नचैवं यत्सम्बन्धात्सर्वगतत्वस्यान्यत्र प्रसिद्धता..
अन्यत्रप्रसिद्धस्य सर्वगतत्वस्य लिङ्गपादे समन्वयायोगशन्काया: परिहार:
तात्पर्यचन्द्रिका
नचैवं यत्सम्बन्धात्सर्वगतत्वस्यान्यत्र प्रसिद्धता तन्नामसमन्वय एवोच्यतामिति वाच्यम् । अन्तर्यामित्वादेर्लिङ्गस्य पृथिवीशरीरत्वादिलिङ्गसम्बन्धादेवान्यत्रप्रसिद्धत्वात्तत्समन्वयार्थं पादान्तरे कार्ये तत्सङ्गत्यर्थमत्रापि लिङ्गस्यैव समन्वेतव्यत्वात् । न च यत्र लिङ्गं नामसम्बन्धादन्यत्र प्रसिद्धं तदधिकरणं नामसमन्वयपरमाद्यपादस्थं चास्त्विति वाच्यम् । तथात्व आदित्यादिशब्दप्रवृत्तिनिमित्तगुणस्यान्तरधिकरणेनैव लब्धतया साक्षादपूर्वगुणालाभात् । अर्भकौकस्त्वादिपूर्वपक्षमूलयुक्तेः प्रसिद्धोपदेशादिसिद्धान्तयुक्तेश्च सर्वगतवाक्य इवादित्यवाक्येऽसत्त्वाच्च । नामपादे नामसमन्वये हेतुतयोक्तलिङ्गसमन्वयस्यैवेहाकाङ्क्षितत्वाच्च । तस्मादादित्यश्रुतितः सूर्यप्राप्तिर्युक्ता । सौरमन्त्रोदाहरणाच्च तत्प्राप्तिः । मन्त्रे ‘‘चक्षुर्मित्रस्ये’’ति चक्षुष्ट्वश्रवणात्तस्य च ‘‘आदित्यश्चक्षुर्भूत्वे’’त्यादिश्रुत्याऽऽदित्यलिङ्गत्वात् । उक्तादित्यश्रुत्युपोद्बलिताद्विशिष्यादित्येऽनुक्तत्वलिङ्गाच्च तत्प्राप्तिः । चक्षुर्मयत्वादिलिङ्गाच्च सर्वजीवानां प्राप्तिः । आनन्दमयोक्तस्य कोह्येवान्यादिति प्राचुर्यार्थे हेतुव्यपदेशस्य तत्प्रायपाठस्य चात्राभावेन तन्न्यायाविषयत्वात् । ज्ञानकरणतया प्रसिद्धचक्षुरादिसम्बन्धस्यैव नित्यज्ञानेऽन्तर्यामिण्यप्यसम्भवेन तत्प्राचुर्यस्य सुतरामसम्भवाच्च ।
प्रकाशिका
ननूक्तरीत्याऽऽदित्यादिश्रुत्या निरवकाशत्वे तस्या एव समन्वय उच्यताम् । तस्याः स्वत एवान्यत्र प्रसिद्धत्वात् । किं तत्साहित्येनान्यत्र प्रसिद्धलिङ्गसमन्वयेन । न चाद्यपक्षे श्रुतेरप्यन्यसाहित्येनैवान्यत्र प्रसिद्धिर्नतु स्वत इति वाच्यम् । उत्तरपक्षद्वये तदभावात् । आद्येपि श्रुतेर्लिङ्गसाहित्येनैवान्यत्र प्रसिद्धता सर्वगतत्वस्य त्वादित्यश्रुतिसाहित्येनापीति विलंबितत्वमिति भावेनाशङ्क्य निरस्यति ।। न चैवमिति ।। किं सर्वत्रैवं सम्भवेन लिङ्गसमन्वयार्थपादान्तरमेव मास्त्वित्याशय उत पादान्तरारम्भेप्यस्योक्तरीत्याश्रयणेन पूर्वत्रैव निवेशः स्यादिति । आद्य आह ।। अन्तर्यामित्वेति ।। अत्रापीति ।। ननु वैश्वानराधिकरणस्येव फलतस्सा भविष्यति । न च पाचकत्वाद्यनेकलिङ्गसमन्वयार्थमेकनामसमन्वयस्तत्रोच्यत इति वाच्यम् । इहापि संवत्सरसारत्वाद्यनेकलिङ्गसमन्वयार्थत्वसम्भवादिति चेत्सत्यम् । साक्षात्सङ्गतिसम्भवे फलतस्तदुक्त्ययोगात् । नामसमन्वयस्य वक्ष्यमाणदोषग्रस्तत्वाच्चेति तात्पर्यात् । द्वितीयमाशङ्क्य निराह ।। न चेति ।। अन्तरिति ।। तत्र सर्वदेवतावाचकपदप्रवृत्तिनिमित्तस्येशगतत्वस्यान्यगतस्य च तदधीनत्वस्य च साधनादिति भावः । एतच्चाद्यपक्षानुरोधेनोक्तमिति ध्येयम् । अग्रिमपक्षद्वय आदित्यादिशब्दप्रवृत्तिनिमित्तगुणलाभस्यान्तरित्यत्राभावात् । युक्त्यन्तरमाह ।। अर्भकौकस्त्वादीति ।। हेतुतयोक्तेति ।। उक्तलिङ्गजातीयेत्यर्थः । आक्षिप्तं टीकोक्तं प्रापकान्तरं च साधयति ।। सौरेति ।। न च सूर्यादिशब्दस्सावकाश इत्युक्तमिति वाच्यम् । चक्षुष्ट्वलिङ्गेन तदुज्जीवनादित्याह ।। मन्त्र इति ।। ‘‘आदित्यश्चक्षुर्भूत्वाऽक्षिणी प्राविश’’दिति तस्यामेव श्रुतौ चक्षुष्ट्वोक्तेरित्यर्थः ।
प्रागाक्षिप्तं टीकोक्तं प्रापकान्तरमपि समर्थयते ।। उक्तेति ।। यद्यपि सर्वेषु भूतेष्विति सामान्येन भूतपदेनादित्यस्यापि ग्रहणात्तद्गतत्वोक्तिरस्ति । तथापि चन्द्रमस्येतमितिवदादित्य एतमिति विशिष्यानुक्तत्वलिङ्गात्तत्प्राप्तिः । अन्यथा तथोक्तिस्स्यादेव । अनुक्तौ कारणाभावादित्यर्थः । अत एव टीकायां ‘‘एतमादित्य इत्युक्तिः स्या’’दित्युक्तम् । एवमादित्यकोटिकपूर्वपक्षं टीकोक्तं समर्थ्येदानीं न्यायविवरणगतादित्यपदोपात्तजीवलिङ्गेन ‘‘सर्वजीवानां वा एतत्सर्वगतत्व’’मिति टीकोक्तजीवकोटिकपूर्वपक्षं च समर्थयते ।। चक्षुर्मयत्वादीति ।। ‘‘चक्षुर्मयश्श्रोत्रमयश्छन्दोमयो मनोमयो वाङ्मय आत्मेति वाक्ये श्रुतानि टीकोक्तान्यादिपदार्थः। ननूक्तमत्र मयटः प्राचुर्यार्थत्वेन पूर्णज्ञानत्वादिना तदुपपत्तेरित्यतस्तद्वैषम्यमाह ।। आनन्दमयेति ।। यदेष आकाशनामा विष्णुः पूर्णानन्दो नस्यात्तर्ह्ययं न जगच्चेष्टयेत् । प्रवृत्तिहेतूनां चतुर्णां मध्ये दुःखोद्रेकरागद्वेषशून्यस्य सुखोद्रेकैकनिबन्धनत्वात्प्रवृत्तेः । यद्ययं नचेष्टयेत्तर्हि चेष्टयेन्नकोपीति पूर्णानन्दत्वसाधकजगच्चेष्टकत्वरूपहेतुव्यपदेशस्य भावेन तत्र प्राचुर्यार्थत्वेऽपीह तदभावेन तन्न्यायाविषयत्वादित्यर्थः । अत एव हेतुव्यपदेशादिति सूत्रं प्राचुर्यार्थत्वेपि योजितमिति भावः । नन्वानन्दमये हेतुव्यपदेशेऽपि विज्ञानमयमनोमयादौ तदभावेपि प्राचुर्यार्थत्वं स्वीकृतमित्यत आह ।। तत्प्रायेति ।। आनन्दमयप्रायपाठस्येत्यर्थः । जीवेऽपि विकारार्थत्वायोगादकामेनाप्युपेयं प्राचुर्यार्थत्वमित्यत आह ।। ज्ञानेति ।। यद्वा प्राचुर्यार्थत्वेऽप्यनुपपत्तिमाह ।। ज्ञानेति ।। ज्ञानकरणत्वेन प्रसिद्धं यच्चक्षुरादि तत्सम्बन्धस्यैवासम्भवेन तद्वाहुल्यरूपप्राचुर्यस्य सुतरामयोगादित्यर्थः । प्रसिद्धपदेन चक्षुःपदस्याप्रसिद्धार्थस्वीकारे प्रसिद्धिबाध इति सूचितम् । ‘‘ज्योतिराद्यधिष्ठानं तु तदामनना’’दित्यत्र द्वितीये चक्षुरादिकरणानामीश्वरप्रयोज्यत्वेन तदीयत्वमुच्यते । नतु जीवस्येव ज्ञानजनकतया तत्सम्बन्ध इति भावेनोक्तं सम्बन्धस्यैवेति । तत्र हेतुर्नित्यज्ञान इति । एतेनान्तर्यामिविषयतयोपपन्नमिति प्रत्युक्तम् । तस्यापि नित्यज्ञानत्वादिति ।
चन्द्रिकाबिन्दुः
लिङ्गात्मकशब्दसमन्वयार्थमेकस्य पादस्यावश्यकतां दर्शयितुमाह ।। अन्तर्यामित्वादेरिति ।। साक्षादिति ।। अव्यवधानेनैव सर्वगतत्वादिगुणलाभादित्यर्थः ।। हेतुतयोक्तेति ।। प्राणशब्दवाच्यो विष्णुरेवेत्यत्र हेतुतयोदाहृतब्रह्मततममित्यादिश्रुत्युक्तव्याप्तत्वस्येत्यर्थः ।।
पाण्डुरङ्गि
नन्वादित्यश्रुतेर्भगवत्परत्वे तन्निष्ठत्वेन श्रुतस्य सर्वगतत्वस्यापि भगवत्परत्वसिद्धिः स्यादेवेत्यत उक्तं साक्षादिति । अस्तु वा सौरमन्त्रोदाहरणात्सूर्यप्राप्तिरित्याह ।। सौरेति ।। ननु सर्वेष्विति सर्वशब्देनादित्यस्यापि ग्रहणसम्भवात्कथं सावकाशेनानुक्तत्वलिङ्गेन निर्णयः स्यादित्यत आह ।। उक्तादित्येति ।। ननु कथं चक्षुर्मयत्वादिलिङ्गाज्जीवप्राप्तिः । आनन्दमयाधिकरणन्यायेन प्राचुर्यार्थतया चक्षुर्मयत्वादेर्ब्रह्मणि सावकाशत्वादित्यत आह ।। आनन्दमयोक्तस्येति ।। ननु तथापि पादांत्यप्राणाधिकरणन्यायेनान्तर्यामिविषयतया चक्षुर्मयत्वं भगवति सावकाशमित्यत आह ।। ज्ञानकरणतयेति ।।