पूर्वपक्षस्तु

पूर्वपक्षे हृत्पद्मस्थत्त्वं आकाशश्यैव न तु ब्रह्मण: इति निरूपणम्

तात्पर्यचन्द्रिका

पूर्वपक्षस्तु । हृत्पद्मस्थत्वमाकाशस्यैव । न तु ब्रह्मणः । तद्धि ब्रह्मणो हृत्पद्मस्थदहराकाशतया वा दहराकाशाश्रितान्वेष्टव्यतया वा । तत्राद्य ‘‘आकाशस्य प्रतीयत’’ इत्यादिभाष्येण तद्विवरणरूपया ‘‘दहरोस्मिन्नन्तराकाश’’ इत्यादिटीकया च दूषितः । तत्रायं भावः । पूर्वस्मिन् ‘‘दहरोस्मिन्नन्तराकाश’’ इति हृत्पद्मस्थवाक्ये परस्मिंश्च ‘‘तावानेषोऽन्तर्हृदय आकाश उभे अस्मिन्द्यावापृथिवी’’ इत्यादौ सर्वाधारवाक्ये च गगने प्रसिद्धाकाशशब्दश्रवणान्न ब्रह्मदहराकाशः । न च तल्लिङ्गादित्युक्तन्यायेन स ब्रह्मपरः । ‘‘पद्मकोशप्रतीकाशं हृदय’’मिति प्रकृतहृत्पद्मपरामर्शेन ‘‘तस्यान्ते सुषिरं सूक्ष्मं तस्म्सिर्वं प्रतिष्ठित’’मिति श्रुत्यन्तरे सुषिरस्य हृत्पद्मस्थत्वसर्वाधारत्वयोरुक्तेः । न च तत्र सुषिरशब्दो ब्रह्मपरः । ‘‘तस्य मध्ये वह्निशिखा अणीयोर्ध्वा व्यवस्थिता । तस्याः शिखाया मध्ये परमात्मा व्यवस्थितः’’ इति परमात्मनः सुषिरस्थशिखामध्यस्थत्वोक्तेः । किं च दहराकाशस्य ब्रह्मत्वे ‘‘तस्मिन्यदन्तस्तदन्वेष्टव्य’’मिति दहरस्थस्यान्वेष्टव्यत्वोक्तिरयुक्ता स्यात् । द्वितीयस्तु ‘‘दहरोस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यमित्यनेन यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाश इत्यस्यान्वयाभाव’’ इति न्यायविवरणे तद्विवरणरूपायां ‘‘वाक्यान्वयानुपपत्ते’’रित्यादि टीकायां च परिहृतः । तत्रायं भावः । ‘‘यावान्वा अयमाकाश’’ इति वाक्यस्थ आकाशः किं प्रसिद्धाकाशः किं वा ब्रह्म । नाद्यः । तस्मिन्यदन्तरित्यत्रान्वेष्टव्यतयोक्तस्य हृत्पद्मस्थदहराकाशस्थस्य ब्रह्मत्वे ‘‘किं तदत्र विद्यत’ इति प्रश्नस्य ब्रह्म विद्यत इति परिहारं विना ‘‘यावान्वा’’ इत्यादिना प्रसिद्धाकाशस्यान्वेष्टव्यत्वोक्तेरनन्वयात् ।

प्रकाशिका

आकाशप्रापकपूर्वपक्षटीकां ‘‘सर्वाधारतया हृत्पद्मस्थत्वमाकाशस्ये’’त्यादि रूपां तावत्प्रपञ्चयति ।। हृत्पद्मस्थत्वमिति ।। न्यायविवरणे वाक्यानन्वयोऽत्र पूर्वपक्षे हेतुरुक्तः । भाष्ये समाख्याविरोधो हेतुरुक्तः । तद्धेतुद्वयं पक्षभेदेन योज्यम् । अन्यथानुपपत्तेरिति भावेन विकल्पपूर्वमाद्यपक्षे भाष्योक्तं हेतुं योजयति ।। तद्धीत्यादिना ।। टीकायां प्रतिज्ञाविशेषादेरस्पष्टत्वात् समाख्याया निरवकाशत्वानुक्तया समाख्यया लिङ्गबाधायोगाच्च निष्कृष्य तदभिप्रायमाह ।। तत्रायं भाव इति ।। टीकोक्तमुपलक्षणं मत्वाऽऽह ।। परस्मिंश्चेति ।। ‘‘नन्वस्त्वि’’त्यादि टीकां व्यनक्ति ।। न च तल्लिङ्गादिति ।। आकाश इति होवाचेति वाक्ये परोवरीयस्त्वादिलिङ्गश्रवणादाकाशो ब्रह्मेत्युक्तं ‘‘आकाशस्तल्लिङ्गा’’दित्यत्र । तथेहापि सर्वाधारत्वरूपब्रह्मलिङ्गादाकाशो ब्रह्म स्यादित्यर्थः । ‘‘तस्यान्त’’ इति तच्छब्दार्थविवरणायोक्तं पद्मकोशेति ।। ‘‘पद्मकोशप्रतीकाशं हृदयं चाप्यधोमुखम् । अधोनिष्ठ्यावितस्त्यान्तु नाभ्यामुपरि तिष्ठति । ज्वालमालाकुलं भाति विश्वस्यायतनं महत् । सन्ततसिराभिस्तु लम्बत्याकोशसन्निभम् । तस्यान्ते सुषिर’’मिति नारायणोपनिषदि समाम्नानादिति भावः ।। उक्तेरिति ।। ननु तावता कथं लिङ्गस्य समाख्यामात्रेण बाधः । नचाकाशश्रुतिसमाख्याभ्यां लिङ्गस्य बाध इति युक्तम् । एकेनापि निरवकाशेनानेकबाधदर्शनादित्यतस्समाख्याया निरवकाशत्वं शङ्कापूर्वमाह ।। न च तत्रेति ।। उक्तन्यायेनैवेत्यर्थः । व्यवस्थितेत्यनन्तरं ‘‘नीलतोयदमध्यस्था विद्युल्लेखेव भास्वरा । नीवारशूकवत्तन्वी पीता भास्वत्यनूपमे’’ति मन्त्रोऽनुपयोगादत्र नोदाहृतः । युक्तयन्तरं च स्वयमाह ।। किञ्चेति ।। न च तच्छब्दस्य पुण्डरीकपरत्वाद्ब्रह्मण एवान्वेष्टव्यत्वमिति वाच्यम् । अव्यवहिताकाशपरत्वसम्भवे व्यवहितपुण्डरीकपरत्वायोगात् । दहरस्यहृत्पुण्डरीकस्थताया दहरोस्मिन्नित्यत्रैवोक्तत्वेन पुनस्तदुक्तिवैयर्थ्याच्चेति भावः । एतेनोत्तरवाक्यगतबहुतरहेतुविरोधाद्भूते प्रसिद्धाकाशश्रुत्या पूर्वपक्षस्तुच्छ इति भामत्युक्तं निरस्तम् । निरवकाशसमाख्यया अन्यस्यान्वेष्टव्यत्वोक्तययोगरूपयुक्तयाच सहिताकाशश्रुत्याऽऽकाशपूर्वपक्षस्य युक्तत्वादिति ।। द्वितीयस्त्विति ।। दहराश्रितान्वेष्टव्यतया वेति पक्ष इत्यर्थः । टीकोक्तं प्रतीतचोद्यनिरासेन विकल्पमुखेन विशदयन्नाद्यपक्ष इव द्वितीयपक्षेऽप्युत्तरवाक्यस्य ब्रह्मपरत्वे टीकोक्तसुषिरश्रुतिविरोधवदनन्वयोऽपि योज्य इति भावेन टीकाभिप्रायमाह ।। तत्रेति ।।

चन्द्रिकाबिन्दुः

टीकायामपि विकल्पपूर्वकं योजना कर्तव्येत्यभिप्रायेण स्वयमपि विकल्पपूर्वकमेव पूर्वपक्षमारचयति ।। न तु ब्रह्मण इति ।। तस्यान्ते सुषिरं सूक्ष्ममिति वाक्यस्य विशिष्टसमाख्यात्वमुपपादयितुं तच्छब्दस्य हृत्पद्मस्थपरामर्शकत्वं दर्शयति ।। पद्मकोशप्रतीकाशमिति ।। सुषिरस्येति ।। तथा च सुषिरश्रुत्यनुसारेण आकाशस्यैव हृत्पद्मस्थत्वं सर्वाधारत्वं च वक्तव्यं न तु ब्रह्मण इति भावः । टीकोक्तान्वयानुपपत्तिप्रकारः आकाशशब्दस्य भूताकाशपरत्व एव । तस्य ब्रह्मपरत्वं तु सुषिरश्रुतिविरोधो वा प्रकारान्तरेणान्वयानुपपत्तिर्वा वक्तव्येति टीकाभिप्रायमाह ।। यावान्वा अयमाकाश इत्यादिना ।।

पाण्डुरङ्गि

वाक्यान्वयानुपपत्तेरित्यादि टीकानुपपन्ना । आकाशशब्दस्य ब्रह्मपरत्वेन किं तदत्र विद्यत इति प्रश्ने आकाशशब्दोक्तं ब्रह्मास्तीति परिहारस्य श्लिष्टत्वात् । न चाकाशस्य प्रसिद्धाकाशपरत्वाभिप्रायेण यावान्वा इत्यादेरन्वयाभावापादनमिति शङ्क्यम् । तथापि नानन्वयः । अन्वेष्टव्यद्युपृथिव्याद्याधारतयाऽऽकाशोक्तेः सम्भवादित्यतो व्याख्याति ।। तत्रायं भाव इति ।।