अत्र ‘‘श्रुतिर्लिङ्ग’’मित्यादिभाष्ये श्रुत्यादौ पूर्वबलीयस्त्वमुक्तम्

श्रुत्यादीनां बलाबलविचार:

तात्पर्यचन्द्रिका

अत्र ‘‘श्रुतिर्लिङ्ग’’मित्यादिभाष्ये श्रुत्यादौ पूर्वबलीयस्त्वमुक्तम् । तदुपपादयितुं टीकायां

श्रुतिर्नाम समुद्दिष्टं लिङ्गं तल्लक्षणं स्मृतम् ।

पदानि निरपेक्षाणि वाक्यं प्रकरणं तथा ।

एकस्य प्रतिपत्त्यङ्गवचनं स्थानमुच्यते ।

अन्यत्र तत्समोक्तिस्तु समाख्यास्थानमेव च ।।

अध्यायादिप्रबन्धास्तु प्रभेदा आगमस्यतु ।

इति तत्वप्रदीपोदाहृतवचनानुसारेण श्रुत्यादिलक्षणमुक्त्वा तद्बलाबलबीजमुक्तम् । तत्रायं भावः । वाचक(रूढः)शब्दश्श्रुतिः । ‘‘नाममात्रेणे’’ति टीकायां मात्रशब्देन शुद्धो योगो व्यावर्त्यः । न तु रूढिसहितः । तेन योगरूढानां वामनादिशब्दानां न श्रुतित्वहानिः । असाधारणधर्मार्पकः शब्दोवा तदर्पितोऽसाधारणधर्मो वा इह लिङ्गम् ।

न हीहानुमानमात्रं लक्ष्यम् । तस्य वाक्याद्दुर्बलत्वात् । किं तु श्रुतितो दुर्बलं वाक्याच्च प्रबलं वैदिकं लिङ्गम् । तच्च द्विविधम् । एकपदात्मकमनेकपदात्मकं चेति । तत्राद्यं यथा । तल्लिङ्गादित्यादावनन्त इत्यादि । द्वितीयं यथा । ‘‘अत एव प्राण’’ इत्यादौ ‘‘श्रीश्चते लक्ष्मीश्च पत्न््नया’’वित्यादि । तत्राग्निशब्दादिरूपायाः श्रुतेरग्न्यादिरूपे स्वार्थे साक्षाद्धीहेतुत्वात्सर्वतः प्राबल्यम् । धूमशब्दादिरूपस्य लिङ्गस्य तु स्वार्थे व्याप्ये श्रुतिरूपत्वेपि व्यापकेऽग्न्यादौ व्याप्यधीद्वारा धीहेतुत्वात् श्रुतितो दौर्बल्यम् । यथाऽत्रैव व्याप्यार्पकस्य ‘‘ऊर्ध्वं प्राणमुन्नयती’’त्यस्य वामनश्रुतितः ।

स्वस्मिन्नेव पूर्णाकाङ्क्षत्वेनान्यत्र निराकाङ्क्षपदसन्दर्भरूपवाक्यस्य तु स्वार्थे शब्दप्रमाणत्वेपि स्वान्तर्गतपदार्थनिर्णये वा समभिव्याहृतवाक्यान्तरार्थनिर्णये वा कार्येऽनुमापकत्वमेव । तत्राद्यं यथा । तत्त्वमसीति वाक्ये तत्सादृश्यं तच्छब्दार्थ इत्यत्र तत्पदेन सह त्वमसीति पदसमभिव्याहारस्य । वाक्यान्तरार्थनिर्णायकत्वमपि तन्निर्णायकश्रुत्यादियुक्तत्वेन वा प्रश्नोत्तरादिभावेन समभिव्याहारमात्रेण वा । तत्राप्याद्यं यथा । आकाश इति होवाचेति वाक्ये ब्रह्माकाशशब्दार्थ इत्यत्र आकाशः परायण’’मिति वाक्यस्य । द्वितीयं यथा । हृद्यन्तर्ज्योतिरिति वाक्ये ब्रह्मैव ज्योतिश्शब्दार्थ इत्यत्र प्रसिद्धजीवपरत्वेऽनुपपन्नस्य ‘‘कतम आत्मे’’ति प्रश्नवाक्यस्य । ततश्च वाक्यस्य लिङ्गवत्साक्षाद्व्याप्यभूतैकार्थासमर्पकत्वादव्याप्यभूता नेकपदार्थकथनद्वारा प्रश्नोत्तरादिभावेन समभिव्याहृतस्वार्थान्वययोग्य एव वाक्यान्तरार्थ इत्यनुमापकत्वाल्लिङ्गाद्दुर्बलत्वम् । यथा ‘‘दहर’’ इत्यत्र ‘‘किं तदत्र विद्यते यदन्वेष्टव्य’’मित्यादिवाक्यस्यापहतपाप्मत्वादिलिङ्गात् ।

प्रकाशिका

टीकोक्तश्रुत्यादिलक्षणस्य प्रकृतोपयोगं वदंस्तन्मूलप्रमाणमाह ।। अत्रेति ।। टीकायामुक्तमित्यन्वयः । अस्पष्टत्वादाह ।। तत्रायं भाव इति ।। टीकायां ‘‘नाममात्रेण निर्देशश्श्रुति’’रित्युक्तम् । तत्र यानि रूढानि तानि नामानीत्युक्तया रूढशब्दस्यैव श्रुतित्वापत्त्या योगरूढे वामनादिशब्देऽव्याप्तिरित्यतो भावमाह ।। वाचकेति ।। रूढ्या योगरूढ्यावेत्यर्थः । योगरूढस्यापि नामत्वस्य प्रागेवोक्तेरिति भावः । नन्वेवं तल्लिङ्गादित्यत्रोक्तानन्तत्वोद्गीथत्वादिलिङ्गवाचिशब्देऽतिव्याप्तिः । तस्यापि योगरूढिभ्यां विष्णुवाचित्वादिति चेन्न । यौगिकत्वेनैव तत्र लिङ्गत्वोक्तेः । ‘‘अन्तवद्वै किल ते सामे’’त्यादौ पूर्वत्रान्तवत्त्वमुक्त्वाऽऽकाशप्रकरणेऽनन्त इत्युक्तया यौगिकत्वस्यैव प्रतीतेः । अत एवोक्तं तत्र अन्तत्रयोज्खिते विष्णा’’वित्यादि । यद्वा अनन्तशब्दस्य श्रुतित्वेपि तत्र पूर्वोक्तन्यायातिदेशार्थं यौगिकत्वमात्राश्रयणेन लिङ्गत्वोक्तिः ।

यद्वा ‘‘नाममात्रेण निर्देश’’ इत्यत्र रूढशब्देनैव निर्देश इति प्रतीतेस्सर्वस्यापि शब्दस्यौणादिकप्रत्ययान्तत्वेन यौगिकत्वादप्रसिद्धिरित्यतो ‘‘वाचकशब्दः श्रुति’’रित्यभिप्राय उक्तः । न चैवमनन्तादिलिङ्गेऽतिव्याप्तिः । तत्र स्वार्थे श्रुतित्वस्यापि सत्त्वात् । निर्णेयार्थे च व्याप्यार्पकत्वेनानुमापकतया वाचकत्वाभावात् । न चैवं वामनशब्दोपि वामनेतृत्वादिव्याप्यार्पकतया निर्णेयार्थेऽनुमापक इति न श्रुतिः स्यादिति वाच्यम् । आपततोपि व्याप्यार्पकस्यैव लिङ्गत्वेनाभिमततया वामनशब्दे तदभावात् । तस्य द्विरूपत्वेपि लिङ्गत्वानाश्रयणेनापाततो रूढ््याश्रयणेन श्रुतित्वाभिधानाद्वा । नन्वेवं यत्तदादिसाधारणशब्दानां सर्ववाचकतया विष्णोरपि वाचकत्वात्तच्छतित्वापत्तिरिति चेन्न । श्रुतित्वसामान्यस्येष्टत्वात् । विष्णुश्रुतित्वेप्यनिष्टाभावात् । न च तन्निर्णायकतापत्तिप्रसङ्गोऽनिष्टः । श्रुतिमात्रस्यानिर्णायकत्वेऽपि श्रुतित्वानपायात् । असाधारण्येन वाचकश्शब्दश्श्रुतिरित्यप्याहुः । नन्वेवमप्यन्विताभिधानेऽन्वयरूपवाक्यार्थे पदस्यैव वाचकतया तत्र श्रुतित्वं स्यादिति चेदिष्टत्वात् । न च वाक्यप्रमाणकत्वव्यवहारविरोधः । सामान्यान्वये श्रुतित्वेपि विशेषान्वये पदान्तरसमभिव्याहारसापेक्षत्वेन तदुपपत्तेः । तदुक्तं तर्कताण्डवे ‘‘तत्तद्विशेषविशेषोपस्थापनेन पदान्तरसार्थक्या’’दिति । यद्वा ‘‘नाममात्रेण’’इत्यत्र नामपदस्य सुबन्तपद एव प्रसिद्ध्या प्रातिपदिकप्रत्ययपदरूपश्रुतित्रयपरिग्रहाय वाचकश्शब्दश्श्रुतिरित्यर्थ उक्तः । एवं च ‘‘अत्ताचराचरे’’त्यादावादित्यादिप्रातिपदिकस्य गुहानये ‘‘ऋतं पिबन्ता’’ विति द्विवचनस्य पिबत्प्रातिपदिकस्य च ‘‘ब्रह्मजिज्ञासे’’त्यादौ ब्रह्मपदादेश्श्रुतित्वव्यवहारष्टीकादौ युक्तः । अत एव प्रकृतिप्रत्ययसमभिव्याहारेण जीवान्यगुणपूर्णवस्तुनः कर्मत्वप्रतीत्या विषयसिद्धिरुच्यते जिज्ञासासूत्रे । नन्वेवं ‘‘न तु श्रुतेस्स्वतोभेद’’ इति तर्कताण्डववाक्यविरोध इति चेन्मैवम् । मीमांसकोक्तविधायकत्वविनियोजकत्वादिभेदनिषेध एव तात्पर्यात् । यद्वा ‘‘श्रुतिश्शब्दोऽनपेक्षस्स्याद्विध्युक्तिविनियोगकृ’’दित्यादिना मीमांसकैर्विधायकाभिधायकविनियोजकभेदेन श्रुतित्रैविध्यमुक्तम् । तदयुक्तम् । सर्वासां श्रुतीनामभिधायकत्वेन ततो विधान्तराभावादिति परमतनिरासमभिप्रेत्य ‘‘नाममात्रेणे’’त्यादि टीकाप्रवृत्तेत्यभिप्रेत्य ‘‘वाचकश्शब्दश्श्रुति’’रित्यर्थ उक्तः । यथोक्तं तर्कताण्डवे ‘‘सर्वापि श्रुतिरभिधात्र्येव । ज्ञापक एव हि शब्दो न तु कारकः । परं त्विन्द्रादिश्रुतिरिन्द्रमभिधत्ते । लिङादिश्रुतिस्तु विधि’’मित्यादि । ‘‘असाधारणधर्मोलिङ्ग’’मिति टीका न युक्तेव । तल्लिङ्गादित्यादेरसिद्ध्यापत्तेः ।

स एषोनन्त इत्यादौ तादृशधर्मवाचिन एव सत्त्वेन धर्मस्याभावादित्यत आह ।। असाधारणेति ।। असाधारणधर्मवाचको लिङ्गमित्युक्तेऽनेकपदात्मकलिङ्गेऽव्याप्तिरतस्तदर्पक इत्युक्तम् । तदर्पितः शब्दार्पितः । अस्मिन् पक्षे ‘‘तल्लिङ्गा’’दित्युक्तिस्तदर्थस्य लिङ्गत्वात्तस्य लिङ्गत्वमभिप्रेत्येति भावः । अव्याप्तिं निरस्यति ।। न हीति ।। तस्य स्वतन्त्रस्य । एवं श्रुतिलिङ्गयोर्लक्षणटीकां विवृत्येदानीं ‘‘श्रुतेस्साक्षादर्थधीजनकत्वात्सर्वतः प्राबल्यम् । लिङ्गस्यानुमापकतयाऽर्थबोधकत्वात्तदानन्तर्य’’मिति बलाबलोक्तिपरां टीकां विवृणोति ।। तत्रेति ।। दौर्बल्यमिति ।। विलम्बितप्रतीतेर्हेतुत्वादिति भावः । इत्यस्य प्राणव्यवस्थापकत्वबोधकशब्दस्य । यावदयं शब्दस्स्वार्थं व्याप्यमुपस्थाप्येशानशब्दाद्यर्थतया वायुं बोधयित्वा वाक्यस्य तत्परत्वं बोधयति ततः प्रागेव वामनश्रुतिर्खटिति स्वार्थमीशानपदाभिमतं बोधयतीति तस्य दौर्बल्यमित्यर्थः । निराकाङ्क्षपदानि वाक्यमिति टीका ‘‘गौरश्वःपुरुष’’ इत्यादावतिव्याप्तेरन्योन्याकाङ्क्षावत्पदकदम्बकवाक्येऽसम्भवाच्चायुक्तेत्यतस्तदाशयव्यक्तिपूर्वं ‘‘वाक्यस्यानेकार्थकथनद्वाराऽर्थानुमापकत्वात्ततोपि दौर्बल्य’’मिति टीकावाक्ये चानुमापकत्वोक्तिरयुक्ता । तस्य शब्दप्रमाणत्वादित्यतस्तत्साधयंस्तदवान्तरविभागमाह ।। स्वस्मिन्नेवेति ।। स्वार्थे संसर्गरूपे ।। स्वान्तरिति ।। अनेन वाक्यं स्वान्तस्स्थपदार्थनिर्णायकं समभिव्याहृतवाक्यार्थनिर्णायकं चेति द्विविधमित्युक्तं भवति । द्वितीयमपि द्विविधमित्याह ।। वाक्यान्तरेति ।। इदानीं ‘‘वाक्यस्यानेकार्थकथनद्वारे’’ति वाक्यं व्याख्याति ।। ततश्चेति ।। उक्तदिशाऽनुमापकत्वे सतीत्यर्थः । कथं तर्ह्यनुमापकत्वमित्यत आह ।। प्रश्नोत्तरेति ।। आदिपदेन श्रुतिलिङ्गयोर्ग्रहः ।

चन्द्रिकाबिन्दुः

प्रकरणं तथेति ।। प्रकरणं स्थानं च एकस्य प्रतिपत्त्यङ्गवचनमिति योजना । विशेषस्तु एकप्रतिपत्त्यङ्गानेकवाक्यसमुदायः प्रकरणम् । एकप्रतिपत्त्यनेकप्रकरणसमुदायः स्थानमित्यूह्यः । अन्यत्र निर्णीतस्थलान्तरे । स्थानमेव च अध्यायादिप्रबन्धाश्च आगमस्य प्रभेदा इति योजना । तत्रायं भाव इत्यारभ्य विवृतं चैतत्तत्रैव इत्येतत्पर्यन्तं पाठे भेदोऽस्ति ।। श्रीश्चेति ।। श्रीपतित्वादिलिङ्गस्यानेकपदलभ्यत्वादिति भावः । लिङ्गात्मकशब्दस्य स्वार्थश्रुतिरूपत्वमप्यस्तीत्यभिप्रेत्याह ।। धूमशब्दादीति ।। टीकास्थनिराकाङ्क्षाणीत्यस्यार्थमाह ।। स्वस्मिन्नेवेति ।। स्वान्तर्गतेत्यादि तदुदाहरणानुसारेण स्फुटम् । वाक्यान्तरार्थनिर्णायकत्वमपि द्वेधेत्यत आह ।। वाक्यान्तरेति ।। तदप्युदाहरणवाक्यपाठात् स्फुटम् ।। अव्याप्यभूतानेकेति ।। अव्याप्यपदं अनेकपदसमर्पितश्रीपतित्वादिलिङ्गप्रतिपादकात् श्रीश्चेत्यादिवाक्यात् विशेषं द्योतयितुम् । प्रश्नोत्तरादिभावेनेत्येतदुदाहरणात् स्फुटम् ।

पाण्डुरङ्गि

नाममात्रेण निर्देशः श्रुतिरिति टीकायां श्रुतिलक्षणमुक्तम् । तदयुक्तम् । तथात्वे मात्रशब्देन योगमात्रस्य व्यावर्तितत्वेन योगरूढानां वामनादिशब्दानां यौगिकत्वस्यापि विद्यमानत्वेन नाममात्रेण निर्देशत्वाभावेन श्रुतित्वं न स्यात् । किञ्चाग्न्यादिश्रुत्या पूर्वपक्ष इति पूर्वोक्तम् । तदयुक्तम् । तत्राग्न्यादिशब्दानां यौगिकत्वस्यापि सत्वेन नाममात्रेण निर्देशत्वाभावादित्यत आह ।। रूढश्शब्दः श्रुतिरिति ।। असाधारणधर्मो लिङ्गमिति टीकायामुक्तम् । तदयुक्तम् । तथात्वे गन्धवत्त्वधूमादेरप्यसाधारणधर्मत्वेन लिङ्गत्वं स्यात् । न चेष्टापत्तिः । वाक्यापेक्षया प्रबलस्य श्रुत्यपेक्षया दुर्बलस्य लिङ्गस्यैव लक्षणीयत्वादित्यतो व्याचष्टे ।। असाधारणेति ।। निराकाङ्क्षपदानि वाक्यमित्यत्र सर्वथाकाङ्क्षाशून्यत्वं वाऽन्यदीयाकाङ्क्षाशून्यत्वं वा । नाद्यः । गौरश्वः पुरुषो हस्तीत्यादेरप्याकाङ्क्षाशून्यत्वेन वाक्यत्वप्रसङ्गात् । न द्वितीयः । कुण्डं तिष्ठति अजा तिष्ठतीत्यस्याप्यन्यदीयाकाङ्क्षाशून्यत्वेन वाक्यत्वापत्तेरित्यतो व्याचष्टे ।। स्वस्मिन्नेवेति ।। पदानीत्यत्र बहुत्वं न विवक्षितमिति भावेनोक्तं पदसन्दर्भरूपस्येति ।। स्वार्थ इति ।। अन्वितशक्तेः सत्त्वात्संसर्गरूपवाक्यार्थे वाक्यस्य शब्दप्रमाणत्वम् । तन्निर्णायकश्रुत्यादियुक्तत्वेनेत्यत्रादिपदेन लिङ्गपरिग्रहः ।

Load More