न चाकाशपदस्य प्रसिद्ध्यनुसरणे भूताकाशपरता
अस्थूलत्वादे: विष्णावेव प्रसिद्धि:
तात्पर्यचन्द्रिका
न चाकाशपदस्य प्रसिद्ध्यनुसरणे भूताकाशपरता । आकाशाधिकरणानुसरणे च ब्रह्मपरता । न तु जडाजडपरत्वमिति पूर्वपक्षः सिद्धान्तश्चायुक्त इति वाच्यम् । ‘‘आकाशस्तल्लिङ्गा’’दित्यत्र प्रसिद्धित्यागेन लिङ्गानुसार्यर्थपरत्वस्योक्ततया लिङ्गानुसारिप्रकृतिपरताया अपि तन्न्यायसिद्धत्वात् । किञ्च ‘‘अक्षरस्य प्रशासने’’ इत्यत्र प्रशब्दार्थो असङ्कुचितविषयत्वानन्यायत्तत्वादिरूपप्रकर्षो भाष्योक्तश्रुत्यादिभिर्न ब्रह्मणोऽन्यत्र युक्तः । किञ्च ‘‘अस्थूलमन’’ण्वित्यादिना न स्थौल्यादिमात्रस्य निषेधः । निःस्वभावत्वापातात् । श्रुत्यन्तरविरोधाच्च । प्राकृतस्य स्थौल्यादेर्निषेधोऽपि चित्प्रकृतावीश्वर इव न निरपेक्षः । न च ‘‘यस्य पर्णमयी जुहूर्भवती’’त्यादौ प्रकृतिगतनिरपेक्षजुह्वा इवात्रापि निरपेक्षास्थूलत्वादेर्ग्रहणसम्भवे सापेक्षं ग्राह्यम् । किञ्च भाष्योक्तश्रुत्यादिभिरस्थूलत्वादि विष्णावेव प्रसिद्धम् । न च प्रसिद्धसम्भवेऽप्यप्रसिद्धं ग्राह्यम् ।
प्रकाशिका
अत्राकाशस्य चित्प्रकृतिपरत्वमाकाशनयन्यायसिद्धं चेत्येतच्छङ्कापूर्वमाह ।। न चाकाशेति ।। लिङ्गानुसारीति ।। तथा च पूर्वपक्षे सर्वाधारत्वे सत्यक्षरशब्दितश्रीतत्वाधीनत्वस्य जडप्रकृतिलिङ्गत्वात्सर्वाधारत्वे सति ब्रह्मैकाश्रितत्वस्य चित्प्रकृतिलिङ्गत्वात्सिद्धान्ते चित्प्रकृति परत्वं युक्तमिति भावः । ‘‘सा च प्रशासना’’दिति सूत्रोक्तहेतोरपि निरवकाशत्वमाह ।। किञ्चेति ।। भाष्योक्तेति ।। ‘‘सप्तार्धगर्भा भुवनस्ये’’त्यादिभिरित्यर्थः । एतेन ‘‘युक्तयन्तरेण विष्णोरेवाक्षरत्व’’मित्यादिटीकातात्पर्यार्थ उक्तो भवति । ‘‘अन्यभावव्यावृत्तेश्चे’’ति सूत्रोक्तहेतुर्भाष्यादावन्यवस्तुस्वभावानां लौकिकस्थौल्यादीनां राहित्यकथनादिति व्याख्यातः । स न युक्तः । श्रुतौ तथा प्रतीत्यभावेनासिद्ध्यापत्तेः । टीकायां लौकिकस्थौल्यादिराहित्यस्य ‘‘मध्यमाक्षरस्याप्राकृतविग्रहवत्त्वेऽपी’’त्यादिना व्यभिचारमाशङ्क्य ‘‘भगवदपेक्षयैवे’’ति समाधानमुक्तम् । तदपि न युक्तम् । निरपेक्षस्थौल्यादिराहित्यस्य श्रुतावप्रतीतेरित्यतो भाष्याद्याशयं व्यञ्जयन्नन्यभावेति सूत्रोक्तनिरपेक्षप्राकृतस्थौल्यादिराहित्यस्य श्रुत्यभिप्रेतत्वं साधयति ।। किञ्चेत्यादिना ।। अस्तु को दोष इत्यत आह ।। श्रुत्यन्तरेति ।। ‘‘अस्थूलोऽनणुरमध्यमो मध्यमो व्यापकोऽव्यापको यो हरिः । अणोरणीयान्महतो महीयान् ज्यायान्पृथिव्या दिवो ज्याया’’नित्यादिश्रुत्यन्तरविरोधाच्चेत्यर्थः । यद्वा ‘‘सर्वधर्मा सर्वनामा सर्वकर्मा गुणाश्श्रुताश्च नेत्याद्या प्रमाणं श्रुतिरत्र चे’’त्यनुभाष्योक्तश्रुत्यन्तरेत्यर्थः । सुधायां तु ‘‘सर्वत्र प्रसिद्धोपदेशात् । अत्ता चराचरग्रहणात् । रूपोपन्यासाच्चे’’त्युक्तविरोधस्स्यादित्यप्ययुक्तम् । निस्स्वभावस्य सर्वत्र स्थित्यदनादेरयोगादिति तदुपलक्षणमिति भावः ।। न निरपेक्ष इति ।। तथैव दहरनये भाष्यादौ सत्यकामत्वादिषु प्रतिपादनादिति भावः । अस्तु तर्हि श्रुतौ प्राकृतस्य स्थौल्यादेर्निषेधः । तावता निरपेक्षमेवास्थूलत्वादिकं श्रुतावुच्यत इति कुतः । येन चित्प्रकृतौ व्यभिचारो न स्यादित्यत आह ।। न च यस्येति ।। पर्णमय्यधिकरणशरीरं प्राणस्तथानुगमादित्यत्र विवृतम् । ‘‘यस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं शृृणोति । यस्य खादिरस्स्रुवो भवति छन्दसामेव रसेनावद्यति सरसा अस्याहुतयो भवन्ती’’त्यादौ प्रकृतिरूपक्रत्वर्थतया फलनिरपेक्षजुह्वनुवादेन पर्णमयीत्वविधिः । न तु पुरुषर्थतया । क्रत्वङ्गजुह्वाः क्रतुफलेनैव फलवत्त्वेन पृथक्फलानपेक्षत्वात्फलश्रुतिरर्थवाद इत्युच्यते । तद्वन्निरपेक्षस्य ग्रहणमित्यर्थः । प्राकृतस्थौल्यादिराहित्यं न चित्प्रकृतौ व्यभिचारीत्यत्र युक्तयन्तरमाह ।। किञ्चेति ।। श्रुत्यादिप्रसिद्धं विष्ण्वसाधारणमेवास्थूलत्वादिकं श्रुतौ ग्राह्यमिति कुत इत्यत आह ।। न च प्रसिद्धेति ।।
चन्द्रिकाबिन्दुः
प्रकृतिगतेति ।। जुह्वाचोदकन्यायप्राप्तत्वेन सापेक्षत्वमिति भावः । ईश्वरे स्थौल्यादिराहित्यस्य प्रसिद्धत्वाच्च तस्यैव ग्रहणमित्यभिप्रायेणाह ।। किञ्च भाष्योक्तेति ।।
पाण्डुरङ्गि
द्वितीयसूत्रोक्तहेतुमाह ।। किञ्चेति ।। तृतीयसूत्रोक्तहेतुमाह ।। किञ्चेति ।। श्रुत्यन्तरेति ।। अणोरणीयानित्यादिश्रुत्यन्तरविरोधादित्यर्थः । अस्तु प्रकृतौ प्राकृतस्थौल्यादेर्निषेधः सापेक्षः । तथापि स एव किं न गृह्यत इत्यत आह ।। न चेति ।। अन्यथा यस्य पर्णमयी जुहूर्भवतीत्यत्रापि विकृतिगतसापेक्षजुह्वा एव ग्रहणं स्यादिति भावः । ननु प्रसिद्धसम्भवे ह्यप्रसिद्धं न ग्राह्यम् । प्रकृते तु स्थौल्याणुत्वयोर्विरोधेनासम्भवादप्रसिद्धग्रहणं युक्तमेवेत्यत आह ।। न चेति ।। विरोधोऽदृष्टबाधनमित्युक्तत्वादिति भावः ।।