केचित्तु

विशिष्टाद्वैतमतपरीक्षा

तात्पर्यचन्द्रिका

केचित्तु छान्दोग्य उत्तरस्मिन्प्रजापतिवाक्येऽपहतपाप्मत्वादिरूपेण जीव उच्यते । तत्र कर्मादिनातिरोहितस्यापहतपाप्मत्वादिगुणस्याविर्भावोक्तेः। पूर्वस्मिन्दहरवाक्ये तु ब्रह्म । तत्रातिरोहितस्य स्वाभाविकस्यैव तस्योक्तेरित्येवंपरतया ‘‘उत्तराच्चेदाविर्भूतस्वरूपस्तु’’ इति सूत्रं व्याचक्षाणाः ‘‘अनुकृते’’रित्यादिसूत्रद्वयं तस्य ब्रह्मणोऽनुकृतेः सादृश्यात् ‘‘मम साधर्म्यमागता’’ इति स्मृतेश्च प्रजापतिवाक्योक्तो जीवो दहरवाक्योक्तं तु ब्रह्मेति पूर्वाधिकरणशेषतया व्याचक्षते । तन्न । प्रजापतिवाक्येऽपि दहरवाक्य इव ‘‘य आत्माऽपहतपाप्मा विजरो विमृत्यु’’रित्यादेरेव श्रवणेन तत्राप्यपहतपाप्मत्वादिप्रादुर्भावोक्तयभावात् । ‘‘स्वेन रूपेणाभिनिष्पद्यत’’ इति वाक्यशेषस्तूभयत्राप्यस्ति । दहरवाक्ये जीवस्याभिनिष्पत्त्युक्तिर्जीवस्वरूपाभिनिष्पादकत्वरूपब्रह्मगुणोक्तयर्था चेत् । प्रजापतिवाक्येऽपि तदर्थाऽस्तु ।

किञ्च अपहतपाप्मत्वादिगुणक आत्मनीन्द्रेण पुनः पुनः पृष्टे प्रजापतिः ‘‘य एषोंऽतरक्षिणि पुरुषो दृश्यत एष आत्मे’’ति ‘‘य एष स्वप्ने महीयमानश्चरत्येष आत्मे’’ति ‘‘यत्रैतत्सुप्तः समस्तः सम्प्रसन्नः स्वप्नं न विजानात्येष आत्मे’’ति ‘‘तदस्यामृतस्याशरीरस्यात्मनोऽधिष्ठान’’मित्यसकृदुपदिदेश । तत्र चाक्षिवाक्यं तावद्ब्रह्मविषयम् । ‘‘अन्तस्तद्धर्मोपदेशात् । अन्तर उपपत्ते’’रित्यत्र च निर्णीतब्रह्मत्वस्य ‘‘य एषोऽन्तरक्षिणि पुरुषो दृश्यते’’ इति श्रुत्यन्तरोक्तस्यैवेह प्रत्यभिज्ञानात् । जीवस्य हृत्स्थत्वेनाक्षिस्थत्वाभावाच्च ।

स्वप्नवाक्यमपि तथा । ‘‘स्वप्नेन शारीरमभिप्रहत्यासुप्तः सुप्तानभिचाकशीती’’ति श्रुत्यन्तरात् । अत्रापि महीयमानत्वलिङ्गाच्च । सुप्तवाक्यमपि तथा । ‘‘प्राज्ञेनात्मना सम्परिष्वक्त’’ इत्यादिश्रुत्यन्तरात् । अत्रापि ‘‘यत्र सुप्त’’ इति यच्छब्दोक्तस्य समस्तसुप्ताधारस्यैव ‘‘एष आत्मे’’त्येतच्छब्देन परामर्शाच्च ।

अशरीरवाक्यमपि तथा । अशरीरशब्देन निरपेक्षस्य सार्वकालिकस्य च शरीरराहित्यस्य स्वरसतः प्रतीतेः । तस्य चेश्वर एव सम्भवात् । किं चाक्ष्यादिवाक्येषु प्रतिवाक्यं ‘‘एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मे’’ति श्रवणात्कथं तेषां जीवविषयता । किं च प्रजापतिवाक्ये ‘‘य आत्माऽपहतपाप्मे’’ति प्रसिद्धार्थेन प्रकृतपरामर्शिना च य इति सर्वनाम्ना ‘‘एष आत्माऽपहतपाप्मे’’ति प्रस्तुतदहरवाक्ये प्रसिद्धेश्वरपरामर्श एव युक्तः । अपि च ‘‘तेषां सर्वेषु लोकेषु कामचारो भवती’’ति दहरवाक्ये यन्मोक्षाख्यं फलं तस्यैव ‘‘तेषां सर्वेलोका आप्ता’’ इति प्रजापतिवाक्येऽपि श्रुतत्वात् तथा दहरवाक्ये ‘‘तस्मिन्यदन्तस्तदन्वेष्टव्य’’मिति यदन्वेष्टव्यत्वादिकमुक्तं तस्यैव प्रजापतिवाक्ये ‘‘सोऽन्वेष्टव्यः स विजिज्ञासितव्य’’ इति श्रवणात् ‘‘इन्द्रो विरोचनश्चैव श्रुत्वा तं ब्रह्मणोऽक्षिगम् । विष्णुमानन्दरूपे त’’मित्यादिस्मृतेश्च न तयोर्भिन्नार्थतेति दिक् ।

अनुकृतेरित्यादिसूत्रद्वये च किं मुक्तस्यापहतपामत्वादिरूपेणेश्वरसाम्यं साध्यं किं वाऽन्यत्रप्रसिद्धेन तेन दहरप्रजापतिवाक्योक्तयोर्ब्रत्वजीवत्वे साध्ये । नाद्यः । तस्य त्वन्मते चतुर्थे ‘‘सम्पद्ये’’त्यादावेव सिद्धेः । समन्वयाध्यायासङ्गतेश्च । सूत्रेऽनुकृतेरिति साम्यस्य हेतुत्वोक्तेश्च । नान्त्यः । अनुकृतिमात्रेण पूर्वोक्तं ब्रह्म पश्चादुक्तस्तु जीव इत्यस्यासिद्धेः ।

प्रकाशिका

केचित्त्विति ।। इति व्याचक्षाणाः पूर्वाधिकरणशेषतया व्याचक्षत इत्यन्वयः । अयमर्थः । ‘‘इतरपरामर्शात्स इति चेन्नासम्भवा’’दित्यत्र ‘‘एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाये’’ति जीवपरामर्शात्स एव दहराकाश इति चेन्न । तस्मिन्पूर्वोक्तापहतपाप्मत्वादेरसम्भवादित्युक्ते उत्तरस्मात् ‘‘य आत्माऽपहतपाप्मेत्यादि प्राजापत्यवाक्याज्जीवस्यैवापहतपाप्मत्वादिगुणयोगो निश्चीयत इत्याशङ्क्य प्राजापत्यवाक्ये न स्वाभाविकापहतपाप्मत्वादिगुणक उच्यते । अपि तु प्राक्तिरोहितस्वरूपस्सन् ‘‘परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यत’’ इति भगवत्प्रसादाविर्भूतगुणक एव । अत उत्तरवाक्यं जीवपरमिति युक्तम् । पूर्वत्र दहरवाक्ये त्वपहतपाप्मत्वादयस्स्वाभाविका एव श्रूयन्ते । तेच जीवे न युक्ता इति दहराकाशो न जीवः । किं तु तथोच्यमानः परमात्मैवेत्यत्र हेत्वन्तरमत्रोच्यते । तस्य दहराकाशस्य परमात्मनोऽनुकृतेरनुकारात् ‘‘परमं साम्यमुपैती’’त्युक्तसाम्यापत्तेश्चेति यावत् । अतोऽनुकृत्या प्रजापतिवाक्ये तादृशगुणवत्त्वेन निर्दिष्टो जीवः अनुकार्यं ब्रह्म दहराकाश इति ‘‘इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः’’ इति संसारिणो मुक्तयवस्थायां परमसाम्यापत्तिलक्षणः परब्रह्मानुकारस्स्मर्यतेऽपीति पूर्वाधिकरणशेषतया व्याचक्षत इति । पूर्वोत्तरवाक्ययोः परोक्तं वैलक्षण्यमसिद्धमिति भावेनाह ।। तन्नेति ।।

ननु ‘‘य आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोकोऽविजिघत्सोऽपिपास स्सत्यकामस्सत्यसङ्कल्पस्सोऽन्वेष्टव्यस्स विजिज्ञासितव्यः सर्वांश्च लोकानाप्नोति सर्वांश्च कामान् यस्तमात्मानमनुविद्य विजानाती’’ति प्रजापतिवचनमैतिह्यरूपेणोपश्रुत्याऽन्वेष्टव्यात्मस्वरूपजिज्ञासया प्रजापतिमुपसेदुषे मघवते प्रजापतिर्जागरितस्वप्नसुषुप्त्यवस्थजीवात्मानमशरीरं क्रमेण शुश्रूषुयोग्यतापरिचिक्षिषयोपदिश्य तत्र परिशुद्धात्मस्वरूपोपदेशयोग्याय मघवते ‘‘मघवन्मर्त्यं वा इदं शरीरमात्तं मृत्युना तदस्यामृतस्याशरीरस्याधिष्ठान’’मिति शरीरस्याधिष्ठानतामात्मनश्चाधिष्ठातृतामशरीरस्यामृतस्वरूपतां चोक्त्वा ‘‘न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति । अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशत’’ इति कर्मारब्धशरीरयोगिनस्तदनुगुणसुखदुःखभाक्त्वरूपानर्थं तद्विमोक्षे च तदभावमभिधाय ‘‘एवमेवैष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परञ्ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत’’ इति जीवात्मनस्स्वरूपमेव शरीरवियुक्तमुपदिदेश । ‘‘स उत्तमः पुरुषः । स तत्र पर्येति जक्षन्क्रीड’’न्नित्यादिना प्राप्यस्य परस्य ज्योतिषः पुरुषोत्तमत्वं निवृत्ततिरोधानस्य परञ्ज्योतिरुपसम्पन्नस्य प्रत्यगात्मनो ब्रह्मलोके यथेष्टभोगावाप्त्यादिकमभिधाय ‘‘स यथा प्रायोग्य आचरणे युक्त एवमस्मिन् शरीरे प्राणो युक्त’’ इति यथोक्तस्वरूपस्यैव संसारदशायां कर्मतन्त्रं शरीरयोगं युग्यशकटयोगदृष्टान्तेनाभिधाय ‘‘यत्रैतदाकाशमनुविषण्णं चक्षुः स चाक्षुषः पुरुषो दर्शनाय चक्षुरथ यो वेदेदं जिघ्राणीति स आत्मा गन्धाय घ्राण’’मित्यादिना चक्षुरादीनां करणत्वं रूपादीनां ज्ञेयत्वमस्य च ज्ञातृत्वं प्रदर्श्य तत एव शरीरेन्द्रियेभ्यो व्यतिरेकमुपपाद्य ‘‘स वा एष एतेन दैवेन चक्षुषा मनसैतान्कामान् पश्यन्रमते य एते ब्रह्मलोक’’ इति तस्यैव विधूतकर्मनिमित्तशरीरेन्द्रियमनश्शब्दाभिहितेन दिव्येन स्वाभाविकेन ज्ञानेन सर्वकामानुभवमुक्त्वा ‘‘तं वा एतं देवा आत्मानमुपासते । तस्मात्तेषां सर्वे च लोका आप्तास्सर्वे च कामा’’ इत्येवंविधमात्मानं ज्ञानिनो जानन्तीत्यभिधाय ‘‘सर्वांश्च लोकानवाप्नोति सर्वांश्च कामान्यस्तमात्मानमनुविद्य विजानातीति हि प्रजापतिरुवाचेत्येवंविधमात्मानं विदुषस्सर्वलोकसर्वकामावाप्त्युपलक्षितं ब्रह्मानुभवं फलमभिधायोपसंहृत’’मित्यन्तेन तदीयभाष्येण, प्रजापतिवाक्यजातस्य सर्वस्यापि जीवपरत्वमुक्तम् । तत्कथमुच्यते दहरवाक्याद्वैलक्षण्यं नेतीत्यतो जागरितस्वप्नसुषुप्ताशरीरवाक्यानि प्रकरणचतुष्टयगतानि तावत्क्रमेणोदाहृत्य तेषां ब्रह्मपरत्वं साधयति ।। किं चेत्यादिना ।। उपदिदेश प्रजापतिरिंद्रायेत्यर्थः । अन्तरिति तन्मतरीत्योपन्यासः । तत्रत्यविषयवाक्यं य एषोऽन्तरिति ।। हृत्स्थत्वेनेति ।। ‘‘अवस्थिति वैशेष्यादिति चेन्नाभ्युपगमाद्धृदि ही’’ति सूत्रे ‘‘एष आत्मे’’ति श्रुतौ च सिद्धत्वादिति भावः । ‘‘हृदयस्थात्पराज्जीवो दूरस्थो जाग्रदेष्यती’’ त्यादित्वदभिमानातिशयाभिप्रायम् । यथा चैतत्तथावोचामान्तराधिकरणे ।। तथेति ।। ब्रह्मविषयमित्यर्थः । शारीरं जीवमभिप्रहत्यसंयोज्येति वाजसनेयवाक्यादित्यर्थः । न च तत्रापि विवादः । ‘‘शुक्रमादाय पुनरेति स्थानं हिरण्मयः पुरुष एकहंस’’ इति वाक्यशेषे जीवमादाय गच्छतीति श्रवणात्पूर्वोक्तार्थे श्लोकत्वेनोदाहरणाच्चेति भावः । महीयमानत्वं च जीवस्य तदा न युक्तम् । भयादेरप्युपलम्भात् । न च कदाचिन्महीयमानत्वम् । नित्यवच्छ्रवणविरोधात् । ‘‘प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किंचन वेद नान्तर’’मिति वाजसनेये सुप्तौ भगवत्परिष्वंगेनैव बाह्याद्यज्ञानश्रवणेन तत्समाख्ययाऽत्रापि तथात्वमित्यर्थः । ‘‘मर्त्यं वा इदं शरीरं तदस्यामृतस्याधिष्ठान’’मिति वाक्यमपि ब्रह्मपरमित्याह ।। अशरीरेति ।। तस्य चेति ।। ‘‘अरूपवदेवे’’त्यत्र वक्ष्यमाणत्वादिति भावः । अक्षिस्वप्नसुप्तिवाक्येषु त्रिषु ब्रह्मपरत्वे युक्तयन्तरं चाह ।। किं चेति ।। ननूपक्रमे ‘‘य आत्माऽपहतपाप्मे’’त्यादिना जीवस्योपक्रान्तत्वात्तत्परत्वं सर्वस्य वाच्यमित्यतस्तदपि न जीवविषयमित्याह ।। किं च प्रजापतीति ।। प्रकारान्तरेण दहरवाक्यवैलक्षण्यमाह ।। अपि चेति ।। विष्णुमानन्दरूपेतं सम्यग्ज्ञानविपर्ययौ । आप तु’’रित्यादिछान्दोग्यभाष्योदाहृतस्मृतेरित्यर्थः ।

एवं वाक्यान्तराण्यपि ब्रह्मपरतया साधनीयानीत्याह ।। दिगिति ।। तथा हि ।। ‘‘प्रायोग्य आचारणे युक्त एवमस्मिन् शरीरे प्राणो युक्त’’ इत्यत्र प्राणशब्दस्य ‘‘अत एव प्राण’’ इत्यादौ परब्रह्मण्येव प्रसिद्धत्वात् ‘‘आकाशमनुविषण्णं चक्षु’’रित्यादिवाक्यस्य ‘‘इदं पश्यामि जिघ्राणी’’त्यत्रापि ‘‘जीवा न वै विदुः । द्रव्याणामपि चाज्ञानाद्वेदासौ पुरुषोत्तम’’ इत्यादिस्मृत्या विष्णुपरत्वात् । ‘‘एतं देवा आत्मानमुपासत’’ इति देवोपास्यत्वश्रवणाच्च । तदुक्तं भगवत्पादैः ‘‘न हि जीवमात्रं देवा उपासते । ऊर्जं पृथिव्या भक्त्वायोरुगायमुपासत इति हि श्रुति’’रिति । अन्यस्तु क्षुद्रोपद्रवोऽग्रे निरसिष्यते । सूत्रार्थं च पराचष्टे ।। अनुकृतेरिति ।। तेन ईश्वरसाम्येन । ‘‘सम्पद्याविहाय स्वेन शब्दा’’दित्यत्रेत्यर्थः । एतेन प्रायो रामानुजरीतिमनुसरतः कस्यचिच्छैवस्य मतमपि प्रत्युक्तं बोध्यम् । तदत्र शिवार्कमणिदीपिकायां चन्द्रिकोक्तरीत्याक्ष्यादिवाक्यानां ब्रह्मपरत्वमाशङ्क्य समाधानमुक्तं स्वप्नवाक्ये स्वप्नप्रयोजकत्वेन सुषुप्तिवाक्ये सुषुप्त्याधारत्वेन ब्रह्मणि सम्भवन्स्वप्नसुप्तिसम्बन्धो नोच्यते । येन समाख्यादिबलाद्ब्रह्म स्यात् । किन्तु स्वप्न सुप्त्यवस्थावत्त्वमेव । स्वप्नसम्बन्ध्यात्मोपदेशानन्तरं ‘‘घ्नन्तित्वेवैनं विच्छाययन्ति वे’’त्यादिनेन्द्रेण तस्य हन्यमानत्वादिप्रतिभासतो दुष्टत्वस्य सुप्तिसम्बन्ध्यात्मोपदेशानन्तरं ‘‘नाहं खल्वयमेवं संप्रत्यात्मानं जानातीत्ययमहमस्मीति नो एवैमानि भूतानि विनाशमेवापीतो भवती’’ति तस्य ज्ञानशून्यतया विनष्टप्रायत्वस्योक्तत्वात् । अक्षिवाक्ये ‘‘एतदमृतमभय’’मित्यादि तु मुक्तयवस्थायां भाविरूपापेक्षयोपपद्यत इति । तदसारम् । स्वप्नादिवाक्यशेषे ‘‘घ्नन्तीवे’’त्यादिश्रवणेऽपि इन्द्रः ‘‘एष स्वप्ने महीयमान’’ इति प्रजापतिनोक्तस्वप्नप्रदर्शकं ब्रह्मैवेति जानन्नप्यसुरमोहाय जीवविवक्षया घ्नन्तीत्यादिदोषान्वक्तीत्युपपत्तेः । उक्तं च–

पुनः पुनश्च मोहाय गत्वा गत्वा निवर्तते ।

कथञ्चिदेव विज्ञातं मयेत्यज्ञान्विमोहितुम् ।

तद्योग्यान्येव वाक्यानि ब्रह्माप्याह पुनः पुनः ।। इति ।

‘‘दर्शयन्नासुरीं बुद्धिं स्वप्नदृश्यविवक्षया । घ्नन्तीवैनमदन्तीवे’’त्यादि च । यदप्यमृतत्वादिकं मुक्तयवस्थाभिप्रायेणेति तन्न । तथात्वेऽन्तराद्यधिकरणेऽपि तथात्वापत्त्या तत्रत्यसिद्धान्तहान्यापत्तेः । महीयमानत्वस्य दुरुपपादत्वाच्च । अक्षिस्थत्वायोगस्मृतिविरोधादेरनुद्धृतत्वाच्च यत्किञ्चिदेतत् । यच्चोक्तं सूत्रे तस्येति कर्तृषष्ठ्यन्तेन जीवः परामृश्यते । दहरपदं कर्मणि षष्ठ्यन्ततया विपरिणामेन दहरस्येतीहानुवर्तते । तथा च जीवस्य दहरानुकृतेरनुकर्त्रनुकार्ययोर्भेदाद्दहरो न जीव इति सूत्रार्थ इति तन्न । अनुवृत्तिविपरिमणामप्रथमान्तावृत्तीनां क्लिष्टत्वात् । अस्मद्रीत्याऽनुकृतेस्साक्षात्साध्यान्वयसम्भवे तया भेदं प्रसाध्य तस्य साध्यान्वयोक्तेरयुक्तत्वात् । ‘‘गगनं गगनाकारं सागरस्सागरोपम’’ इत्यादावभेदेऽप्यनुकर्त्रनुकार्यभावनिर्देशाच्चेति ।

चन्द्रिकाबिन्दुः

एवंपरतयेति ।। तथा च जीवलिङ्गवशेन उत्तरखण्डषट्कस्य जीवपरत्वेऽपि पूर्वखण्डषट्कस्य ब्रह्मपरत्वमेव जीवलिङ्गाभावादिति परस्याभिप्रायः । अनुकृतेरित्यस्यार्थः सादृश्यादिति । अपि स्मर्यत इत्यस्यार्थमाह ।। ममेति ।। पूर्वोत्तरखण्डयोर्भिन्नविषयत्वं खण्डयति ।। प्रजापतिवाक्येऽपीति ।।

ननु प्रजापतिवाक्ये स्वेन रूपेणाभिनिष्पद्यत इति जीवपरषट्कवाक्यमस्तीत्यत आह ।। स्वेन रूपेणेति ।। प्रजापतिवाक्येऽपि ब्रह्मपरवाक्यानि दर्शयति ।। किञ्चेत्यादिना ।। तथा ब्रह्मपरम् । दहरवाक्यप्रजापतिवाक्ययोरेकविषयत्वं पूर्वपरामर्शकयच्छब्दवशादित्यभिप्रेत्याह ।। किञ्चेति ।। दहरस्य ज्ञानफलस्य प्रजापत्युक्तज्ञानेनाप्युक्तेरुभयोरैक्यमित्यभिप्रेत्याह ।। अपि चेति ।। जिज्ञास्यत्वप्रत्यभिज्ञानाच्चैक्यमित्याह ।। तथा दहरवाक्य इति ।। ईश्वरसाम्यमिति ।। अनुकृतिशब्दोक्तमिति शेषः ।। अन्यत्र प्रसिद्धेन तेनेति ।। स्मृत्यादौ प्रसिद्धेनेशसाम्येनेत्यर्थः ।। समन्वयाध्यायेति ।। मुक्तगतेशसाम्यसाधनस्येति शेषः ।। हेतुत्वोक्तेश्चेति ।। तथा च साम्यस्य साध्यत्वोक्तिरयुक्तेत्यर्थः ।

।। अनुकृतिमात्रेणेति ।। अपहतपाप्मत्वादिगुणेन ईशसाम्यमात्रेणेत्यर्थः ।। असिद्धेरिति ।। साम्यस्योभयत्राविशेषेण वैपरीत्यस्यापि वक्तुं शक्यत्वादिति भावः ।। प्रधानसाध्य इति ।। आनुकूल्येन गृह्यमाणस्य ब्रह्मत्व इत्यर्थः ।

पाण्डुरङ्गि

स्वप्नवाक्यमपि तथेति ।। एष स्वप्ने महीयमान इति स्वप्नवाक्यमपि ब्रह्मविषयकमित्यर्थः ।। सुप्तवाक्यमपीति ।। तद्यत्रैतत्सुप्तस्समस्तं संपन्न इति सुप्तवाक्यमपि ब्रह्मविषयकमित्यर्थः ।। अशरीरवाक्यमपीति ।। तदस्यामृतस्याधिष्ठानमित्यशरीरवाक्यमपि ब्रह्मविषयमित्यर्थः । तेन अनुकरणेनेत्यर्थः ।। तस्येति ।। साम्यस्येत्यर्थः । तथा च तेन पौनरुक्तयमित्यर्थः ।। साम्यस्य हेतुत्वोक्तेश्चेति ।। तथा च साम्यस्य साध्यत्वे सूत्रविरोध इत्यर्थः ।। असिद्धेरिति ।। विशिष्टसाध्ये हेतोरप्रयोजकत्वादिति भावः ।

Load More