यच्चोक्तं परैः
उभयमतपरीक्षा
तात्पर्यचन्द्रिका
यच्चोक्तं परैः पौत्रायणस्य या शुक् सा रैक्वेण शूद्रशब्देन सूच्यत इति सौत्रस्य सूच्यत इति पदस्यार्थ इति तन्न । यौगिकेन शूद्रशब्देन शोकस्योक्ततया सूचनाभावात् । केचित्तु ‘‘शुचेर्दश्चे’’त्युणादिसूत्रेण रप्रत्यये धातोश्च दीर्घे चकारस्य च दकारे कृते शूद्र इति भवति । तेन शोचितृत्वमेव शूद्रशब्दार्थ इति सूत्रे विवक्षितम् । न तु शुचा द्रवणं तस्यार्थ इति तदा द्रवणादित्याद्रवणोक्तिस्तु शोके लिङ्गतया । न तु शूद्रशब्दार्थतया । अनादरश्रवणवदाद्रवणस्यापि पञ्चमीनिर्देशेन प्रथमानिर्दिष्टायां शुचि हेतुत्वस्यैवन्याय्यत्वात् । अनादरश्रवणं हि शुचिकारणतया लिङ्गम् । आद्रवणं तु कार्यतयेत्याहुः । तन्न । आद्रवणस्यापि शुचिहेतुत्वे च शब्दापातात् । पञ्चमी तु शुचा द्रवणाच्छूद्रो न तु चतुर्थजातियोगादित्यवश्याध्याहार्यप्रधानसाध्यान्वयात् । किं चात्र शूद्रशब्दस्यौणादिकरप्रत्ययान्ततायां न जात्यर्थत्वनिराससिद्धिः । जातिवाचिनोऽपि तदन्तत्वात् । तस्माद्रुग्द्रावणाद्रुद्र इतिवच्छुचाऽऽद्रवणाच्छूद्र इति नैरुक्तः शूद्रशब्दः ।
यच्चोक्तमुभाभ्यां अस्यामेव संवर्गविद्यायामुत्तरत्र ‘‘अथ ह शौनकं च कापेयमभिप्रतारिणं च कार्क्षसेनि’’मित्यभिप्रतारिनामापुरुषः कीर्तितः । स चाभिप्रतारीचैत्ररथ इति तावद्वक्तव्यम् । कापेयाख्येन याजकेन योगात् । कापेयेन याज्यतया योगो हि श्रुत्यन्तरे ‘‘एतेन वै चित्ररथं कापेया अयाजय’’न्निति चित्ररथस्यावगतः । न चैवं सत्यभिप्रतारीचित्ररथ एव स्यान्न तु चैत्ररथ इति शङ्क्यम् । तस्याभिप्रतारीति संज्ञाभेदेन चित्ररथादन्यत्वात् । चित्ररथादन्यस्य च चित्ररथयाजककापेययोगश्चैत्ररथत्वं विना न युक्तः । समानान्वयानां हि प्रायेण समानान्वयायाजका भवन्ति । चैत्ररथस्य क्षत्रियत्वं च ‘‘तस्माच्चैत्ररथनामैकः क्षन्त्रपतिरजायते’’ति श्रुत्यन्तरेऽवगतम् ।
एवं चाभिप्रतारिनाम्ना चैत्ररथेन क्षत्रियेण सह समभिव्याहाराल्लिङ्गात्पौत्रायणोपि क्षत्रिय इति द्वितीयार्थ इति । तन्न । समभिव्याहारादित्यस्याध्याहार्यत्वात् । कापेयमभिप्रतारिणमित्यत्राभिप्रतारिणः कापेयेन सहपाठेऽपि याज्यत्वेन तद्योगाप्रतीतेश्च । अस्तु वा याज्यत्वेन तदन्वयः । तथाप्यभिप्रतारिणो न चैत्ररथत्वसिद्धिः । प्रायेणेति वदता त्वयाप्यचैत्ररथानामपि कापेययाज्यत्वाङ्गीकारात् । अस्तु वाऽभिप्रतारिणः कापेययोगात्क्षत्रियत्वम् । तथापि न तत्समभिव्याहारमात्रेण पौत्रायणस्य क्षत्रियत्वम् । कापेय एवानैकांत्यात् । निश्चितब्राह्मण्येन कापेयेन रैक्वेण वा समभिव्याहारात्पौत्रायणस्य ब्राह्मण्यापाताच्च । न च निश्चितब्राह्मण्येन कापेयेन समभिव्याहृतस्याभिप्रतारिणः क्षत्रियत्ववन्निश्चितब्राह्मण्येन रैक्वेण समभिव्याहारात्पौत्रायणस्यापि क्षत्रियत्वमिति वाच्यम् । ब्राह्मणसमभिव्याहृतस्य क्षत्रियत्वनियमाभावात् । रैक्वसमभिव्याहारस्यैव लिङ्गतया वक्तव्यत्वेन चैत्ररथसमभिव्याहारस्य सूत्रे लिङ्गत्वोक्त्ययोगाच्च । यच्चोक्तं तृतीये ‘‘संस्कारपरामर्शा’’दित्यस्य ‘‘तं होपनिन्य’’ इत्येतद्विषयवाक्यमिति तन्न । अस्माकं मते ‘‘अष्टवर्षं ब्राह्मणमुपनयीत तमध्यापयीते’’त्यत्र तच्छब्देन प्रकृत संस्कारपरामर्शवत् ‘‘तं होपनिन्य’’ इत्यत्रोपनयनाख्यसंस्कारोक्तिमात्रसद्भावेऽपि तत्परामर्शाभावात् । यच्चोक्तं चतुर्थे ‘‘प्रवृत्ते’’रित्यस्य ब्रह्मोपदेशे प्रवृत्तेरित्यर्थ इति तन्न । ‘‘नैतदब्राह्मणो विवक्तुमर्हति समिधं सोम्यहरोपत्वानेष्य’’ इतित्वयाप्युदाहृते वाक्य उपनयने प्रवृत्तेरेव साक्षाच्छ्रवणात् । यच्चोक्तं शूद्रस्य स्मृत्या श्रवणादिप्रतिषेधादिति पञ्चमार्थ इति तन्न । भाष्योक्ते श्रौतप्रतिषेधे सम्भवति स्मार्तप्रतिषेधपरत्वायोगात् । स्मृतेः श्रवणादिप्रतिषेधाच्चेति चशब्दस्य भिन्नक्रमत्वापाताच्चेति ।
प्रकाशिका
एवं मतद्वयेऽप्यधिकरणशरीरं निरस्याद्यसूत्रार्थं तावन्निरस्यति ।। यच्चेत्यादिना ।। ‘‘कम्बर एन’’मित्यादिवाक्यादस्य जानश्रुतेस्स्वस्मिन्ननादरश्रवणाद्या शुगुत्पन्ना सा रैक्वेण शुचा द्रवणाच्छूद्रेति शब्देन सूच्यते हि यस्मात्तस्मान्नायं शूद्रो जात्येत्यर्थः ।। केचित्त्विति ।। अस्य शुश्रूषोर्जानश्रुतेर्ब्रह्मज्ञानवैकल्येन हंसोक्तानादरवाक्यश्रवणात्तदा तदैव ब्रह्मविदो रैक्वस्य सकाशं प्रत्याद्रवणाच्छुगस्य सञ्जातेति सूच्यते हि यतोऽतः शूद्रेत्यामंत्र्यते । न वर्णावरत्वेनेत्यर्थः ।। शुचेर्दश्चेतीति ।। उणादौ द्वितीयपादे ‘‘स्फायितं चिवं चिशकिक्षिपिक्षुदिसृपी’’त्यादिसूत्रोक्तप्रकारेण ‘‘अमितम्यो दीर्घश्चे’’ति सूत्रानन्तरात् ‘‘शुचेर्दश्चे’’ति सूत्रात्प्रक्रियामाहुरित्यर्थः । ननु हेतुद्वयं व्यर्थमित्यत आह ।। अनादरेति ।। प्रधानेति ।। तथा च त्वत्पक्षे एकेन कृतकार्यत्वात्तत्रैव हेत्वन्तरत्वेऽतिशयालाभः प्रधानसाध्यानन्वयोऽध्याहारश्चेत्येते दोषा इति भावः ।। जातिवाचिनोऽपीति ।। अत एव ‘‘शुचेर्दश्चे’’त्यत्र वृत्तौ ‘‘शोचतीति शूद्रो वृषल’’ इत्युक्तमिति भावः ।। रुग्द्रावणादिति ।। यथा ‘‘रोदेर्णिलुक्चे’’ति सूत्रेण रोदयतीति रुद्र इति व्युत्पादितत्वेऽपि ‘‘रुजं द्रावयते यस्माद्रुद्रस्तस्माज्जनार्दन’’ इति निरुक्तिबलात्प्रकृतिप्रत्ययान्तरकल्पनेन रुद्रशब्दनिष्पत्तिस्तथेहापीत्यर्थः ।
वर्णागमो वर्णविपर्ययश्च द्वौ चापरौ वर्णविकारनाशौ ।
धातोस्तदर्थातिशयेन योगस्तदुच्यते पञ्चविधं निरुक्तम् ।।
इति ऋग्भाष्यटीकोक्तदिशा वर्णविकारादिना शुचा द्रवणादेव हेतोश्शूद्रशब्दनिष्पत्तिर्ध्येयेति भावः । एतेन यदुक्तं श्रुतप्रकाशे ‘‘औणादिकनिर्वाहापेक्षया नैरुक्तप्रक्रियया निर्वाहस्यामुख्यत्वान्न नैरुक्तनिर्वाहः कार्य’’ इति तन्निरस्तम् । तथात्वे जातिवाचित्वानपायात् । सूत्राननुगुणत्वाच्चेति ।। द्वितीयसूत्रार्थमपि प्रत्याह ।। यच्चेति ।। कापेययोगेऽपि चित्ररथत्वं कुत इत्यत आह ।। कापेयेनेति ।। संज्ञाभेदेनेति ।। ‘‘अथैष ज्योति’’रित्यादौ संज्ञाभेदेन कर्मान्यत्वस्य द्वितीये स्थितत्वादिति भावः । एतावता तत्त्वं कुत इत्यत आह ।। समानेति ।। तथा चाभिप्रतारिणश्चित्ररथयाजककापेयेन याज्यतया योगस्तस्य चित्ररथान्वयजत्वेनेति चैत्ररथत्वमित्यर्थः । भवत्वभिप्रतारी चैत्ररथः ततश्च किमित्यत आह ।। चैत्ररथस्येति ।। द्वितीयेति ।। यद्यपि रामानुजमते क्षत्रियत्वावगतेरित्येव द्वितीयम् । उत्तरत्रेत्यादितृतीयम् । तथापि क्षत्रियत्वावगतेरित्यत्र हेत्वनुक्तेः उत्तरत्रेत्यत्रैव हेतूक्तेः ग्रामेशत्वादिलिङ्गाध्याहारेण योगविभागे ज्ञापकाभावात् हेत्वध्याहारस्य क्लिष्टत्वात् चैत्ररथेनेत्यस्य क्षत्रियत्वावगतौ हेत्वन्तरपरत्वे च शब्दापातेन च सर्वस्यापि द्वितीयत्वमेव युक्तमिति वा परमते द्वितीयत्वात्तदभिप्रायेण वा स्वमतरीत्या वा द्वितीयेत्युक्तमिति ध्येयम् । अत्र रैक्वान्वितस्य जानश्रुतेः क्षत्रियत्वनिर्धारणं क्षत्रियप्रायपाठाधीनम् । सोभिप्रतारिणः क्षत्रियत्वाधीनः । तदपि तस्य चैत्ररथत्वनिर्धारणाधीनम् । तच्च तस्य कापेययाज्यत्वावधारणाधीनमित्युक्तम् । तत्र किमपि निर्धारयितुमशक्यम् । निर्धारकाभावादिति क्रमेणाह ।। कापेयमिति ।। कापेय एवेति ।। अभिप्रतारिसहपाठेऽपि कापेये क्षत्रियत्वाभावादिति भावः । ननु सन्दिग्धक्षत्रियभावस्यैव निश्चितधर्मान्तरोपेतान्यसहपाठेन तादृशत्वनिश्चयः । ‘‘विशये प्रायदर्शना’’दित्युक्तम् । न चैवं कापेयः । येनातिप्रसङ्ग इत्यत आह ।। निश्चितेति ।।
ननु कापेयादिसहपाठेऽपि न पौत्रायणस्य ब्राह्मण्यम् । तत्सन्देहस्य तस्मिन्बीजाभावेनाभावादिति चेन्न । संवर्गविद्याश्रोतृत्वादेस्तद्बीजत्वसम्भवात् । ननु तथापि ग्रामेशत्वादिना क्षत्रियलिङ्गेन ब्राह्मणसहपाठो बाध्यत इति चेत्तर्हि शूद्रश्रुत्या क्षत्रियसहपाठोऽपि बाध्यताम् । तद्यौगिकत्वस्याद्याप्यसिद्धेरिति भावः । ननु ब्राह्मणसहपाठः क्षत्रियत्वस्यैव लिङ्गं न ब्राह्मण्यस्येति शङ्कते ।। न चेति ।। यच्चेति ।। उभाभ्यामिति सर्वत्र सम्बध्यते । ‘‘उपत्वानेष्ये तं होपनिन्य’’ इति जानश्रुतेरुपनयनसंस्कारपरामर्शात् ‘‘न शूद्रे पातकं किञ्चिन्न च संस्कारमर्हती’’ति संस्काराभावाभिलापाच्चेति सूत्रार्थः ।। चतुर्थ इति ।। ‘‘नैतदब्राह्मणो विवक्तुमर्हति । समिधं सोम्या हरे’’ति शूद्रत्वाभावनिर्धारणे जात एव तं प्रति ब्रह्मोपदेशे प्रवृत्तेरिति सूत्रार्थः ।। यच्चोक्तमिति ।। ‘‘अथहास्य वेदं शृृण्वतस्त्रपुजतुभ्यां श्रोत्रपरिपूरणं उदाहरणे शरीरभेद’’ इति स्मृत्या शूद्रस्य वेदश्रवणादिप्रतिषेधाच्च न तस्याधिकार इत्यर्थः । एतेन रामानुजरीतिदूषणेनैव तद्रीत्यविशिष्टं कस्यचिच्छैवस्य मतमपि प्रत्युक्तम् । सूत्रार्थोऽपि तथैव निरस्यः । यदत्रोक्तं द्वितीयसूत्रार्थदूषणेऽभिप्रतारिणः कापेयसम्बन्धः प्रतीयमानः श्रुत्यन्तरप्रसिद्धस्तद्याज्यत्वलक्षण एव पर्यवस्यतीति ‘‘याज्यत्वेन तद्योगाप्रतीते’’रिति दोषो न इति तन्न । तथा विशिष्यश्रुत्यन्तराभावात् । ‘‘चित्ररथं कापेया अयाजय’’न्नित्यस्य सामान्यत्वात् । अन्यथाऽभिप्रतारिणः कापेययाज्यत्वे सिद्धे चैत्ररथत्वसिद्धिस्तत्सिद्धौ कापेययाज्यत्वसिद्धिरित्यन्योन्याश्रयापत्तेः । किं चात्र सहपाठस्यैव श्रवणेन सम्बन्धस्याप्रतीतेश्च । अत एव सहपाठेऽपीत्युक्तम् । भोजनार्थं सहोपविष्टावित्येव हि पाठस्सहपाठः । न च तावन्मात्रेण कश्चन सम्बन्धस्सिध्यति । एतेनैव हस्तिहस्तिपयोस्सहस्थितयोर्दर्शनेऽयमस्य हस्तिप इतिवदत्राप्ययमस्य याजक इति ज्ञानं भवतीति निरस्तम् । याजकत्वप्रत्यायकाभावात् । अत एव याज्यत्वेनेत्युक्तमिति ।
चन्द्रिकाबिन्दुः
शोचितृत्वमिति ।। तेन शोचतीति शूद्रः न तु शुचा द्रवतीति व्युत्पत्तिरिति भावः । आद्रवणे अनादरश्रवणे च शोकहेतुत्वं किं समानमित्याशङ्क्य तयोर्मध्ये एकस्य एकत्र ज्ञप्तिकारणत्वं एकत्र तूत्पत्तिकारणत्वमित्यभिप्रेत्याह ।। अनादरश्रवणं हीति ।। चैत्ररथेन लिङ्गादित्यस्य चैत्ररथसमभिव्याहारात् तल्लिङ्गादिति । अयं चैत्ररथश्चाभिप्रतारीनामा कश्चन क्षत्रियः । अभिप्रतारिणश्च क्षत्रियत्वं कापेयाख्यऋषिसम्बन्धात् । कापेयो हि चित्ररथस्य पुरोहितः । चित्ररथश्च वाक्यान्तरबलात् क्षत्रिय इति सिद्धः । अभिप्रतारिणश्च कापेयः पुरोहितः । न च वाच्यं कापेयपुरोहितकत्वमात्रेण कथं क्षत्रियत्वमिति । चित्ररथवंशजातत्वात् अभिप्रतारिणः । न च चित्ररथवंशजातकत्वमपि कथं निर्णेयमिति वाच्यम् । चित्ररथपुरोहितकापेयपुरोहितकत्वात् । लोके तद्वंशजानामेव कूटस्थपुरोहिता एव पुरोहिता भवन्तीति दृष्टम् । यथा वसिष्ठो दिलीपवंशजानाम् । तथा चाभिप्रतारी चैत्ररथः क्षत्रियः । तेन सहोक्तत्वलिङ्गेन पौत्रायणोऽपि क्षत्रिय इत्यादिसूत्रार्थ इति । उभाभ्यामित्युक्तं दूषयितुमनुवदति ।।
यच्चोक्तमुभाभ्यामिति ।। ननु न ब्राह्मणसमभिव्याहारत्वेन प्रयोजकता किं तु दैशिकसमभिव्याहारात् पौत्रायणः क्षत्रिय इति उच्यते इत्यत आह ।। रैक्वेति ।। तन्मते साक्षादुपनयनस्योक्तत्वेन परामर्शशब्दास्वारस्यमित्याह ।। अस्माकमिति ।। साक्षादिति ।। उपनयने ब्रह्मोपदेशसत्त्वेऽपि स न साक्षात् श्रुत इति भावः ।।