अदितिश्रुत्यदितित्वलिङ्गरूपबाधकात्सङ्कोचो न्याय्य इति भावः । बाधकात्सङ्कोचस्तवापि संमत इत्याह ।। स्वीकृतश्चेति ।। वेदितुरधिकारिणो ब्रह्मण इवासङ्कुचितसर्वादनस्य बाधादिति भावः ।। अत्र टीकायामिति ।। अत्तृत्वं विष्णोरन्यस्य वेति संशयं प्रदर्श्यान्यस्येत्युपपादनात् । अन्यथाऽन्यस्यापि वेत्युक्तिप्रसङ्गात् । अन्ते लक्षणं न युक्तमिति सामान्यत उपसंहाराच्चैतदवसीयते । अतिव्याप्तीति टीका त्वन्यनिष्ठत्वप्रसङ्गादिति व्याख्येयेति भावः । टीकायां ‘‘संहर्तृत्वापरपर्यायवाच्यमत्तृत्व’’मित्युक्तेर्व्यावर्त्यशङ्कां दर्शयन् संहर्तृत्वरूपत्वं साधयति ।। न चेत्यादिना ।। मृत्युनेति ।। मृत्युपदस्य मारकपर्यायत्वादिति भावः । संहारेऽदधातोः शक्तिं चाह ।। भक्षणस्येति ।। रूढिं चाह ।। अद्यत इत्यादिना ।। स्मार्तप्रयोगं चाह ।। ससर्गेति ।। अत्ता निखिलस्यैक एव त्विति निखिलपदप्रयोगात्स्रष्टृत्वप्रतियोगित्वात् संहर्तेति गम्यत इति भावः । एवं लिङ्गस्य सावकाशत्वमुक्त्वा प्रकरणस्यापि तदग्रे विवक्षुर्निरवकाशत्वं तावदुपेत्योपपत्तिमाह ।। नैवेहेति ।। ‘‘नैवेह किंचनाग्र आसीन्मृत्युनैवेदमावृतमासीदशनायया अशनायां हि मृत्युः तन्मनोऽकुरुतात्मन्वी स्यामिति सोऽर्चन्नचरत् तस्यार्चत आपोऽजायन्त तद्यदपां शर आसीत् तत्समहन्यत सा पृथिव्यभवत् तं जातमभिव्याददात् सभाणमकरोत् सैव वागभवत् स ऐक्षत यदि हवा इममभिमंस्ये कनीयोऽन्नं करिष्य इति स तया वाचा तेनात्मनेदं सर्वमसृजते’’ति मृत्युमात्रावशेषाप्संवत्सरसृष्टिसंवत्सरादनोद्यमादिश्रवणेन प्रकरणस्य वैष्णवत्वेऽपीत्यर्थः ।। दर्शपूर्णमासेति ।। तृतीयस्य तृतीयपादेऽष्टादशेऽधिकरणे ‘‘पौष्णं पेषणं विकृतौ प्रतीयेताचोदनात्प्रकृतौ’’ इति सूत्रे दर्शपूर्णमासप्रकरणे ‘‘पूषा प्रपिष्टभाग’’ इति श्रुतं पूषदेवताकं पेषणम् । तत्र प्रकरणे पूषाभावाद्यत्र पूषा तत्र वाक्यमुत्कृष्यत इत्युक्तम् । तद्वदिदमप्यत उत्कृष्य यत्रादितिप्रकरणमस्ति तत्र निवेश्यतामित्यर्थः ।। अभिक्राममिति ।। तत्रैवाद्यपादे ‘‘कर्तृगुणे तु कर्मासमवायाद्वाक्यभेदः स्या’’दिति नवमेऽधिकरणे दर्शपूर्णमासप्रकरणे प्रयाजसमीपे ‘‘अभिक्रामं जुहोती’’ति होमानुवादेन विधीयमानमभिक्रमणं प्राकरणिकसर्वहोमाङ्गमुत प्रयाजहोमाङ्गमिति संशये फलाभावेनेत्थंभावतिरोधानेनाङ्गानामित्थंभावाकाङ्क्षानुत्थानात् उत्थाने वा तेषामव्यवस्थयाऽन्योन्याङ्गांगिभावापत्तेः प्रयाजानामवान्तरप्रकरणाभावात् सन्निधेश्च दौर्बल्यात् प्रकरणेन दर्शपूर्णमासभावनासम्बन्धात्तदीयसर्वहोमाङ्गमिति प्राप्ते ‘‘समानयत उपभृतः’’ ‘‘योवै प्रयाजानां मिथुनं वेदे’’त्यभितः प्रयाजसम्बन्धिनोऽभिक्रमणस्यान्यत्रान्वयायोगात् प्रयाजानामवान्तरप्रकरणसम्भवेना-व्यवस्थाप्रसङ्गाभावात् प्रबले नावान्तरप्रकरणेन प्रयाजहोमाङ्गमिति सिद्धान्तितं तद्वदित्यर्थः । प्रकरणस्य वैष्णवत्वमभ्युपेत्योक्तम् । इदानीं तदेव नेत्याह ।। यद्वेति ।। सयद्यदेवेति पुल्लिङ्गव्यपदेशस्तु पुंशक्तियोगाद्युज्यत इति भाष्यादावेवोक्तम् । विवरिष्यते चाक्षारार्थोक्तिप्रस्ताव इति भावः ।
चन्द्रिकाबिन्दुः
ननु सर्वशब्दस्य सङ्कोचकल्पनमेवास्वरसमित्याह ।। स्वीकृतश्चेति ।। भाष्योक्तश्रुत्यादिना निरस्यं पूर्वपक्षं दर्शयति ।। यद्वेति ।। आद्यः पक्षः । आद्ये पक्षेऽत्रापि पूर्ववत् ।। अयुक्तेति ।। सर्वात्तृत्वस्यादितावनङ्गीकारादिति भावः ।। संहर्तृत्वापरपर्यायमिति ।। टीकाभिप्रायं दर्शयितुमाह ।। न चेति ।। एवमत्तृत्वं ब्रह्मणि संहर्तृत्वमेवेत्युपपाद्य अदधातोः संहारे प्रयोगान् दर्शयति ।। अद्यतेऽत्ति चेति ।। प्रकरणादिति सूत्रव्यावृत्त्यर्थं पूर्वपक्षमाह ।। नैवेह किञ्चनाग्र इत्यादिना ।। सर्वात्तृत्वादिकमिति ।। आदिशब्देनादितिश्रुतिरपि ग्राह्या । अस्याश्च विष्णोरन्यत्र निरवकाशत्वं अन्वाख्यानपक्षेऽपीत्यादिनोपपादयिष्यते ।
पाण्डुरङ्गी
नन्वेवमदितिशब्दस्य प्रसिद्धादितिपरत्वे सर्वात्तृत्वानुपपत्तिरित्यतः सुधानुसारेण सर्वशब्दार्थमाह ।। श्रुताविति ।। सर्वं वा अत्तीति श्रुतावित्यर्थः । नन्वेवं सर्वशब्दस्यादित्यदनयोग्यसर्वपरत्वे सङ्कोचितत्वं स्यात् । तच्चायुक्तम् । असङ्कुचितार्थसम्भवे तत्परित्यागेन सङ्कुचितार्थकल्पनस्यायुक्तत्वादित्यत आह ।। स्वीकृतश्चेति ।। टीकानुसारेण सर्वशब्दार्थमाह ।। यद्वेति ।। अत्र चाद्यः पक्ष इति ।। अदित्यदनयोग्यसर्वपर एव श्रुतिस्थः सर्वशब्द इत्याद्यः पक्ष इत्यर्थः ।। द्वितीय इति ।। श्रुतिबलाददितेरेवासङ्कुचितसर्वात्तृत्वमिति द्वितीय इत्यर्थः । आद्यपक्षेऽप्यदित्यदनयोग्यसर्वपर एव सर्वशब्द इति पूर्वपक्षेऽपीत्यर्थः ।। अदितेरिति ।। अयं भावः । किमत्र सर्वसंहर्तृत्वमीश्वरलक्षणमुत कतिपयसंहर्तृत्वम् । नाद्यः । अदित्या संहरणीयवस्तुसंहर्त्तृत्वाभावेनासम्भवात् । न द्वितीयः । कतिपयसंहर्तृत्वस्यादितावपि सद्भावेनातिव्याप्तत्वात् आद्यपक्षेऽप्यतिव्याप्त्युक्तिरुपपद्यत इति । ननु टीकायां संहर्तृत्वापरपर्यायवाच्यमत्तृत्वमित्युक्तम् । तत्कथमित्यतस्तदुपपादयितुं शङ्कते ।। नचेति ।। पक्षद्वयं प्रागुक्तम् । द्वितीयसूत्रोक्तं हेतुमन्यथयति ।। नैवेहेति ।। ननु च दर्शपूर्णमासप्रकरणात् पूष्णश्चातुर्मास्येषूत्कर्षः सम्भवति । अत्र च तददितेरदितित्वमित्यादेः कुत्रोत्कर्षः स्थानाभावादित्यत आह ।। अथवेति ।। नन्वभिक्रमणस्यावान्तरप्रकरणं च तस्य प्रयाजादिविषयैर्वाक्यैः पूर्वं पश्चाच्च संदृष्टत्वात् । अत्र तदभावात्कथमवान्तरप्रकरणत्वमित्यरुचेराह ।। यद्वेति ।।