सिद्धान्तस्तु
सिद्धान्ते गुहाप्रविष्टत्वादे: निरवकाशत्व समर्थनम्
तात्पर्यचन्द्रिका
सिद्धान्तस्तु ।। गुहावेशाद्ब्रह्मशब्दात्सेतुत्वादक्षरत्वतः । पारत्वादभयत्वाच्च ब्रह्मैवात्र निगद्यते ।। गुहानिहितत्वं यद्यपि जीवेऽप्यस्ति तथापि ‘यो वेदनिहितं गुहायां’ ‘गुहाहितं गह्वरेष्ठं पुराणं’ ‘गुहां प्रविश्यतिष्ठन्तं’ इत्यादि श्रुतिषु ब्रह्मण्येव तस्य प्रसिद्धत्वात्तेन ब्रह्मत्वसिद्धिः । न हि मैथिल इत्युक्ते यः कश्चिन्मिथिलाभवोभासते । किन्तु यस्तत्र प्रसिद्धस्तदधीश्वरः । ‘‘यस्सेतुरीजानानामक्षरं ब्रह्म यत्परम् । अभयन्तितीर्षतां पारमित्युत्तरवाक्ये च पारत्वेन विशेषणात्परब्रह्मण्येव ब्रह्मशब्दः । सेतुत्वादिकं तु ‘‘एष सेतु’’रित्यादि श्रुतिभिर्ब्रह्मलिङ्गत्वेन निश्चितम् । न चोत्तरत्र यस्सेतु रित्यादिभिः पूर्वत्र च यस्य ब्रह्म च क्षत्रं चेत्यादिभिर्ब्रह्ममात्रविषयैर्वाक्यैः सन्दष्टं ‘‘ऋतं पिबन्ता’’वित्यादिकं बाधकाभावेऽप्य ब्रह्मविषयमिति युक्तम् । न चेश्वरस्याभोक्तृत्वमेव बाधकम् । ‘‘एतत्सर्वं परे आत्मनि सम्प्रतिष्ठत’’ इति प्रस्तुत्य ‘‘एष हि द्रष्टास्पष्टाश्रोताघ्रातारसयिते’’त्यादि श्रुतेः ‘‘अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च । श्रोत्रं चक्षुः स्पर्शनं च रसनंघ्राणमेव च । अधिष्ठायमनश्चायं विषयानुपसेवते’’ इत्यादि स्मृतेश्च । न च श्रोत्रमित्यादिकं जीवविषयम् । पूर्वत्र ‘‘यच्चाप्युत्क्रामतीश्वर’’ इत्यादेः उत्तरत्र च ‘‘पश्यन्ति ज्ञानचक्षुष’’ इत्यादेरयोगात् । ‘‘अनश्नन्नन्य’’ इत्यादिकं तु ‘‘तस्येदाहुःपिप्पलं स्वाद्वग्र’’ इतीश्वरस्य स्वादुभोक्तृत्वोक्तेः । तथा ‘‘प्रविविक्ताहारतर इव भवत्यस्माच्छारीरादात्मन’’ इति श्रुत्यन्तरे भगवदाहारस्य जीवाहाराद्विविक्तत्वोक्तेः । तथा ‘‘शुभं पिबत्यसा’’वित्यादिभाष्योक्त श्रुतिभिरशुभभोगस्यैव निषेधात् । तथा ‘‘अन्यूनानधिकत्वाच्च पूर्णस्वानन्दभोजनात् । विरागाच्च परस्यास्य भोक्तृत्वप्रतिषेधन’’मित्यादिस्मृतिभिरभोक्तृत्वश्रुतेर्गतिकथनात् ‘‘क्रीडाभोगोन चान्यथे’’त्यादि स्मृत्या क्रीडारूपभोगसम्भवस्योक्तत्वाच्चाशुभभोगा भावविषयम् । प्रत्युत जीवपक्ष एव ‘‘ऋतं सत्यं तथा धर्म’’ इति स्मृतेर्धर्म फलवाचिऋत पदं न युक्तम् । तस्याधर्मफलं प्रत्यपि भोक्तृत्वात् । ईशपक्षे तु तद्युक्तम् । ‘‘पुण्यमेवामुङ्गच्छती’’ति श्रुतेः ।
प्रकाशिका
निरवकाशभगवल्लिङ्गैः प्रकृतिप्रत्ययार्थौ कथं चिन्नेयाविति भावेन सूत्रोक्तान् सिद्धान्तहेतून् सङ्गृह्णाति ।। गुहावेशादिति ।। आद्यसूत्रोक्तोऽयं हेतुः । द्वितीय सूत्रोक्तानाह ।। ब्रह्मेति ।। टीकोपलक्षणम् । भाष्ये परमित्यन्तोक्तेः । तत्वप्रदीपे ‘‘अक्षरशब्देन विशेषणाच्चे’’त्याद्युक्तेरिति भावः । अत्र पिबन्तावित्यत्र । ननूक्तं गुहाप्रविष्टत्वं जीवेऽपि युक्तमित्यतः प्रसिद्धिवाचक सौत्रहिशब्दसूचितं तन्निरवकाशत्वं न्यायविवरण टीकोक्तरीत्या साधयति ।। गुहेति ।। यो वेदेति ।। ‘‘ब्रह्मविदाप्नोति पर’’मिति पूर्वत्र ब्रह्मण एव तत्र प्रस्तुतत्वादिति भावः ।
ननु ब्रह्मशब्दादित्ययुक्तम् । तस्यापि प्राक्सावकाशितत्वादित्यतो ‘‘विशेषणाच्चे’’त्यस्यार्थान्तर मुपेत्य तस्य निरवकाशत्वमाह ।। यस्सेतुरिति ।। ब्रह्म यत्परमित्येतावदेवोपयुक्तं तथापि सेतुत्वादिस्फोरणाय कृत्स्नवाक्योक्तिः । यद्यपि भाष्यादौ केवलब्रह्मशब्द एव निरवकाश इत्युक्तं तथापि तदपरित्यागेन ‘‘ब्रह्मवित्परमाप्नोतीति यत्प्रथमसूचित’’मित्यानन्दमयाधिकरणानुभाष्यसुधयोरुक्तरीत्योपायान्तरप्रदर्शनमित्यदोषः । सेतुत्वादेर्निरवकाशत्वं व्यनक्ति ।। सेतुत्वेति ।। ‘‘धृतेश्चे’’ति दहरनयगुणसूत्रे ‘‘एषसेतुर्विधृतिरेषां लोकानामसम्भेदाये’’ति सर्वाश्रयत्वरूपसेतुत्वस्य उत्तराधिकरणे ‘‘एतदमृतमभय’’मित्यभयत्वस्य अदृश्यत्वाद्यधिकरणे ‘‘यया तदक्षरमधिगम्यत’’ इत्यक्षरत्वस्य विष्णौ सेत्स्यमानत्वाद्विष्णोरन्यत्रानवकाशमित्यर्थः । ‘‘अक्षयाद्रतिरूपत्वादक्षेषुर मणादपि । अक्षरं भगवान्विष्णुरोमित्युच्चत्वहेतुत’’ इति स्मृतेश्चेति ।। नन्वस्तु यस्सेतुरित्यादि वाक्यं ब्रह्ममात्रपरम् । ऋतमिति वाक्यं तूभयपरमस्तु । कर्मफलात्तृत्वद्विवचन श्रुत्योर्भावादित्यत आह ।। न चेति ।। अब्रह्मविषयमपीति युक्तमित्यर्थः ।
ननु हरेरभोक्तृत्वं वा द्विवचनोक्त द्वित्वं वा छायात्वं वा बाधकमित्यतः ‘‘तस्य कर्मफलभोगाभावान्नैतद्वाक्य प्रतिपाद्यत्व’’मित्यादि टीकां विवृण्वन्नभोक्तृत्वं तावन्निराह ।। न चेत्यादिना पुण्यमेवामुङ्गच्छतीत्यन्तेन ।। एतदिति ।। षट्प्रश्नोपनिषदि चतुर्थप्रश्ने ‘‘परे आत्मनी’’ति परत्वविशेषणेन परमात्मानमेव परामृश्य द्रष्टृत्वादेरुक्तेरित्यर्थः । अहं हीति वाक्ये अहमिति कृष्णेन प्रयुक्तत्वाद्ब्रह्मविषयत्वं सिद्धमिति गीतोक्तद्वितीय स्मृतेः तत्साधयति ।। न चेति ।। उभयत्रादिपदेन ‘‘गृहीत्वैतानि संयातिवायुर्गन्धानिवाशया’’दिति ‘‘यतन्तोऽप्यकृतात्मानो नैनं पश्यन्ती’’त्यादेर्ग्रहः । एतद्वाक्योक्तिस्तु भोगस्येन्द्रियसाध्यत्वात्कथमीश्वरस्य भोग इति शङ्काव्युदासायेति बोध्यम् । उक्तं च छान्दोग्यभाष्येऽष्टमाध्यायान्ते ‘‘भूतैर्महद्भिर्य इमाः पुरोविभुर्निर्माय शेतेयदमूषुपूरुषः । भुङ्क्ते गुणान्षोडश षोडशात्मकस्सोलङ्कृषीष्टभगवान्वचांसिमे’’ इत्यादौ भगवत एवेन्द्रियैर्भोगोक्तेश्च । ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्ध इति चे’’त्यादि, ईश्वरस्य भोक्तृत्वोक्तावनशनश्रुतिविरोध इत्यत आह ।। अनश्नन्निति ।। अशुभभोगाभावविषयमित्यन्वयः। कुतस्सङ्कोच इत्यतः ‘‘असद्व्यपदेशान्नेति चेन्न । धर्मान्तरेण वाक्यशेषा’’दिति न्यायेन टीकोक्त वाक्यशेषबलादिति भावेन तमाह ।। तस्येति ।। आथर्वणे अश्रवणेऽपि ऋक्शाखायामस्ति श्रवणमिति भावः । तस्येदाहुः पिप्पलं स्वाद्वग्रेतन्नोन्नशद्यः पितरं न वेदे’’ति वाक्यशेषेयः अग्रे अग््य्रः श्रेष्ठः तस्यैव स्वादु पिप्पलं कर्मफलमाहुः । यः पितरं न वेद अत एव न शत् नाशवान् तस्य स्वादु पिप्पलं नेति हरेरेव सुखभोक्तृत्वोक्तेरित्यर्थः ।
ननु श्रुतित्वाविशेषाद्भोक्तृत्वश्रुतेरेवार्थान्तरमस्त्वित्यतो गीताभाष्योक्तमाह ।। तथेति ।। श्रुत्यन्तरे वाजसनेये षष्ठेऽध्याये द्वितीयब्राह्मणे ‘‘इन्धोहवैनामैषयोयं दक्षिणे क्षन्पुरुष’’ इति प्रकृतस्य परमात्मनः ‘‘तस्मादेष प्रविविक्ताहारतर इव भवत्यस्माच्छारीरादात्मन’’ इति शारीरशब्दित जीवाहाराद्विभक्ताहारोक्तेरित्यर्थः । अवतारेषु स्थूलमपि भुङ्क्त इतीवशब्दः । न च प्रविविक्ताहारो जीव एवेति वाच्यम् । तस्य शारीरादिति जीवाद्भेदोक्तेः । न च शारीराज्जागरावस्थाज्जीवात्स्वप्नसुषुप्त्यवस्थस्स एव प्रविविक्ताहार इत्यवस्थाभेदोपाधिकं जीवस्य भेदमङ्गीकृत्य व्याख्यायतामिति वाच्यम् । स्वप्नसुषुप्त्यवस्थस्यापि शारीरत्वेन शारीरशब्देनैव गृहीततया ततोभेदायोगात् । ‘‘शारीरस्तु त्रिधाभिन्नो जाग्रदादिष्ववस्थिते’’रिति गारुडोक्तेः । नन्ववस्थात्र यवतश्शारीरत्वेऽप्यस्मादिति विशेषणादत्र जाग्रदवस्थो गृह्यते । तस्माच्च स्वप्नाद्यवस्थस्योक्त विधयाभेदः सम्भवति । अन्यथाऽस्मादिति व्यर्थमिति चेन्न । ‘‘शारीरौ तावुभौ ज्ञेयौ जीवश्चेश्वर संज्ञित’’ इत्यादिस्मृत्येश्वरस्यापि शारीरत्वेन तद्व्यावृत्त्यर्थतयाऽस्मादित्यस्य सार्थक्यादिति । व्यक्तमेतद्गीताभाष्ये सप्तमेऽध्याये ‘‘न चात्र जीव उच्यत’’ इत्यादिनेत्यर्थः । न चानन्दमयनयाद्युक्तदिशा पूर्णानन्दस्य हरेः किं कर्मफलभोगेनेत्यतश्श्रुत्यर्थसङ्कोच बीजस्मृतीराह ।। तथेति ।। ‘‘शुभं पिबत्यसौ नित्यं नाशुभं सहरिः पिबेत् । पूर्णानन्दमयस्यास्य चेष्टान ज्ञायते क्वचित् । आत्मान्तरात्मेति हरिरेक एव द्विधास्थितः । निविष्टो हृदये नित्यं रसं पिबति कर्मजम् । शुभान्पिबति भोगान्सछायेवविदुषां प्रभु’’रित्यादिस्मृतिभिरित्यर्थः । श्रुतेः प्रथमस्कन्धतात्पर्योक्त विषयान्तरं चाह ।। अन्यूनेति ।। भोगेऽभोगेचेत्यर्थः ।। इत्यादिस्मृतिभिरिति ।। ‘‘प्रविविक्तभुग्यतो ह्यस्माच्छारीरात्पुरुषोत्तमः । अतोऽभोक्ताचभोक्ताच स्थूलाभोगात्स एवत्वि’’त्यादिस्मृतिरादिपदार्थः ।। अशुभेति ।। जीववद्रागपूर्वकोप जीवनार्थभोगाभावविषयं चेत्यपि ध्येयम् ।। ऋतमिति ।। ‘‘ऋतं सत्यतथाधर्मः सुकृतं चाभिधीयत’’ इति सप्तमगीताभाष्योक्तस्मृतेरित्यर्थः ।। पुण्यमिति ।। ‘‘पुण्यमेवामुङ्गच्छति न हवैदेवान्पापङ्गच्छती’’ति बृहदारण्यकश्रुतौ पुण्यफलभोगस्यैवोक्तेरित्यर्थः । यद्यप्यमुं सप्तान्नविद्यावेदितारं पुण्यमेवाप्नोति न पापमित्यर्थः । उक्तं च ‘‘सप्तान्नोपासने योग्या देवा एव ततोहि यत् । देवांश्च पापं नाप्नोति तस्मात्पापं न तस्यत्वि’’ति । तथाज्ञानपादे ‘‘पुण्यमेवामुमाप्नोति न देवान्पापमाप्नुया’’दित्यनुव्याख्यानसुधायां अमुं सप्तान्नविद्योपासनेन प्रेरकतया परपुरप्रवेशिनं परकृतं पुण्यमेवाप्नोति । न पापम् । कुतः । देवोह्यसौ जातः । न हि देवान्पापं प्राप्नोतीत्यर्थ इत्युक्तम् । तथाप्यमुं सप्तान्नोपासकं देवमित्यर्थकत्वेन देवत्वस्य हेतुत्वोक्तेः देवोत्तमं हरिं पुण्यं गच्छति पापं तु नेति किमुवाच्यमित्याशयेनैतदुक्तिः । अत एव गीताभाष्ये सप्तमे ‘‘पुण्यगन्ध’’ इति भोगापेक्षया । तथाच श्रुतिः । ‘‘पुण्यमेवामु’’मित्यादिना ब्रह्मपरतयेयं श्रुतिरुदाहृता । व्याख्याताच प्रमेयदीपिकायां ‘‘अमुं उपासकम् । कुतः तस्य देवत्वात् । तथापि कुतः न हवै देवमात्रस्य पुण्यभोगनियमे देवोत्तमस्य सुतरां तत्सिद्धिरिति ।
चन्द्रिकाबिन्दुः
सूत्रद्वयसङ्गृहीतब्रह्मलिङ्गानि सङ्गृह्य दर्शयति ।। गुहावेशादिति ।। आद्यं हेतुं शोधयति ।। गुहानिहितत्वं यद्यपीति ।। अस्तु गुहाप्रविष्टत्वं विष्णावेव प्रसिद्धं तथापि गुहाप्रविष्टशब्देन विष्णोरेव ग्रहणं किमर्थम् ? न हि प्रसिद्धस्यैव ग्रहणमिति नियमोऽस्तीत्यत आह ।। न हि मैथिल इति ।। सङ्ग्रहानुक्तां सदृशलक्षणां युक्तिं दर्शयति ।। न चोत्तरत्रेति । ब्रह्मण्येवेदं द्रष्टृत्वादिकमिति दर्शयितुं पूर्ववाक्यं पठति ।। एतत्सर्वमिति ।। टीकायां स्मृत्युदाहरणमुपलक्षणमित्यभिप्रायेण श्रुतिरूपात्तेति ध्येयम् । टीकोदाहृस्मृतावनुपपत्तिमाशङ्क्य परिहरति ।। न च श्रोत्रमिति ।। तर्हि ब्रह्मणि भोक्तृत्वनिषेधत्वश्रुतेः का गतिरित्यतो गतिं दर्शयति ।। अनश्नन्नित्यादिकमित्यादिना ।। टीका उपलक्षणमित्यभिप्रायेण श्रुत्यन्तरमाह ।। तथेति ।। अन्यूनेति ।। आनन्दाभोजनभोजनयोरिति शेषः ।। भोगाभावविषयमिति ।। अस्य अनश्नन्नित्यादिकमिति पूर्वेण सम्बन्धः ।। न युक्तमिति ।। विशिष्य धर्मफलभोक्तृत्वायोगादिति भावः ।
पाण्डुरङ्गि
अनश्नन्नन्य इत्यादिकं त्वशुभभोगाभावविषयमिति सम्बन्धः ।