यद्यप्यस्य वज्रशब्दस्य वक्ष्यमाणस्य..

कम्पनाधिकरणम्

तात्पर्यचन्द्रिका

वज्रशब्दस्य अन्यत्र प्रसिध्युपपादनम्

।। ॐ कम्पनात् ॐ ।।

यद्यप्यस्य वज्रशब्दस्य वक्ष्यमाणस्य स्वप्नद्रष्टृत्वलिङ्गस्य च लोकतोऽन्यत्रप्रसिद्धिरस्ति । ब्रह्मलिङ्गैर्ब्रह्मण्यपि प्रसिद्धिश्चेदाकाशादिशब्दानामपि सा स्यात् । ‘‘आयुधानामहं वज्र’’मिति प्रयोगात्सा चेत्प्राणादिशब्दानामपि सा स्यात् । ‘‘ईशानःप्राणदःप्राण’’ इत्यादिप्रयोगात् । तथापि नामलिङ्गपादन्यायसाम्येन वज्रादिनाम्नां स्वप्रदृष्टत्वादिलिङ्गानां च ब्रह्मण्यपि प्रयोगस्योक्तप्रायत्वादुभयत्रप्रसिद्धता । न चैवं तृतीयपादवैयर्थ्यम् । स्वतः सिद्धोभयप्रसिद्धीनां पादद्वयापादितोभयप्रसिद्धीनां च स्वतोऽनवसेयावधारणानां ब्रह्मण्येव समन्वय इत्यवधारणार्थत्वात्तृतीयस्य ।

न चैवं नामपादन्यायैरादित्यादिनाम्नामपि ब्रह्मणि प्रयोगस्योक्तप्रायत्वात्तत्साहित्येन सर्वगतत्वादिलिङ्गानामप्युभयत्रप्रसिद्धता स्यादिति वाच्यम् । ततः पूर्वं नामपादे लिङ्गसमन्वयस्यानुक्ततया सर्वपुरुषाभिमुख्यादिभिरादित्ये प्रसिद्धैर्लिङ्गैरादित्यशब्दस्यान्यत्रप्रसिद्धेरुज्जीवनादित्युक्तत्वात् । वज्रे प्रसिद्धैरुद्यतत्वादिलिङ्गैस्तु न वज्रादिशब्दस्यान्यत्रप्रसिद्ध्युज्जीवनम् । इतः पूर्वं लिङ्गपाद उद्यतत्वादिलिङ्गानामपि समन्वयस्योक्तप्रायत्वात् ।

न चैवं बीजाभावात्पूर्वपक्षानुदयः । सावकाशलिङ्गैरप्यनवधारणपूर्वपक्षसम्भवात् । अत एवोक्तमनुव्याख्याने ‘‘आहोभयगतत्वं च स्यादतो लिङ्गशब्दयोः । इति संशयनुत्त्यर्थं’’ इति । ‘‘लोकप्रसिद्ध्या भगवल्लिङ्गेन च साधारणे’’ति टीकापि नामलिङ्गपादन्यायेन भगवल्लिङ्गैस्तत्परतायाः सिद्धप्रायत्वाल्लोकतश्चान्यत्रप्रसिद्धत्वात्साधारण्यमित्यभिप्राया ।

यद्वा यथा ‘‘यदष्टाकपाल’’ इत्याद्यर्थवादादेरवान्तरसङ्गतिवशादर्थवादादिरूपस्व स्थानातिक्रमः तथा वज्रादिशब्दानामन्यत्रप्रसिद्ध्यादिमतामप्यवान्तरसङ्गतिलोभात्स्व स्थानातिक्रमः । प्रायिकत्वाच्च पादव्यवस्था । वक्ष्यति हि चतुर्थाद्ये भाष्यकारः ‘‘प्रायिकत्वाच्चाध्यायानां पादानां च न विरोध’’ इति । यद्वा पादद्वयेऽनुदाहृतानामपि नाम्नां लिङ्गानां च तत्रोक्तन्यायेन विष्णुपरतासिद्धप्रायेति दर्शयितुमन्यत्रप्रसिद्धस्यापि वज्रनाम्नः स्वप्नादिद्रष्टृत्वलिङ्गस्य चेहोक्तिः ।

प्रकाशिका

अस्य विचारस्यास्मिन्पादेऽन्तर्भावं समर्थयितुमाक्षिपति ।। यद्यपीति ।। ‘‘यदिदं किं च जगत्सर्वं प्राण एजति निस्सृतम् । महद्भयं वज्रमुद्यत’’मिति वाक्यस्थवज्रशब्दस्येत्यर्थः । एकन्यायनिर्णेयत्वादाह ।। वक्ष्यमाणस्येति ।। ‘‘सुषुप्त्युत्क्रान्त्योर्भेदेने’’त्यत्रेत्यर्थः । तथा चाद्यपाद एव निवेशस्स्यादिति भावः । टीकायां ‘‘लोकप्रसिद्ध्या भगवल्लिङ्गेन च साधारणवज्रनाम्न’’ इत्युक्तमाशङ्क्याह ।। ब्रह्मेति ।। ‘‘आकाश इति होवाचे’’त्याद्यपादविषयाकाशप्राणादिशब्दानामित्यर्थः । प्रयोगात् गीतायाम् ।। ईशान इति ।। सहस्रनामस्वित्यर्थः । साक्षादनुक्तेराह ।। उक्तप्रायत्वादिति ।। स्वत इति ।। श्रुत्यादिसाम्येनेत्यर्थः ।। पादद्वयेति ।। लोकतोऽन्यत्रप्रसिद्धिः पादद्वेयेन च ब्रह्मण्यापादितेत्युभयत्र प्रसिद्धानामित्यर्थः । एकदेश आपादितप्रसिद्धित्वादापादितोभयेत्युक्तम् । स्वतः न्यायमन्तरेण । उक्तसमाधावतिप्रसङ्गमाशङ्क्य प्रागुक्तं स्मारयति ।। न चैवमिति ।। सर्वगतत्वेति ।। लिङ्गपादोक्तानामित्यर्थः । तर्ह्यत्राप्येवं स्यादित्यत आह ।। वज्र इति ।। लिङ्गानामन्यथासिद्धौ कोट्यन्तरप्रापकाभावमाशंक्याह ।। न चैवमिति ।। आहेति ।। व्याख्यातमेतत् । संशयपूर्वपक्षस्यापि विष्णुरेवेत्यवधारणविरोधफलकत्वं प्रागन्तर्नय एवावोचामेति भावः । अस्मिन्पक्षे विष्णुरेवेत्यवधारणं युक्तमयुक्तं वेति प्रतिनयं संशयो बोध्यः ।

ननु ‘‘द्युभ्वाद्याश्रयो विष्णोरितर एव । अयं प्राणशब्दो वायुवाच्येवोत्क्रमणलिङ्गात् । एतदक्षरं मध्यमं श्रीतत्त्वमेवे’’त्यादिना टीकायां प्रत्यधिकरणमवधारणेन पूर्वपक्षो विरुध्यत इति चेन्न । अत्रत्यानां नामलिङ्गानां प्राक् साक्षादसमन्वितत्वाभिप्रायेण वा प्राक्पादीयन्यायविषयाणामशेषाणां नामलिङ्गानां समन्वयेऽप्येषां तन्न्यायाविषयत्वाभिप्रायेण वा निरवकाशत्वमुपेत्य पूर्वपक्षोक्तेरिति भावः ।

ननु यद्युक्तरीत्या ब्रह्मतदन्ययोरापादितस्वारसिकप्रयोगसाधारण्येनोभयप्रसिद्धता तर्हि टीकायां ब्राह्मलिङ्गैर्ब्रह्मणि लोकतोऽन्यत्र चेत्येवमुभयप्रसिद्ध्युक्तिर्विरुध्यते । अतिप्रसङ्गश्चास्मिन्पक्षे प्रागभ्यधायीत्यतस्तामप्येवमेव नयति ।। लोकेति ।। आकाशादिशब्दे तु नैवम् । ततः पूर्वं लिङ्गानामसमन्वितत्वादिति भावः । एवं टीकोक्तं साधारण्यं समर्थ्यान्यत्रप्रसिद्धत्वेऽप्यत्र निवेशो युक्त इति भावेनात्र निवेशे निमित्तद्वयमाह ।। यद्वेत्यादिना ।। यदष्टाकपाल इति ।। ‘‘वैश्वानरं द्वादशकपालं निर्वपे’’दिति वैश्वानरवाक्ये श्रुतस्य ‘‘यदष्टाकपालो भवती’’त्यादेर्गुणविधिनामधेयत्वार्थवादत्वविचारस्यार्थवादपाद एव निवेशे कर्तव्ये नामधेयत्वरूपावान्तरसङ्गतिलोभान्नामधेयपादे ‘‘पूर्ववन्तोऽविधानार्थास्तत्सामर्थ्यं समाम्नाय’’ इति द्वादशाधिकरणे स विचारः कृतस्तथेहापि । यथा पूर्वत्र वाक्यशेषस्थशुचाद्रवणरूपयोगबलेन शूद्रशब्द यौगिक इत्युक्तं तथा ‘‘वर्जनाद्वज्रमुच्यत’’ इत्यादिस्मृतिगतयोगबलाद्वज्रादिशब्दोऽपि यौगिक एवेत्येवंरूपावान्तरसङ्गतिलोभादत्र निवेश इत्यर्थः ।। इति दर्शयितुमिति ।। अत्र निवेशे ह्युभयप्रसिद्धता सूच्यते । सा च न विष्णुपरतां विना सिध्यति । सा चोक्तदिशा प्राक्तनन्यायमन्तरा न सिद्धेत्यर्थः ।

चन्द्रिकाबिन्दुः

समानन्यायतया स्वप्नादिद्रष्टृत्वेन सहैव वज्रशब्दस्योभयत्रप्रसिद्धत्वं विचारयितुमाह ।। यद्यपीत्यादिना ।। आकाशादिशब्दानामिति ।। तथा च न प्रथमपादे समन्वय इति भावः । एवं च सर्वेषां नामलिङ्गपादद्वयन्यायेन समन्वयस्योक्तप्रायत्वम् । ब्रह्मणि प्रयोगस्येति । अन्यत्रप्रसिद्धिश्च वर्तत एवेति भावः ।। नामलिङ्गपादन्यायसाम्येनेति ।। नामलिङ्गपादयोरुक्तन्यायेन साम्यमित्यर्थः । ततःपूर्वं लिङ्गपादात्पूर्वम् । ननु अन्यत्र प्रसिद्धैस्सूर्यादिलिङ्गैरुज्जीवनवत् अत्र वज्रशब्दीयान्यत्रप्रसिद्धैरुद्यतत्वादिलिङ्गैरुज्जीवनमस्त्वित्यत आह ।। वज्रे प्रसिद्धैरिति ।। इतःपूर्वं तत्र उभयत्र प्रसिद्धपादात्पूर्वम् । एवं उद्यतत्वादिलिङ्गानां लिङ्गपादन्यायेन भगवति समन्वयस्य सिद्धत्वेन ।

ननु भगवल्लिङ्गेन साधारण्योक्तेराकाशादिशब्दसाधारण्यात्कथं टीकायां तदुक्तिरित्यत आह ।। लोकप्रसिद्ध्येति ।। तथा च टीका उपमर्दितेति ध्येयम् । अन्यत्रप्रसिद्धशब्दसमन्वयात्मकत्वे कथमस्योभयत्रप्रसिद्धपादत्वमित्यत आह ।। प्रायिकत्वाच्चेति ।। उभयत्र प्रसिद्धसमन्वयस्य प्रायिकत्वादिति भावः ।। दर्शयितुमिति ।। उभयत्र प्रसिद्धपादेऽन्यत्रप्रसिद्धशब्दोपादाने कथमस्योभयत्रप्रसिद्धत्वमिति शङ्कायां पूर्वपादीयन्यायेनेति न्यायसञ्चारज्ञापनार्थमित्यर्थः ।

पाण्डुरङ्गि

टीकोक्तं भगवल्लिङ्गेन भगवत्परत्वमनुपपन्नम् । आकाशादिशब्दानामप्युभयत्र प्रसिद्धतापातादित्यतस्तस्याभिप्रायं वक्तुं शङ्कते ।। यद्यपीत्यादिना ।। वज्रशब्दस्य स्वप्नद्रष्टृत्वादिलिङ्गस्य च साक्षात्समन्वयानुक्तावपि नामान्तरसमन्वयेन वज्रशब्दस्यापि नामत्वेन तत्साजात्येन तत्समन्वयस्याप्युक्तत्वात् लिङ्गत्वेन सजातीयलिङ्गान्तरसमन्वयोक्तया स्वप्नद्रष्टृत्वादिलिङ्गस्याप्युक्तत्वादित्यभिप्रायेण प्रायशब्दः । यदि नामलिङ्गपादन्यायेन वज्रादिशब्दानां स्वप्नद्रष्टृत्वादिलिङ्गानां च ब्रह्मणि प्रयोगाद्ब्रह्मणि लोकतश्चान्यत्रेत्युभयसाधारण्यं तर्हि आकाशादिशब्दानां लोकतोऽत्यपरत्वात् भगवल्लिङ्गेन च भगवत्परत्वादुभयत्रप्रसिद्ध्यापत्त्या टीकोक्तप्रकारस्य यथाश्रुतस्यासम्भवात्तत्राप्ययमेवार्थोऽनुसन्धेय इति भावेनाह ।। लोकप्रसिद्ध्येति ।। नन्वेवं भगवल्लिङ्गेन भगवत्परत्वमित्यादिटीकाया नामलिङ्गपादन्यायेन भगवल्लिङ्गैस्तत्परतायाः सिद्धप्रायत्वादित्यभिप्रायकल्पने टीकाया गौणत्वं स्यात् । अतष्टीकास्वारस्यानुरोधेन पक्षान्तरमाह ।। यद्वेति ।।