प्राणान्,मुख्यप्राणञ्च निरूप्येह ..

ज्योतिराधिकरणम्

तात्पर्यचन्द्रिका

।। ॐ जयोतिराद्यधिष्ठानन्तु तदामननात् ॐ ।।

प्राणान्,मुख्यप्राणञ्च निरूप्येह तेषां कं प्रति करणत्वमिति चिन्त्यत इति सङ्गतिः । अत्र श्रुतिसमन्वयेनोक्तं ब्रह्मणः सर्वस्रष्टृत्वादिकमयुक्तमुत नेति चिन्ता । तदर्थं किं श्रुतिरप्रमाणमुत नेति । तदर्थमिन्द्रियाणाङ्करणत्वाम्नानं जीवस्वामिकत्वाभिप्रायमुतेश्वरस्वामिकत्वेऽपि जीवं प्रति क्रियासाधनत्वमात्राभिप्रायमिति । (ब्रह्मकरणत्वश्रुतिप्रमाणमुत नेति । तदर्थं सा प्रत्यक्षानुगृहीतप्रबलजीवकरणत्वश्रुतिबाधिता न वेति । तदर्थं जीवकरणत्व श्रुतिः करणानाञ्जीवस्वामिकत्वाभिप्रायोतेश्वरस्वामिकत्वेऽपि जीवं प्रति क्रियासाधनत्वमात्राभिप्रायेति ।) यदग्न्यादिरूपज्योतिराद्यधिष्ठातृ ब्रह्म तदेव तत्कार्यभूतचक्षुरादिरूपज्योतिराद्यधिष्ठानमिति सूत्रं योज्यमित्याह भाष्यकारः जीवेनैव करणैःकारयतीति ।। एवञ्च ब्रह्मप्रयोजकजीवकर्तृत्वाभ्याञ्चक्षुरादिकरणसम्बन्धित्वाच्छत्योरविरोध इति भावः ।

अन्ये तु वागादिकरणजातं स्वशक्तयैवाभिवदनादिकारीति प्राप्ते अग्न्यादिभिरभिमानिदेवैरधिष्ठितमेव कार्यकारि । अग्निर्वाग्भूत्वा मुखं प्राविशदित्याद्यामननादिति सिद्धान्तयन्ति । तन्न । ‘‘अभिमानिव्यपदेशस्त्वि’’त्यत्रैवाभिमानिदेवतासमर्थनात् । त्वन्मते तस्य पूर्वपक्षसूत्रत्वेऽपि सिद्धान्ते तस्यानिरासेनानुमतत्वात् । यच्चोक्तमधिष्ठातृत्वेन देवतानां भोक्तृत्वं स्यादिति शङ्कानिरासार्थं ‘‘प्राणवते’’ति सूत्रमिति । तन्न । तस्य ‘‘वैशेष्या’’दित्युक्तन्यायेनाभिमानिसूत्रस्थविशेषशब्देनैव निराससम्भवात् । केचित्तु ज्योतिरिति सूत्रं प्राणेति सूत्रञ्चैकीकृत्य प्राणवता जीवेन सह ज्योतिरादिदेवातानामिन्द्रियविषयं यदधिष्ठानं तत्तदामननात् । परमात्मसङ्कल्पात् । ‘‘य आत्मानमन्तरो यमयति योऽग्निमन्तरो यमयतीति शब्दादिति सूत्रार्थ इत्याहुः । तन्न । परात्तु तच्छतेरित्यत्रैव ‘‘य आत्मान’’मित्यादिश्रुत्या जीवकर्तृत्वमीशाधिष्ठानमित्युक्तत्वात् । प्राणवतेति तृतीयायाः कारकविभक्तित्वसम्भवे सहयोगसापेक्षोपपदविभक्तित्वकल्पनायोगाच्च ।।

प्रकाशिका

तेषामिति ।। मुख्यप्राणान्यप्राणानामित्यर्थः । करणत्वं कर्तृप्रयोज्यत्वरूपम् । ‘‘उतेश्वरे’’त्यारभ्य सर्वाप्येका सिद्धान्तकोटिः ।। ब्रह्मप्रयोजकेति ।। ब्रह्मनिष्ठप्रयोजकत्वजीवनिष्ठकर्तृत्वाभ्यामित्यर्थः । चक्षुरादिकरणसम्बन्धित्वाद्ब्रह्मजीवयोरुभयकरणत्वश्रुत्यविरोध इत्यर्थः ।। इति सूत्रमिति ।। ‘‘सतीष्वप्यधिष्ठात्रीषु प्राणवता जीवेनैवैषां प्राणानां सम्बन्धः । यत्राकाशमनुविषण्णं चक्षुस्स चाक्षुषः पुरुषः । दर्शनाय चक्षु’’रित्यर्थोक्तेश्शङ्कानिरासः ।। केचित्त्विति ।। चक्षुरादिप्राणानां ह्यग्न्यादिदेवताधिष्ठितत्वमभिमानिनयसिद्धम् । जीवाधिष्ठितत्वं च जीवभोगसाधनत्वेन लोकसिद्धम् । तथा चार्थमाह ।। प्राणवतेति ।। जीवेन सह ज्योतिरादिदेवतानामित्यस्यायमर्थः । प्राणवतः प्राणाधिष्ठातुर्जीवस्याग्न्यादिदेवतानां चाधिष्ठात्रीणां यदिन्द्रिय विषयकमधिष्ठानम् । भावे ल्युट् । तन्नियमनादिरूपो व्यापार इत्यर्थः । तज्जीवाद्यायत्तं न भवति । किं तु तदामननाद्भवति । तदामननादित्यस्यार्थमाह ।। परमात्मसङ्कल्पादिति ।। आमननमाभिमुख्येन गमनम् । परमात्मसङ्कल्पादेव भवतीति तदीयभाष्योक्तेः ।। इतिशब्दादिति ।। जीवस्याग्न्यादिदेवतानां च स्वस्वकार्येषु परमात्माधीनत्वप्रतिपादकशब्दादित्यर्थः ।। इत्युक्तत्वादिति ।। ननूक्तमत्र श्रुतप्रकाशिकायां ‘‘परात्तु तच्छते’’रित्यधिकरणे जीवस्य परायत्तकर्तृत्वे सिद्धेऽत्र प्राणवच्छब्देन जीवस्योपादानं दृष्टान्ततयेतीति चेन्न । दृष्टान्तोक्तेरतिशयाभावात् । प्राणवद्यथेत्यादिनिर्देशापाताच्च । भाष्ये शब्दादित्यनेन ‘‘य आत्मान’’मित्यस्योपादानेन जीवकर्तृत्वस्यान्याधीनत्वोपपादनायोगाच्च । अग्न्यादीनामपि जीवत्वेन तेनैव सिद्धेश्चेति भावः । दोषान्तरं चाह ।। प्राणवतेतीति ।। ‘‘जीवेन करणैः कारयति परमात्मे’’त्यस्मद्भाष्योक्तदिशा ‘‘कर्तृकरणयोस्तृतीये’’त्युक्तकर्तृकारकविभक्तित्वे सम्भवति ‘‘सह युक्तेऽप्रधान’’ इत्युक्तोपपदनिबन्धनविभक्तित्वकल्पनमयुक्तम् । ‘‘उपपदविभक्तेःकारकविभक्तिर्बलीयसी’’त्युक्तेरित्यर्थः । ज्योतिरादीनामिति पृथङि्नर्देशाभावेन क्लिष्टयोजनायोगाच्चेत्यपि ध्येयम् ।।

चन्द्रिकाविवृतिः

ॐ ज्योतिराद्यधिष्ठानं तु ॐ ।। अव्यवहितपूर्वाधिकरणसङ्गतिं दर्शयितुमाह ।। मुख्यप्राणं चेति ।। न जीवापेक्षया मुख्यं कारयेदित्यादौ ब्रह्मकरणत्वत्वाभ्यां मुख्यप्राणोऽपि पूर्वं प्रसक्त इति भावः । तेषामिन्द्रियाणाम् । यद्बुद्धिप्राणाः ब्रह्मकारणत्वश्रुतिः प्रबात्वे हेतुः । प्रत्यक्षानुगृहीतेति ।। ज्योतिराद्यधिष्ठानमिति तत्र ज्ञापितत्वात् । अथवा द्वादशं च द्वादश इति स्वरूपैकशेष एव यदा मनसः एकादशत्वविवक्षा तदा बुद्धेः द्वादशत्वं यदा बुद्धेरेकादशत्वविवक्षा तदा मनसो द्वादशत्वमित्युभयेपि द्वादशत्वसंभवादिति स्वामिनः ।

इति श्रीसत्यानन्दतीर्थविरचितायां तात्पर्यचन्द्रिकाविवृतौ द्वितीयाध्यायस्य चतुर्थः पादः ।

द्वितीयाध्यायः समाप्तः ।

वसुषड्वसुविप्रेशशके व्ययसहस्थके । शुक्लषष्ठ्यां भानुवारे रात्रौ मध्वेशतुष्टये ।

भाग्याभिधाननगरे नरसिंहाख्यसूरिणा । तात्पर्यचन्द्रिका सत्यानन्दतीर्थीयटिप्पणी ।