सिद्धान्तस्तु
सिद्धान्तनिरूपणम्- उभयमतपरीक्षा च
तात्पर्यचन्द्रिका
।। सिद्धान्तस्तु ।। परविद्याविषयत्वं तावद्भाष्योक्तश्रुत्यादिभिर्विष्णोरेव । युक्तं च ऋगादिवेद्यस्यापि विष्णोः परविद्याविषयत्वम् । यतः–
प्रवृत्तं च निवृत्तं च यथैकं कर्म कथ्यते ।
उपाधिभेदाद्विद्यापि तथैवैका पराऽपरा ।। १ ।।
यथैकमेव कर्म निष्कामज्ञानपूर्वत्वोपाधिना निवृत्तं सकामत्वाद्युपाधिना च प्रवृत्तम् । ‘‘निष्कामं ज्ञानपूर्वं च निवृत्तमिति चोच्यत’’ इत्यादिस्मृतेः । यथा चैकमेवान्नमुपाधिभेदात्पथ्यमपथ्यं च तथा ऋगादिरूपैकैव विद्या सन्न्यायैः प्रमितब्रह्मविषयकशक्तितात्पर्योपाधिना परा । मोक्षसाधनप्रमाहेतुत्वात् । अन्यथा त्वपरा । तदहेतुत्वात् । तदुक्तं–
ऋगाद्या अपरा विद्या यदा विष्णोर्न वाचकाः ।
ता एव परमा विद्या यदा विष्णोस्तु वाचका ।। इति ।
यत्त्वन्यैरुक्तं परशब्द ऋगादिविशेषरूपोपनिषत्परः । तत्सन्निधानाच्चापरशब्दो गोबलीवर्दन्यायेनोपनिषदितरऋगादिपर इति । तन्न । ‘‘सर्वे वेदा यत्पदमामनन्ति, वेदैश्च सर्वैरहमेववेद्य’’ इत्यादिश्रुतिस्मृतिभिर्ब्रह्मणः सर्ववेदवेद्यत्वात् । उपनिषत्स्वपि ज्ञेयशुद्धब्रह्माविषयाणामुपासनादिवाक्यानां बहूनां मन्त्रेष्वपि ज्योतिरधिकरणोक्तन्यायेन ब्रह्मपरभागस्य च दर्शनाच्च । रूपं द्विविधं नीलमनीलं चेतिवद्द्वे विद्ये
वेदितव्ये परा चैवापरा चेत्यत्र परापरशब्दयोर्विरुद्धार्थत्वप्रतीतेश्च । न हि नीलपदमनीलविशेषपरं भवति । यत्तु कैश्चिदुक्तम् । परोक्षज्ञानमपरा विद्या । भक्तिरूपमपरोक्षज्ञानं तु परविद्येति । तन्न । श्रुतावृगादीनामपरविद्यात्वेनोक्तत्वात् । ‘‘यया तदक्षरमधिगम्यत’’ इति ‘‘येनाक्षरं पुरुषं वेद सत्यं प्रोवाचतां तत्त्वतो ब्रह्मविद्या’’मिति च ज्ञानकरणस्यैव परविद्यात्वेनोक्तत्वाच्चेह विद्याशब्दस्य ज्ञानार्थत्वायोगात् । न चाधिगम्यत इत्यस्य प्राप्य इत्यर्थः । अधिपूर्वस्य गमेर्ज्ञाने प्रसिद्धेः । यद्यपि ‘‘व्रजयजोर्भावे क्यप्’’ इत्यनेन सूत्रेण भावे क्यब्विहितः । तथापि ‘‘संज्ञायां समजनिषदे’’ति सूत्रे वृत्तौ ‘‘भाव इति न स्वर्यते’’ इत्युक्तत्वात् समजंति तस्यामिति समज्या । निषीदन्ति तस्यामिति निषद्येति समज्यादिशब्दानां भावार्थत्वाभावस्योक्तत्वाच्च क्यबन्तो विद्याशब्दो वेदनकरणेऽपि मुख्य एव ।
‘‘आगमोत्थं विवेकाच्च द्विधा ज्ञानं तथोच्यत’’ इति पराशरवचनं तु आगमोत्थविवेकोत्थत्वाभ्यां ज्ञानस्य द्वैविध्यमाह ।। नत्वत्रत्यपरापरशब्दयोः परोक्षापरोक्षज्ञानार्थताम् । ऊर्णनाभ्यादिरपि निमित्तमेवेत्यन्यत्रोक्तम् । ‘‘स ब्रह्मविद्या’’मित्यत्र च ब्रह्मशब्दो न चतुर्मुखपरः । ‘‘सर्वविद्याप्रतिष्ठां येनाक्षरं पुरुषं वेद सत्य’’मिति परविद्याविषयत्वादिब्रह्मलिङ्गात् ।
प्रकाशिका
धर्मोक्तेरिति सूत्रोपात्तनिरवकाशपरविद्याविषयत्वरूपभगवल्लिङ्गादिनान्य प्रापकाणां सावकाशत्वात् अक्षरात्परत इत्युक्ताक्षरस्यान्यत्वेन बाधकाभावाच्च विष्णुरेवादृश्यत्वादिगुणकमक्षरमिति भावेन लिङ्गनिरवकाशत्वं तावत् ‘‘परविद्याविषयत्वस्य च श्रुतिस्मृतिभिर्विष्णुधर्मत्वेनावगतत्वा’’दिति टीकोक्तं व्यनक्ति । परविद्येति ।। अथ परा यया तदक्षरमधिगम्यत इत्युक्तमित्यर्थः । मोक्षसाधनविद्याया एव परविद्यात्वात्तद्विषयं च ‘‘तमेवं विद्वानमृत इह भवति तत्कर्महरितोषं यत्सा विद्या तन्मतिर्यया अथ द्वे विद्ये वेदितव्ये परा चैवापरा च । तत्र ये वेदा यान्यंगानि यानि प्रत्यङ्गानि साऽपरा । अथ परा । यया स हरिर्वेदितव्यो योऽसावदृश्यो निर्गुणः परः परमात्मे’’त्यादिभिर्विष्णोरेव सिद्धमित्यर्थः । ननूक्तमपरविद्याविषयस्य परविद्याविषयत्वमयुक्तमित्यतो ‘‘द्वे विद्ये वेदितव्ये इत्यत्र चे’’त्यादि टीकां विवृण्वन्नाह ।। युक्तं चेति ।। कुत इत्यत ऋगादेरेव परविद्यात्वादिति भावेनाह ।। यत इति ।। श्लोकेनान्वयः । अत इति योज्यम् । पूर्वार्धं व्यनक्ति ।। यथेति ।।
निष्कामं ज्ञानपर्वं च निवृत्तमिति चोच्यते ।
निवृत्तं सेवमानस्तु ब्रह्माभ्येति सनातनम् ।।
इति व्यासस्मृतेरित्यर्थः । स्वर्गादिफलकामनां विनेत्यर्थः । कर्मेत्युपलक्षणं श्लोक इति भावेनाह ।। यथा चेति ।। उत्तरार्धं स्पष्टयति ।। तथेति ।। सन्न्यायैरिति ।। बलाबलत्वादिना सम्यगवधृतोपक्रमादिभिरित्यर्थः ।। प्रमितेति ।। नित्यसापेक्षत्वात्समासः ।। तदुक्तमिति ।। आथर्वणभाष्ये । स्वमते परापरविद्यात्वमुपाधिभेदेनैकत्रैव टीकाद्युक्तं व्युत्पाद्य प्रसङ्गात्परभाष्याद्युक्तमनूद्य निराह ।। यत्त्विति ।। ननु ऋगादीनां कर्मबोधकत्वात्कथं ब्रह्मपरतेति चेत्किमेकदेशस्यान्यपरत्वमुत कृत्स्नस्य । आद्य आह ।। उपनिषत्स्वपीति ।। द्वितीय आह ।। मन्त्रेष्वपीति ।। ‘‘ज्योतिश्चरणाभिधाना’’दित्यत्र स्वप्रदर्शितन्यायेनेत्यर्थः । परापरशब्दर्योर्विशेषसामान्यभावेनार्थवर्णनमयुक्तमित्याह ।। रूपमिति ।। ‘‘द्वे विद्ये वेदितव्ये ब्रह्मविषये परोक्षापरोक्षरूपे द्वे ज्ञाने उपादेये इत्यर्थ’’ इति रामानुजभाष्योक्तमनूद्य निराह ।। यत्त्विति ।। विद्याशब्दस्य ज्ञानार्थत्वसम्भवेऽपीह तद्ग्रहणमयुक्तमित्याह ।। ययेति ।। यया विद्ययाऽधिगम्यते प्राप्यत इत्यर्थसम्भवान्न ज्ञानकारणमिह विद्याशब्दार्थ इत्यत आह ।। न चेति ।।
ननु ‘‘व्रजयजोर्भावे क्य’’बिति पूर्वसूत्रादनुवृत्तस्य भावार्थकस्यैव क्यपः ‘‘संज्ञायां समजनिषदनिपतमनविदषुञ्शीङ्भृञिण’’ इति सूत्रे विहितत्वात्
तत्प्राप्तिहेतुज्ञानं च कर्म चोक्तं महामुने ।
आगमोत्थं विवेकाच्च द्विधा ज्ञानं तथोच्यते ।।
इति पराशरवचने प्रयोगाच्च ज्ञानमेव विद्याशब्दार्थ इत्याशङ्क्याह ।। यद्यपीति ।। भाव इतीति ।। व्रजयजोर्भाव इत्यव्यवहितभावपदं न स्वर्यते । व्यवहितं त्वनुवर्त्यत इति भावः । तथा च ‘‘भावे अकर्तरि च कारके संज्ञाया’’मित्येतत् ‘‘कृत्यल्युटोर्बहुल’’मिति सूत्रपर्यन्तमनुवर्तते । एवं चेह भाव इत्यनुवर्तमाने व्रजयजोर्भाव इति पुनर्भावग्रहणं ‘‘अकर्तरि च कारक’’ इत्यस्य व्यावर्तनेन भाव एव यथा स्यादित्येवमर्थम् । अस्य च भावपदस्य संज्ञायामित्यत्रानुवृत्तौ हि विद्याशब्दो ज्ञान एव मुख्यस्स्यात् । तत्तु न स्वर्यते । स्वरितत्वेन नोच्चार्यते । नानुवर्त्यत इत्युक्तत्वात् संज्ञायां समजनिषदेति सूत्रे क्यबेवानुवर्तते । न त्वकर्तरि च कारक इत्येतद्व्यावर्तकं भाव इत्येतत्पदम् । स्वरितत्वाभावेन ‘‘स्वरितेनाधिकार’’ इत्युक्तस्वरितनिबन्धनाधिकार शब्दितानुवृत्तेरयोगात् उत्तरत्र कृत्यल्युट इति सूत्रपर्यन्तं सामान्यतोऽनुवर्तमाने भावे कर्तृव्यतिरिक्तकारके च क्यपो विधानाद्वेदनरूपभाव इव वेदनकरणेऽपि मुख्य एवेत्यर्थः । उक्तं च प्रक्रियाप्रसादेऽपि ‘‘अनन्तरभावग्रहणं न स्वर्यते । तेन भावादावर्थे’’ इति । अत एवोक्तं सुधायां जिज्ञासानये ‘‘यथार्थज्ञानतत्साधनयोर्विद्याशब्दस्य योगरूढिभ्यां प्रवृत्तत्त्वा’’दिति । पराशरवचनस्य गतिमाह ।। आगमोत्थमिति ।। परोक्षेति ।। यथायोगमन्वयः । एवं परविद्याविषयत्वमन्यत्रानवकाशतया समर्थ्यप्रसङ्गात्परोक्तं च व्युदस्येदानीं पूर्वपक्षप्रापकाणां क्रमेण सावकाशत्वमाह ।। ऊर्णनाभ्यादिरिति ।। अन्यत्र प्रकृत्यधिकरणानुव्याख्यानादौ । तथा च तद्बलादक्षरात्सम्भवतीत्यत्र पञ्चम्या नोपादानत्वमर्थः । किं तु निमित्तत्वमेवेत्यर्थः । एतेनोपादानत्वरूपबाधकाभावेनाक्षरशब्दोऽक्षराधिकरणन्यायेन सावकाश इति न चित्प्रकृतिरिति पक्षोऽपि युज्यत इति सिद्धत्वान्नोक्तम् । चतुर्मुखप्रापकं सावकाशयति ।। स इति ।। आदिपदेन सर्वज्ञादिलिङ्गं गृह्यते ।
चन्द्रिकाबिन्दुः
ऋगादीनामपरविद्यात्वेनोक्तत्वात् शास्त्रयोनिसूत्रे ऋगादिविषयत्वोक्तया अपरविद्याविषयत्वमेवोक्तं न तत्प्रतियोगिभूतं परविद्याविषयत्वमेवेत्यभिप्रेत्याह ।। परा चैवेत्यादिना ।। लौकिकदृष्टान्तमाह ।। यथा चैकमेवान्नमिति ।। यत्त्विति ।। एतच्च सर्वं परमते उपन्यासदूषणादिकं ‘परमार्थविद्याव्याख्यां करोम्यन्वपि चाहमेव इति वाक्यव्याख्यानावसरे सुधायामिदमुक्तं भवतीत्यादिनोक्तम् । सामान्यविशेषयोर्न विभाजकोपाधित्वं किन्तु विशेषयोरेवापरविद्याशब्देन ऋगादीनां सर्वेषामपि ग्रहणम् । तेन विभाजकोपाधित्वमित्यभिप्रेत्याह ।। रूपं द्विविधमिति ।।
यत्तु कैश्चिदिति ।। न चाधिगम्यत इति ।। तथा च विद्याशब्दस्य ज्ञानार्थकत्वमेव स्वीकर्तव्यम् । प्राप्तिसाधनत्वात् ज्ञानस्य ।। यद्यपीति ।। तथा च भाव इति संज्ञायामिति सूत्रेऽनुवृत्तेर्भावव्युत्पन्न एवायं विद्याशब्द इति भावः ।। तथापीति ।। तथा च भावाधिकारो नानुवर्तते इति करणव्युत्पन्नोऽपि भवति भावशब्द इति भावः । नन्वेवं चेद्भावव्युत्पन्नो विद्याशब्दो न स्यात् । तथा च यथार्थज्ञानतत्साधनयोर्विद्याशब्दस्य योगरूढिभ्यामित्यादिसुधाविरोध इति चेत् । अयमर्थोऽत्रावगन्तव्यः– ‘‘भावे’’ अकर्तरि च कारके संज्ञाया’मित्यादौ सूत्रद्वयम् । ततो भाव इति महाधिकारोऽनुवर्तत एव । निवृत्तिस्तु व्रजयजोर्भावे क्यबिति सूत्रस्थभावाधिकारस्यैव । अस्मिंश्च सूत्रे महाभावाधिकारानुवृत्तावपि पुनर्भावग्रहणं अकर्तरि च कारक इति कर्तृभिन्नकारकमात्रसहितमहाभावानुवृत्तौ व्रजयजोरपि भावे कर्तृभिन्नकारकमात्रे च साधुत्वं स्यात् । सन्नियोगशिष्टानामिति न्यायेनोभयोरप्यनुवृत्तेः । तच्च नेष्टम् । अतो भावग्रहणम् । तथा च व्रजयजोर्भाव एव क्यप् न तु कर्तृभिन्नकारकेऽपीति पुनर्भावाधिकारस्याभिप्रायः । ननु यथाकथञ्चित् संज्ञायामिति सूत्रेऽपि भावाधिकारस्यानुवृत्तिरङ्गीकृता । तथा च व्रजयजोरिति भावाधिकारानुवृत्तौ किमिति प्रद्वेष इति चेत्, कारणसद्भावात् । तथा हि व्रजयजोरिति एतत्सूत्रस्थभावाधिकारस्य अकर्तरीति कर्तृभिन्नकारकनिवृत्त्यर्थत्वस्य व्रजयजोरिति सूत्रस्थस्य भाव इत्यस्यैवानुवृत्तौ समजनिषदादिशब्दानां भाव एव साधुत्वं स्यात् । न त्वधिकरणकरणादौ । तथा च समजन्ति तस्यामिति समज्यानिषीदन्ति तस्यामिति निषद्येत्यधिकरणादिषु समज्यादिशब्दानां काशिकायां व्युत्पत्तिर्न प्रदर्शनीया स्यात् । लोके चाधिकरणाभिप्रायेण प्रयोगोऽपि न स्यात् । अत एतद्भावाधिकारस्य निवृत्तिरेव कर्तृभिन्नकारकसहितमहाभावाधिकारस्यैवानुवृत्तिरिति सुष्ठूक्तम् । संज्ञायां समजनिषदेत्यत्र संज्ञायामित्यनुवृत्तेरिति सुधावाक्यस्यायमर्थः पूर्वं विद्याशब्दस्य यथाज्ञानर्थतत्साधनयोः
योगरूढी उक्तवा तावुपपादयति ।। संज्ञायामित्यादिवाक्येन ।। तत्र विद् धातोः क्यब्विधानाद्योगोऽवगम्यते । अकर्तरि च कारके संज्ञायामित्यतः संज्ञाग्रहणानुवृत्तावपि पुनरत्र सूत्रे संज्ञाग्रहणं न कर्तव्यमित्यनुवृत्त्या रूढिश्चेति भावः ।
नन्विदमयुक्तं संज्ञायां समजेत्यादिसूत्र एव संज्ञाग्रहणस्य कृतत्वेन अनुवृत्त्युक्तेर्विरुद्धत्वादिति चेत् अकर्तरि च कारके संज्ञायामित्यतः संज्ञाग्रहणानुवृत्तावपि पुनरत्र सूत्रे संज्ञाग्रहणं न कर्तव्यं प्रयोजनाभावादिति सूत्रे संज्ञाग्रहणखण्डनाभिप्रायेणैवोक्तत्वात् । अत एव महाभाष्ये एतत्सूत्रस्थसंज्ञाग्रहणं खण्डितम् । अत एव क्वचित्सुधापुस्तके समजनिषदेत्यत्र संज्ञायामित्यस्यानुवृत्तेरित्येव पाठः इति सम्प्रदायविदो वदन्ति । अत्र न्यासकारेण संज्ञाग्रहणस्य पुनः क्रियमाणस्याव्यवहिततत्पूर्वसूत्रस्थभावाधिकारनिवृत्तिः प्रयोजनमित्युक्तम् । तदल्पत्वादिप्रयोजनमिति ध्येयम् । स्वामिनस्तु तदपेक्षया विशिष्टधर्मं आचक्षते ।।
पाण्डुरङ्गि
पक्षान्तरे त्विति ।। चतुर्मुखरुद्रपक्ष इत्यर्थः । न स्वर्यते नानुवर्तत इत्यर्थः । अन्यत्र न्यायामृते । उपादानत्वभङ्ग इत्यर्थः ।