अधिकरणसङ्गतिमाह ।। एवं सर्वस्येति
पृथिव्यधिकरणम्
तात्पर्यचन्द्रिका
अधिकरणसन्गति
ॐ पृथिव्यधिकाररूपशब्दान्तरादिभ्यः ॐ ।।
अधिकरणसङ्गतिमाह ।। एवं सर्वस्येति ।। अत्र श्रुतिसमन्वयेनोक्तस्य ब्रह्मणस्सर्वस्रष्टृत्वस्य सिद्ध्यै ‘‘ता आप ऐक्षंत ता अन्नमसृजन्त अद्भ्यः पृथिवी’’ति श्रुतिद्वयं परस्परविरुद्धं सदप्रमाणमुत नेति चिन्ता । (अत्र श्रुतिसमन्वयेनोक्तं ब्रह्मणः सर्वस्रष्टृत्वादिकं किमयुक्तमुत युक्तमिति चिन्ता । तदर्थं ‘‘ता अन्नमसृजन्त अद्भ्यः पृथिवी’’ति श्रुतिद्वयं किं परस्परविरुद्धमुत नेति) तदर्थं ‘‘ता अन्न’’मिति श्रुतावन्नशब्दः किं प्रसिद्धान्नपरः किं वा प्रकरणादिना पृथिवीपर इति । अत्र ‘‘ता अन्नमसृजन्त अद्भ्यः पृथिवी’’ति श्रुत्योरन्यतराप्रामाण्यमात्रेण जन्मादिसूत्राक्षेपायोगात्, द्वयोः समबलत्वेनागृह्यमाणविशेषत्वाच्चोभयाप्रामाण्येन पूर्वपक्षितम् । वियदाद्यधिकरणेषु तु वियदाद्युत्पत्तिश्रुतिमात्राप्रामाण्येन जन्मादिसूत्राक्षेपसम्भवादनुत्पत्तिश्रुतेः प्रबलत्वेन गृह्यमाणविशेषत्वाच्चैकाप्रामाण्येन पूर्वपक्षितम् । अत एव तत्र न्यायविवरणेऽनुत्पत्तिश्रुतेः प्राबल्यायानुभवाद्यनुगृहीतत्वमुक्तम् । न चेहापि न्यायविवरणेऽन्नश्रुतेः प्राबल्याय बहुवाक्यानुसारितोक्तेति शङ्क्यम् । यतोऽन्नश्रुतेः प्रकरणानुगृहीतपृथिवीश्रुतिविरोधोपयुक्तसमबलत्वायैव बहुवाक्यानुसारितोक्ता । न तु प्राबल्याय । अत एवोक्तं टीकायां ‘‘न चान्नशब्दस्य पृथिव्यर्थत्वेनाविरोधः । प्रसिद्धान्नपरत्वस्वीकारे बहुवाक्यानुसारित्वगुणलाभा’’दिति । ‘‘अद्भ्यो वा अन्न’’मित्यादि न्यायविवरणोदाहृतबहुवाक्यानां प्रसिद्धार्थपरत्वरूपगुणलाभादित्यर्थः । (हेत्वंतरमाह ।। तस्मादिति ।।) न केवलं प्रसिद्धान्नपरत्वे बहुवाक्यानुसारिता । किन्तु लिङ्गद्वयमप्यस्तीत्याह ।। तस्मादित्यादिना ।। उक्तश्रुतिविरोधादिति ।। ‘‘ओषधीभ्योन्न’’मिति श्रुतिविरोधादित्यर्थः ।। भूतविषयत्वादिति ।। अनेन प्रसिद्धान्नविषयतैव निरस्यते । न तु भूताभिमानिदेवताविषयतापीति ज्ञेयम् ।। तेजोशितमितिवदिति ।। तत्र यथा तेजश्शब्दस्तैजसपरस्तथा पृथिवीवाचकोऽन्नशब्दः पार्थिवपर इत्यर्थः । अत्र सूत्रे परव्याख्या न विरुद्धा ।। छ ।। पृथिव्यधिकरणम् ।। ६ ।।
प्रकाशिका
‘‘प्रकृता आप एवात्र विषय’’ इत्यादिटीकां पूर्वपक्षटीकाद्यनुरोधेन व्यनक्ति ।। अत्रेति ।। फलद्योतनाय सिद्धय इत्यन्तोक्तिः । एतेन ‘‘द्वारकारणविषयश्रुतीनां विरोधेनाप्रामाण्ये समन्वयासम्भवा’’दिति पूर्वटीका विवृता । ‘‘ता अन्न’’मित्यत्र तच्छब्दपरामर्शद्योतनाय ‘‘ता आप’’ इति पूर्वांशोक्तिः ।। प्रकरणादिनेति ।। भूतप्रकरण, कृष्णरूप, ‘‘आपश्च पृथिवी चान्न’’मित्यादिशब्दान्तरैरित्यर्थः । व्यक्तोऽत्र फलफलिभावः । अत्र टीकायां पूर्वाधिकरणपूर्वपक्षापेक्षया वैषम्योक्तौ बीजोक्तया तात्पर्यं न्यायविवरणफलत्वं च दर्शयति ।। अत्रेत्यादिना ।। ‘‘न चान्न शब्दस्ये’’त्यादिटीकातात्पर्यं शङ्कापूर्वं व्यनक्ति ।। न चेहापीति ।। अक्षरार्थमाह ।। अद्भ्यो वेति ।। न्यायविवरणोदाहृतेति ।। ‘‘अद्भ्यो वा अन्नमित्यादी’’त्यादिपदोक्तानां ‘‘ता अन्नमसृजंत ता आपोऽन्नमसृजन्ते’’त्यादिबहुवाक्यानामित्यर्थः ।। परव्याख्येति ।। मतान्तरे तु पृथिवीत्यसांप्रदायिकं विच्छेदमङ्गीकृत्यात इत्यनुवर्त्यात इत्यस्याद्भ्य इत्यर्थवर्णनादनेकार्थत्वमतश्शब्दस्य दोष इति भावः ।। छ ।। पृथिव्यधिकरणम् ।। ६ ।।
चन्द्रिकाविवृतिः
।। ॐ पृथिव्यधिकार ॐ ।। अधिकरणसङ्गतिमाहेति ।। यद्यपीयं सङ्गतिः पूर्वाधिकरणैरनेकैरप्यायाति तथाप्यनन्तराधिकरणसङ्गतिरपिलभ्यत एवेति भावः ।। जन्मादिसूत्राक्षेपायोगादिति ।। अन्यतराप्रामाण्ये हि अद्भ्यः पृथिवीति श्रुतेः प्रामाण्यमङ्गीकृत्य ता अन्नमसृजन्त इति श्रुतेरप्रामाण्यं वक्तव्यं तथाप्यब्द्वारा ब्रह्मणः पृथिव्यादिजगत्सृष्टृत्त्वं प्राप्तमेवेति जन्मादिसूत्राक्षेपो न युक्त इति भावः ।। तर्हि वियदाद्यधिकरणेष्वप्यन्यतराप्रामाण्येन पूर्वपक्षो न स्यादित्यत आह ।। वियदाद्यधिकरणेष्विति ।। अत एवानुत्पत्तिश्रुतेः प्राबल्येन गृह्यमाणविशेषत्त्वादेव ।। यतः अन्नश्रुतेर्भूतप्रकरणानुगृहीतपृथिवीश्रुत्या बाधे प्राप्ते सति समबात्त्वान्न बाध इति दर्शयितुं बहुवाक्यानुसारितोक्तेति भावः ।। अत एवेति ।। अन्यथा न चेत्तत्रापि श्रुतिरस्तीत्यादिपूर्वाधिकरणवदेव विन्यासो भवेदिति भावः ।।