यद्यपि तृतीयेऽध्याये ‘‘असार्वत्रिकी’’

देवताधिकरणम्

तात्पर्यचन्द्रिका

संगतिकथनपूर्वकं विषयचिन्तानिरूपणम्

।। ॐ तदुपर्यपि बादरायणः सम्भवात् ॐ ।।

यद्यपि तृतीयेऽध्याये ‘‘असार्वत्रिकी’’ त्यादावधिकारचिन्ताऽस्ति । तथापि पूर्वाधिकरणस्थमनुष्यग्रहणस्य विशिष्टबुद्ध्यादिहीनं तिर्यगाद्येव व्यावर्त्यं न तु देवादीत्यनेन रूपेणेयं चिन्ता न तृतीये सङ्गता । किं त्वत्रैव । यथा पश्वेकत्वादिशेषत्वचिन्ता शेषत्वरूपेण तृतीये सङ्गताप्यौपादानिकत्वरूपेण चतुर्थ एव सङ्गता । यथा च ‘‘भोक्त्रापत्ते’’रिति मुक्तेशयोर्भेदसमर्थनं फलविचाररूपेण चतुर्थे सङ्गतमपि युक्तिविरोधपरिहाररूपेण द्वितीये सङ्गतं तद्वत् । न चेह तृतीयेऽधिकारः प्रतिपाद्यः । येन साक्षादध्यायसङ्गतिलोभादियं चिन्ता तत्र स्यात् । किं त्वत्र समन्वय इव तत्रापि साधनमेव प्रतिपाद्यमिति प्रसङ्गादत्रैव युक्ता । अवान्तरसङ्गतिस्तु पूर्वोक्तस्य मनुष्यपदस्येह व्यावर्त्योक्तेर्वा सर्वदेवोपास्यत्वस्याक्षेपेण पूर्वपक्षोत्थानाद्वा ।

ननु देवादीनामधिकारोक्तिस्तावन्नास्मदादीनां प्रवृत्तावुपयुक्ता । नापि देवादीनाम् । तैः स्वगतस्य विग्रहादिमत्त्वस्य तत्प्रयुक्तस्य सामर्थ्यादिरूपाधिकारिविशेषणस्य च सिद्धान्तन्यायनिरपेक्षमेव निश्चितत्वात् । तस्मादफलेयं चिन्तेति चेत्सत्यम् । देवादीनां विग्रहाद्यभावादनधिकार इति पूर्वपक्षयतां परेषामयं दोषः । अस्माकं तु देवादिपदानां नित्यत्वात्तेषां मुमुक्षा न युक्तेति पूर्वपक्षयतां न दोषः । पूर्वपक्षन्यायेन देवानां स्वपदनित्यत्वाशङ्कया मुमुक्षाभावोपपत्तेः । अस्मदादीनां सर्वदेवोपास्यत्वप्रकारेण ब्रह्मज्ञानाभावापाताच्च । ‘‘विश्वेदेवा उपासत’’ इति श्रुत्यप्रामाण्यापातस्य टीकायामेवोक्तत्वाच्च । न चाप्रामाण्येन पूर्वपक्षो द्वितीयाध्याय एव युक्त इति वाच्यम् । विश्वजिदधिकरणपूर्वपक्षस्याप्रामाण्यपर्यन्तस्यापि षष्ठ इवास्य विचारस्यावान्तरसङ्गतिलोभेनात्रापि युक्तत्वाच्च । अत्र देवानां किं ब्रह्मविद्याधिकारो नास्त्युतास्तीति चिन्ता । तदर्थं तेषां किं मोक्षेऽर्थिता नास्त्युतास्तीति । तदर्थं तत्तत्पदविशिष्टादेवाः किमनादिनित्याः किं वाऽऽद्यन्तवन्त इति । तदर्थं किमाद्यन्तवत्त्वे कर्मशब्दौ विरुध्येते नवेति ।

प्रकाशिका

ननु कथमस्याधिकारचिन्तापरस्य समन्वयाध्यायादौ सङ्गतिः । न च ‘‘प्रासङ्गिकत्वान्नाध्यायादिसङ्गतिर्गवेषणीये’’ति टीकोक्तेः प्रासङ्गिकीति वाच्यम् । तथात्वे ज्ञानपादे ‘‘असार्वत्रिकी’’ति द्वितीयाधिकरणे ब्रह्मज्ञाने सर्वेषामधिकारोऽस्ति न वेति सन्देहे ज्ञानफले मोक्षे सर्वेषामर्थित्वादेरधिकारप्रयोजकस्य सत्त्वेनास्त्यधिकार इति प्राप्ते अर्थित्वादिमात्रस्याधिकाराप्रयोजकतया विष्णुभक्तयादिपूर्वकाध्यायनादिमत्त्वस्यापि प्रयोजकतया सर्वेषां तथात्वायोगेन न सर्वेषामधिकार इति वक्ष्यमाणत्वेन तत्रैव निवेशप्रसङ्गात् । तथात्वे साक्षात्सङ्गतिसम्भवाच्चेत्याशङ्क्य प्रसञ्जकोक्तिपूर्वमत्रैव निवेशं साधयति ।। यद्यपीति विशिष्टेति ।। हिताहितप्राप्तिपरिहारोपायविषयेत्यर्थः । तत्र पूर्वोत्तरमीमांसासिद्धे उदाहरणे आह ।। यथेति ।। पश्वेकत्वाधिकरणमुक्तं प्राक् छन्दोधिकरणे । यथा गुरुमते चतुर्थे उपादानाख्यप्रमाणविचारादौपादानिकस्य पश्वेकत्वादिशेषत्वस्य शेषत्वरूपेण तृतीये सङ्गतस्यापि चतुर्थे सङ्गतिस्तथेत्यर्थः । गुरुमते हि श्रुत्यादिप्रमाणषट्कसिद्धशेषत्वचिन्ता तृतीये औपादानिकशेषत्वचिन्ता चतुर्थे विधिव्यापारमुपादानाभिधानं सप्तमं विनियोजकं प्रमाणमिति हि गुरुमतम् । तदुक्तं नयविवेकवरदराजीये ‘‘औपादानिकक्रतुशेषत्वचिन्तारूपतयाऽध्याये पेटिकायां च पूर्वत्रोपादानतो विधिकल्पने वाऽत्रापि तस्य कल्पनायुक्तेत्युक्तेरवान्तरसङ्गति’’रिति ।। यथा चेति ।। युक्तिपादे ‘‘भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकव’’दिति पञ्चमेऽधिकरणे विष्णोर्विश्वकर्तृत्वं युक्तं न वेति सन्देहे ‘‘परेऽव्यये सर्व एकीभवन्ती’’ति श्रुत्या मुक्तावीश्वरस्य जीवैक्योक्तया संसारेप्यैक्यस्यावश्यकत्वाज्जीवाभिन्नस्य विश्वकर्तृत्वायोगान्न युक्तमिति प्राप्ते एकीभवन्तीत्यस्य स्थानैक्यादिनोपपत्त्या मुक्तौ जीवैक्यस्यैवासिद्ध्या प्रागपि तदभावेन जीवभिन्नस्य विष्णोर्युक्तं जगत्कर्तृत्वमिति वक्ष्यमाणतया तस्य यथा जीवाभिन्नत्वादिति युक्तिविरोधपरिहाररूपेण सङ्गतिस्तद्वदित्यर्थः । उक्तं च तत्र भाष्ये ‘‘फलत्वेपि युक्तिविरोधेंऽतर्भावादत्रोक्त’’मिति । यदपि तृतीये निवेशे साक्षात्सङ्गतिरिति तदपि नेत्याह ।। न चेति ।। इहेति पूर्वतन्त्रव्युदासाय । अध्यायपादान्तर्भावं टीकोक्तं प्रासङ्गिकमुपपाद्यानन्तरसङ्गतिमाह ।। अवान्तरेति ।। आद्या ‘‘मनुष्यपदं तिर्यगादिव्यावृत्त्यर्थं प्रयुक्त’’मिति टीकासूचिता । द्वितीयातु ‘‘स च यदि न देवानां स्यात्तदा विश्वेदेवा उपासत इत्यादिश्रुत्यप्रामाण्यं प्रसज्येते’’ति टीकयेति भावः । ननु प्रासङ्गिकमपि फले सत्येव चिन्तनीयम् । अन्यथाऽतिप्रसङ्गात् । इह च फलं नास्तीत्याक्षिपति ।। नन्विति ।। नास्मदिति ।। तदज्ञानेपि स्वगतार्थित्वादिज्ञानेनैव प्रवृत्त्युपपत्तेरिति भावः ।

निश्चितत्वादिति ।। प्रत्यक्षेणैवेति भावः ।। परेषामिति ।। एतेन यदुक्तं कल्पतरौ ‘‘अधिकारचिन्तेयं यद्यपि न देवादिप्रवृत्त्यर्था तथापि क्रममुक्तिफलोपास्तिषु भोगद्वारा मोक्षकाममनुष्यप्रवृत्त्यर्थे’’ति तन्निरस्तम् । उपास्तीनां क्रममुक्तिफलकत्वं नाम देवतापदप्राप्तिद्वारा मुक्तिपर्यंतत्वम् । तच्च विग्रहादिमच्चेतनरूपदेवतासद्भावसमर्थनमात्रेण सिध्यतीत्यधिकारसद्भावपर्यन्तचिन्ताया व्यर्थत्वात् । एतेनैव देवतानां सिद्धावन्तरादित्यादिविद्यादिष्वादित्यदेवतान्तर्वृत्तित्वेन ब्रह्मोपासनं न तु ज्योतिर्मण्डलान्तर्वर्तित्वेनेत्यादिप्रयोजनं परिमग्रन्थोक्तमपि प्रत्युक्तं ध्येयम् । अधिकारपर्यंतचिन्तायाः कृत्याभावात् । अभिमानिसूत्र एव विग्रहादिमद्देवतायास्सिद्धत्वाच्च । देवादीनां प्रवृत्तावुपयुक्तेयमधिकारिचिन्तेति भावेनाह ।। पूर्वपक्षन्यायेनेति ।। टीकोक्तपूर्वपक्षे फलेऽनुपपत्तिमाशङ्क्य समाधत्ते ।। न चेति ।। विश्वजिदिति ।। उक्तमधिकरणशरीरं प्राग्जिज्ञासाधिकरणे । तस्य पूर्वपक्षे पुरुषार्थभाव्यकत्वानङ्गीकाराद्विध्यानर्थक्येन शास्त्राप्रामाण्यमुक्तम् । तथाच तस्याद्याध्याये निवेश्यत्वेऽप्यन्यत्र निवेशस्तथाऽत्रापीत्यर्थः ।

ननु विश्वजिद्वाक्यं चतुर्थे ‘‘चोदनायां फलाश्रुतेः कर्ममात्रं प्रतीयेत नह्यशब्दं प्रतीयत’’ इति तृतीयपादीयपञ्चमाधिकरणे विचारितमित्यवादि । तथाच कथं षष्ठ इत्युक्तिः । सत्यम् । अनेकोदाहरणसूचनायैवमुक्तिः । तथाहि । विश्वजिदित्युक्तया तस्य यथा चतुर्थे निवेश इति लभ्यते । षष्ठ इत्युक्तया स्वर्गकामाधिकरणस्य तादृशस्यापीति लभ्यते । यद्वा षष्ठगतस्वर्गकामाधिकरणे चतुर्थाध्यायोक्तन्यायसिद्धस्वर्गपदोपेतस्य विश्वजिदादेरप्युदाहरणत्वात्तदभिप्रायेण विश्वजिदित्युक्तमिति । गुरुपादास्तु चतुर्थ इति वक्तव्ये षष्ठ इति पाठो लेखकदोषमूल इत्याहुः ।। अवान्तरेति ।। पयोव्रतं ब्राह्मणस्येत्यस्य फलाश्रवणादपुरुषार्थत्वमिति पूर्वाधिकरणोक्तरीत्या विश्वजिदादीनामपि फलाश्रवणादपुरुषार्थत्वमित्यादिरूपावान्तरसङ्गतिलोभेन फले सत्येव विधेः प्रयोजकत्वं नान्यथेति प्रयोजकत्वौपयिकत्वरूपावान्तरसङ्गतिलोभाद्वा यथाप्रयुक्तयध्यायादौ निवेशस्तथेहाप्युक्तसङ्गतिलोभेनात्र निवेश इत्यर्थः । उक्तं च तन्त्ररत्ने

यथाऽश्रुतफलत्वेन व्रतस्यापुरुषार्थता ।

तथा विश्वजिदादीनां नह्येष्वपि फलं श्रुतम् ।।

न च क्रत्वर्थता तेषामध्वश्रुत्याद्यभावतः ।

अतो निष्फलता यातेत्येवं प्रकृतसङ्गतिः ।।

विधेः प्रयोजकत्वं च फले सत्येव कल्प्यते ।

फलं चैतेषु नास्तीति स्पष्टैवाध्यायसङ्गतिः ।। इति ।।

विषयसंशयटीकां व्यनक्ति ।। अत्रेति ।। मोक्ष इति ।। विद्यासाध्यतया तत्फलरूपमोक्ष इत्यर्थः ।। अर्थितेति ।। अर्थी समर्थो विद्वानधिक्रियत इति न्यायेन फलेऽर्थितादेस्तद्धेतुविद्याधिकारप्रयोजकत्वेनोक्तेरिति भावः ।। अनादीति ।। स्वपदानामनादिनित्यत्वे आत्मनो मोक्षाभावनिश्चयेन तत्रार्थित्वादेरयोगादिति भावः । स्वरूपेऽविवादात्तत्तत्पदेत्युक्तम् । इयं चिन्ता तदुपर्यपीत्यनेन सूचिता ।। कर्मेति ।। इन्द्रादिपदप्राप्तेः पूर्वं पश्चाच्चेन्द्रादिदेवताभावेन तदुद्देशेन द्रव्यत्यागात्मकयागायोगरूपकर्मविरोधः अनादेश्शब्दस्य साद्यर्थसम्बन्धायोगरूपशब्दविरोध इत्यर्थः । इयं द्वितीयादिसूत्रत्रयसूचिता । तथा तदर्थमिन्द्रादिदेवव्यक्तयः किमेकैका उतानेकाः । अनेकत्वेऽपि ता नानानामरूपा उत समाननामरूपा इति चिन्ता समानसूत्रसूचिता स्पष्टत्वान्नोक्ता । यदि वक्ष्यमाणादिशा कर्मशब्दौ विरुध्येते तदा तन्निरासाय तेऽनादिनित्या एवोपेया इति तेषां तादृशानां मोक्षे वक्ष्यमाणदिशाऽर्थितादेरयोगान्नास्ति ब्रह्मविद्यायामधिकार इति पूर्वपक्षे फलम् । यदात्विन्द्रादिव्यक्तीनामाद्यन्तवत्त्वेपि तत्प्रवाहस्यानादिनित्यतया कर्मशब्दविरोधोनास्ति तदा बाधकाभावेन तेषामाद्यन्तवत्वयोगेन नित्यफले मोक्षेऽर्थितादेस्सम्भवेनास्ति तद्धेतुब्रह्मविद्यायामधिकार इति सिद्धान्ते फलमिति स्पष्टत्वात्फलफलिभावो नोक्तः ।

चन्द्रिकाबिन्दुः

अधिकारचिन्ताऽस्तीति ।। तथा च देवानां ब्रह्मविद्याधिकारचिन्तापि तत्रैव सङ्गतेति भावः ।। पश्वेकत्वेति ।। पशुनेत्यत्र पदैकत्वं पशुशेषः । तस्य शेषत्वविचारश्च तृतीये सङ्गत इति भावः ।। औपादानिकत्वरूपेणेति ।। अर्थापत्तिप्रमाणगम्यत्वरूपेणेत्यर्थः । अर्थापत्तिप्रमाणस्यैव चतुर्थे विचार्यत्वादिति भावः । तृतीयाध्यायेऽपि देवाधिकारविचारस्य प्रासङ्गिकी सङ्गतिर्वक्तव्या । सा चात्रैवेत्यभिप्रेत्याह ।। न चेति ।। अधिकारविचारस्य प्रवृत्त्युपयोगित्वेन षष्ठाध्याये उक्तत्वात् । अत्र देवाधिकारविचारः प्रवृत्त्युपयुक्तो न भवति । अतो व्यर्थो विचार इत्यभिप्रेत्य शङ्कते ।। नन्विति ।। नास्मदादीनामिति ।। अन्याधिकारविचारस्यान्यप्रवृत्त्यनुपयोगादिति भावः ।। निरपेक्षमेवेति ।। तथा च देवान् प्रत्यपि अधिकरणारम्भो व्यर्थः । यतः स्वाधिकारस्य निश्चितत्वादेवेति भावः । ननु देवैः स्वपदानित्यत्वस्यापि ज्ञातत्वेन कथमस्मन्मतरीत्यापि पूर्वपक्ष इत्याशङ्क्याह ।। पूर्वपक्षन्यायेनेति ।। कर्मविरोधशब्दविरोधाख्येनेति शेषः । अस्मदादीन् प्रत्यपि देवाधिकारनिश्चयः आवश्यक इत्यभिप्रेत्याह ।। अस्मदादीनामिति ।। अवान्तरसङ्गतिद्वारेति ।। पूर्वाधिकरणोक्तविश्वदेवोपास्यत्वाक्षेपद्वारेत्यर्थः ।। ब्रह्मविद्याधिकार इति ।। यद्यपि टीकायां वेदविद्याधिकारो देवानामित्यादिरूपेण चिन्ता दर्शिता । तथापि कर्मब्रह्मसाधारणवेदविद्याधिकारमात्रे चिन्ता कर्तव्येति निर्बन्धो नास्तीति सूचयितुं ब्रह्मविद्येत्युक्तमित्यदोषः । टीकोक्तविकल्पे विरोधास्फुरणात् स्वयं तद्विकल्पाभिप्रायमाह ।। तत्तत्पदविशिष्टा देवा इति ।।

पाण्डुरङ्गि

श्रुत्यादिप्रमाणषट्कसिद्धशेषत्वचिन्ता तृतीये । औपादानिकशेषत्वचिन्ता चतुर्थे । पूर्वोत्तरमीमांसोदाहरणे दर्शयति ।। यथेति ।। पश्वेकत्वाधिकरणं छन्दोधिकरणेऽनुक्रान्तम् । यथा गुरुमते चतुर्थ उपादानाख्यप्रमाणविचारादौपादानिकस्य पश्वेकत्वादिशेषत्वस्य शेषत्वरूपेण तृतीये सङ्गतस्यापि चतुर्थे सङ्गतिस्तथेत्यर्थः ।। व्यावर्त्योक्तेरिति ।। अनेन प्रपञ्च्यप्रपञ्चकभावसङ्गतिरुक्ता भवति ।