सिद्धान्तमाह
मुक्तावभेद: न सिध्यतीति सिद्धान्तनिरूपणम्
तात्पर्यचन्द्रिका
सिद्धान्तमाह ।। नञध्याहारेणेत्यादिना ।। अयं भावः ।।
वाक्यान्तरविरोधाच्च पूर्वापरविरोधतः ।
उपपत्तिविरोधाच्च नैव युक्तं मतत्रयम् ।। १ ।।
उक्तं द्विविधं पक्षत्रयमपि मुक्तावभेदसापेक्षम् । स एव त्वसिद्धः । ‘‘एकीभवन्ती’’ति श्रुतेर्भाष्ये ‘‘यथोदक’’मिति श्रुत्यन्तरादि विरोधोक्तेः । न्यायविवरणे च ‘‘निरञ्जनः परमं साम्य’’मिति पूर्ववाक्यविरोधस्य ‘‘परात्परं पुरुषमुपैति दिव्य’’मित्युत्तर वाक्यविरोधस्य चोक्तेः । अभेदपरत्वे च परेणाव्ययेनेति तृतीया स्यान्न तु सप्तमी । तथा ‘‘सायं गोष्ठे गाव एकीभवन्ती’’तिवत्स्थानैक्यस्यैव प्रतीतेः । तथा ‘‘कर्माणि विज्ञानमयश्च आत्मे’’ति पूर्ववाक्यस्थकर्म शब्दविरोधः । कर्मणां ब्रह्मणैक्यायोगादित्यादिबाधकानां च ग्रन्थान्तर उक्तेः । भेदाभेदपक्षेऽपि पूर्वमप्यभेदस्य विद्यमानत्वेनाद्यांत्यपक्षयोः च्विप्रत्ययस्य चायोगात् मध्यांत्यपक्षयोः ‘‘नान्यदन्यत्व’’मित्यनुव्याख्यानोक्तोपपत्तिविरोधाच्चान्यपरत्वात् । किं च
भिन्ननद्यब्धिदृष्टान्तं वदन्तीयं श्रुतिः स्वयम् ।
गौणार्थपरतां स्वस्या आचष्टे स्पष्टमेव नः ।। १ ।।
श्रूयते हि ‘‘एकीभवन्ती’’त्यस्यानन्तरमेव ‘‘यथा नद्यः स्यन्दमानाः समुद्रायणाः समुद्रं प्राप्यास्तं गच्छन्ती’’ति भिन्ननदीसमुद्रदृष्टान्तः । एवं च
रथ्याजलं विष्णुपदीजलेनैकत्वमागतम् ।
इतस्ततो गता गावः सायमेकत्वमागताः ।। १ ।।
एकीभूता तु सा सेनापाण्डवानभ्यवर्तत ।
इत्यादिवद्भवेदेकीभवन्तीत्यादिवेदवाक् ।। २ ।।
न च जलस्य जलान्तरमेलनेनैक्यम् । ‘‘तादृगेवे’’ति भाष्योक्तसावधारण श्रुत्या ‘‘यतो वृद्धिः प्रदृश्यत’’ इति सयुक्तिकस्मृत्या च विरोधात् । किं च
मानभेदात्स्पर्शरसपूर्वभेदाच्च नीरयोः ।
मेलनेऽप्यभिदानास्ति यथैव क्षीरनीरयोः ।। १ ।।
न केवलं ‘‘यतो वृद्धि’’रिति स्मृत्युक्तं परिमाणभेदमात्रम् । किन्तु शीतोष्णयोर्मधुरोषरयोस्सङ्गतसरित्सम्बन्धिजलयोर्मेलने स्पर्शादिभेदोऽपि दृश्यते । अन्यथा हंसेन विविच्यमानयोः क्षीरनीरयोरप्यभेदः स्यात् । द्रुतस्वर्णताम्रयोर्मेलनेनाभेदे तत्कार्ये पणादौ केवलस्वर्णादि कार्यपणान्मूल्यादिभेदश्च न स्यात् । क्षीरे सिक्ता सुरा च क्षीरं स्यात् । प्रसिद्धश्च लोके सङ्गतानां कृष्णादिसप्तनदीजलानां गङ्गादिसहस्रनदीजलानां च पुनः प्रत्येकं समुद्रसङ्गमार्थं विभक्तानां विलक्षणपूर्वरूपरसादिमत्तया भेदः । किञ्च ‘‘अवस्थितेरिति काशकृत्स्न’’ इति सूत्रे भामत्यामेव ‘‘का पुनर्नद्यभिमता आयुष्मतः । किं पाथः परमाणव उतैषां संस्थानभेद आहोस्वित्तदारब्धोऽवयवी । तत्र संस्थानभेदस्य वाऽवयविनो वा समुद्र निवेशे विनाशात्कस्य समुद्रेणैकता । नदीपाथः परमाणूनां तु समुद्रपाथः परमाणुभ्यः पूर्वावस्थितेभ्यो भेद एव । नाभेदः । एवं समुद्रादपि तेषां भेद एवे’’त्यादिना नदीसमुद्रयोरभेदो निरस्तः । एवं च
माषादिवच्च राश्यादौ सभादौ ब्राह्मणादिवत् ।
जले जलान्तरस्यापि संश्लेषो न त्वभिन्नता ।। १ ।।
द्रवद्रव्यत्वेनान्योन्यं व्यामिश्रणात्तु भेदाप्रतीतिरिति ।
प्रकाशिका
सङ्ग्रहं व्याचष्टे ।। उक्तं द्विविधमिति ।। एकपदलक्षणयोभयपदलक्षणयेत्युक्तद्विविधमित्यर्थः । प्राक् त्रैविध्योक्तावप्येक पदलक्षणापक्षेऽवान्तरभेदमविवक्षितत्वाद्विविधमित्युक्तम् । श्रौतत्वात्कथमसिद्ध इत्यत आह ।। एकीभवन्तीति ।। ‘‘उदकं तूदके सिक्त’’मिति स्मृतिरादिपदार्थः ।। द्वितीयपादं विवृणोति ।। न्यायविवरणे चेति ।। एतेन ‘‘निरञ्जन’’ इत्यादिटीकैतन्मूलेत्युक्तं भवति । तृतीयपादं व्यनक्ति ।। अभेदेति ।। सहयोगे तृतीयाभिधानादिति भावः । ननु कर्माण्येकीभवन्तीत्यस्य चित्स्वरूपे भ्रांत्यारोपितानि ज्ञानेन निवर्त्यंत इत्यभिप्राय इत्यत आह ।। इत्यादिबाधकानां चेति ।। तथात्वे विज्ञानात्मनोऽपि निवृत्तिस्स्यात् । सकृच्छतैकीभावशब्दस्यार्थद्वयायोगात् । ‘‘आकाशस्सम्भूत’’ इत्यादौ त्वनन्यगत्या तथात्वमुपेयते । किञ्च कर्मणां निवृत्त्युपगतौ तेषां कलात्वेन ‘‘गताः कलाः पञ्चदशे’’त्यत्र कर्मभिस्सह षोडशकला इत्येवोक्तिस्स्यान्न तु पृथङि्नवृत्त्युक्तिः । ‘‘किं च कर्मणां विज्ञानात्मना सहोक्तिश्च व्यर्था । निवृत्त्यर्थत्वे ‘‘एकीभवन्ती’’त्यत्रामुख्यार्थत्वस्य त्वयापि स्वीकार्यत्वा’’दित्यादीनां तत्वनिर्णयटीकायां न्यायामृते चोक्तेरित्यर्थः । ननु स्थानैक्यपरत्वेऽमुख्यार्थत्वं श्रुतेस्स्यादिति चेन्न । कथितबाधकैर्मुख्यार्थत्यागस्यावश्यकत्वात् । वाक्यशेषबलाच्च मुख्यार्थत्यागो युज्यत इति भावेनाह ।। किं चेति ।। अयं च परिहारो भाष्ये यथोदकं शुद्धे शुद्धमित्यादिस्मृत्युक्तया तुल्यन्यायतया सूचितः । तत्वनिर्णये कण्ठोक्तः । व्याचष्टे ।। श्रूयते हीति ।। पर्यवसितं श्रुत्यर्थमाह ।। एवं चेति ।। रथ्येति स्वसङ्ग्रहः ।। एकीभूतेति ।। न्यायविवरणोक्तो मत्यैक्ये दृष्टान्तोऽयम् । प्राक्तनद्वयं तु स्थानैक्ये । तदुक्तं
जीवस्य परमैक्यं तु बुद्धिसारूप्यमेव तु ।
एकस्थाननिवासो वा व्यक्तिस्थानमपेक्ष्य तु ।। इति ।
भिन्ननदीत्युक्तं भेदं साधयति ।। न चेति ।। ननु मानभेदाद्भेदः प्रागेव ‘‘यतो वृद्धि’’रिति स्मृत्युक्तया साधितः । पुनः कथं सङ्ग्रहे तदुपादानमित्यतो विवृणोति ।। न केवलमिति ।। द्रुतेति ।। द्रवीभूतेत्यर्थः । ननु भवतु लोके वृद्ध्याद्युपलम्भेन भेदः । नदीसमुद्रयोस्तु तदनुपलम्भात्कथं भेद इति चेन्न । तुल्यन्यायतयाऽनुमानसिद्धत्वात् । ‘‘न हि भिन्नानां नदीजलपरमाणूनां सामुद्राणुभिरैक्यं युज्यत’’ इति तत्वनिर्णयादौ भगवत्पादादिभिर्भेदसमर्थनाच्च । अङ्गीकृतश्च त्वयापीत्याह ।। किं चेति ।। दृष्टान्ते भेदोपलम्भोऽस्ति नात्रेत्यतो बीजमाह ।। द्रवेति ।।
चन्द्रिकाविवृतिः
उक्तं द्विविधमिति ।। अन्यतरपदाक्षणया पदद्वयाक्षणया वा प्रवृत्तं पूर्वपक्षत्रयमित्यर्थः ।। उपपत्तिविरोधाच्चेति पदं व्याचष्टे ।। अभेदपरत्वे चेत्यादि ।। आद्यंतपक्षयोरिति ।। पूर्वमभेदः पश्चादप्यभेद इत्याद्यः ।। अंत्यस्तु पूर्वं भेदाभेदौ पश्चादभेद इति ।। मध्यमस्तु पूर्वं भेदः पश्चादभेदः इति स्फुटं प्रागुक्तम् ।। तत्र भेदाभेदपक्षे च्विप्रत्ययो नानुपपन्नः ।। पूर्वं भेदस्य सत्त्वेन पश्चादेकाभवन्तीति वक्तुं शक्यत्वादित्यतः पूर्ववाक्यशेषः प्रवृत्तः ।। भेदाभेदपक्षेऽपीति वाक्यशेषबलाच्च परेऽव्यय इति वाक्यस्य भेदपरत्वमेवाङ्गीकर्तव्यमित्यत आह ।। किञ्च भिन्ननदीति ।। भाष्योक्तपरिमाणभेदः भेदज्ञापकः उपाक्षणमित्यभिप्रेत्य स्वयं तदनुवादपूर्वकं भेदज्ञापकानि सङ्गृह्याह ।। किञ्च मानभेदादिति ।। द्रुतशब्देन द्रवीभाव उच्यते ।। पाथःपरमाणवः उदकपरमाणवः । अभेदो निरस्त इति ।। तथा च दृष्टांतेनैवाभेदोक्तौ कथं न व्याहतिरिति भावः ।।