यत्तूक्तमुभाभ्यां..

उभयमतपरीक्षा

तात्पर्यचन्द्रिका

यत्तूक्तमुभाभ्यां मन्त्रार्थवादादेरनुष्ठेयप्रकाशनस्तुत्यादिपरत्वेन देवतानां विग्रहादिराहित्येनार्थावच्छिन्नशब्दरूपतया शब्दावच्छिन्नार्थरूपतया वा जडत्वेनासामर्थ्यादनधिकार इति प्राप्ते मन्त्रादिभिस्तासां विग्रहादिमच्चेतनत्वादस्त्यधिकार इत्याद्यसूत्रेण सिद्धान्त इति । तन्न । पूर्वसूत्रस्थमनुष्यपदेनेह तत्सजातीयचेतनान्तर एवानधिकार शङ्कोदयेनाचेतनानधिकारपूर्वपक्षस्यासङ्गतेः । अस्मद्रीत्या ‘‘अभिमानी’’ति सूत्रोक्तन्यायेन मन्त्रादेः स्वार्थपरत्वेन विग्रहाद्यङ्गीकारेण पूर्वपक्षसम्भवे तदनङ्गीकारेण तस्य जघन्यत्वाच्च । किं च पूर्वपक्षे स्वार्थे मन्त्रादेरप्रामाण्येऽप्युपनिषदामपि स्वार्थे प्रामाण्यं नास्ति चेद्ब्रह्मैव च न सिध्येत् । अस्ति चेत् ‘‘ता एता देवताः सृष्टा अस्मिन्महत्यर्णवे प्रापतंस्तमशनायापिपासाभ्यामन्ववार्जत्ता एनमब्रुव’’ न्निति ‘‘तत एते व्यजायन्त विश्वो हिरण्यगर्भोऽग्निर्यमो वरुणरुद्रेन्द्रा’’ इत्याद्युपनिषद्भिरेव विग्रहादिसिद्धिः । न हि ताः स्रष्टरि प्रमाणं सृज्ये तु नेति युक्तम् ।

किञ्च–

देवताविग्रहादिश्चेत् श्रुतितात्पर्यगोचरः ।

बाध्यो न स्यान्न चेन्न स्याद्व्यावहारिकसन्नपि ।। १ ।।

अन्यथा चितिमात्रं च बाध्येतैव कदाचन ।

यजमानप्रस्तरत्वमपि स्याद्व्यावहारिकम् ।। २ ।।

समर्थितं चैतत्प्राक् । यच्चोक्तं परैः देवतानां देवतान्तराभावेन तदुद्देशेन हविस्त्यागायोगात् ऋषीणां च भृग्वादीनां भृग्वाद्यन्तराभावेन तद्वरणायोगाद्यज्ञादिकर्मस्वनधिकारेऽपि ब्रह्मविद्यासु सोऽस्तीति । तन्न । देवतानामपि ‘‘यज्ञेन यज्ञमयजन्त देवा’’ इति ‘‘देवा वै सत्रमासते’’ति ‘‘देवा यज्ञमतन्वते’’ति ‘‘देवा वै चतुर्होतृभिर्यज्ञमतन्वते’’ति ‘‘यद्विश्वदेवाः समयजन्त तद्वैश्वदेवस्य वैश्वदेवत्व’’मिति ‘‘प्रजापतिर्वा एतेनाग्रेऽयजते’’ति ‘‘इन्द्रोऽश्वमेधाञ्शतमिष्ट्वे’’ति ‘‘देवा वै वरुणमयाजयन्’’ इत्यादिश्रुतिभिः,

ततस्तु देवताः सर्वा ब्रह्मा चैव महर्षयः ।

वेददृष्टेन विधिना वैष्णवं क्रतुमाहरन् ।।

इत्यादिभारतादिवचनैश्च देवानामपि यज्ञादिसद्भावात् । शूद्रवच्च तेषामधिकारनिषेधाभावात् । देवताकर्तृकयज्ञेषु च–

योमे यथा कल्पितवान्भागमस्मिन्महाक्रतौ ।

स तथा यज्ञभागार्हो वेदसूत्रे मया कृतः ।

मामेव यजतां शक्रः पावयिष्यामि वज्रिणम् ।।

इति भारते देवादीन्प्रति भगवद्वचनादिभिरग्नीन्द्रादिशब्दमुख्यार्थो भगवानेवोद्देश्यः । अत एव ‘‘इन्द्रो वा अकामयत ज्यैष्ठ्यं देवानामभिजयेयमिति । स एतमिन्द्राय ज्येष्ठाय पुरोडाशमेकादशकपालं निरवप’’दित्यादिश्रुतयः । भृग्वादिवरणं च मनुष्यविषयम् । यद्वा अनादौ संसारे पूर्वपूर्वभृग्वादिवरणमुत्तरोत्तरेषां युक्तम् ।

प्रकाशिका

मन्त्रेति ।। मन्त्रस्यानुष्ठेयद्रव्यदेवताप्रकाशनपरत्वेन अर्थवादस्यानुष्ठेयस्तुतिपरत्वेन आदिपदोक्तस्य विधेर्विधेयार्थविधानपरत्वेन देवताविग्रहादौ तात्पर्याभावादतात्पर्यविषयस्यासिद्धेरित्यर्थः । देवताभावे यागासिद्धिरित्यतो भामत्युक्तमाह ।। अर्थेति ।। चतुर्थ्यंतशब्दप्रतीतमात्रश्शब्दावच्छिन्न स्तादृगर्थनियमितः शब्दो वा देवतेत्यर्थः ।। मन्त्रेति ।। वज्रहस्तः पुरन्दरः । तेनेन्द्रो वज्रमुदयच्छदित्यादिभिरित्यर्थः । न च मन्त्रादीनामन्यपरत्वमुक्तमिति वाच्यम् । प्रकाशनस्तुत्यादिपरत्वेऽपि मानान्तराविरुद्धे स्वार्थेऽपि तात्पर्यात् । अन्यथा गुणिनिष्ठगुणाभिधानरूपस्तुत्यादेरनुन्मेषादिति भावः । गत्यन्तराभावादेवमाश्रीयत इत्यत आह ।। अस्मदिति ।। तस्य जडानधिकारपूर्वपक्षस्य । असिद्धं च विग्रहादिराहित्यमित्याह ।। किञ्चेति ।। ता एता इत्यैतरेयवाक्यम् । तत एत इत्यदृश्यत्वनये भाष्योक्तश्रुतिरियम् ।। न हीति ।। नियामकाभावेन स्रष्टुस्सृज्यसापेक्षतया तत्राप्रामाण्ये स्रष्टर्यपि तथा स्यादित्यर्थः । एवं मतद्वये पूर्वपक्षं साधारणदोषेण निरस्याद्वैतमते सिद्धान्तोऽप्ययुक्त इत्याह ।। किञ्चेति ।। न स्यादिति ।। ब्रह्मवदिति शेषः । न चेत् श्रुतितात्पर्यगोचर इत्यनुषङ्गः । सन्नपि विग्रहादिरित्यन्वयः । यजमानप्रस्तरत्ववदिति भावः । विपक्षे बाधकाभावाद्व्याप्तिहीनौ द्वावपि तर्कावित्यत उभयत्र विपक्षे बाधकमाह ।। अन्यथेति ।। तात्पर्यगोचरस्यापि बाध्यत्व इत्यर्थः ।। यजमानेति ।। अन्यथेत्यनुषङ्गः । तात्पर्यागोचरस्यापि व्यावहारिकत्व इत्यर्थः ।। प्रागिति ।। जिज्ञासाधिकरणे ।

औत्युक्तमन्यदपि निराह ।। यच्चेति ।। पूर्वतन्त्रे हि षष्ठस्याद्यपादे ‘‘फलार्थत्वात्कर्मणश्शास्त्रं सर्वाधिकारं स्यादि’’ति द्वितीयेऽधिकरणे देवर्ष्यादीनामधिकारोऽस्ति न वेति विशये फलार्थित्वादिनाऽधिकारोऽस्तीति प्राप्ते देवानां देवतान्तराभावेन तदुद्देशेन हविस्त्यागायोगाद्भृगुप्रभृत्यृषीणां भृग्वाद्यन्तराभावेनार्षेयवरणायोगादनधिकारः कर्मणि देवर्ष्यादीनामिति सिद्धान्तितम् । तदुक्तन्यायेन कर्मण्यधिकाराभावेऽपीत्यर्थः । प्राचां वस्वादिदेवानां भृग्वाद्यृषीणां च क्षीणाधिकारत्वेनेदानींदेवत्वऋषित्वयोरभावादिति भावः ।। सोऽस्तीति ।। तथेह बाधकाभावादिति भावः । यज्ञं विष्णुम् । यज्ञो वै विष्णुरिति श्रुतेः । अयजन्त आराधितवन्तः । एतत्पुरुषसूक्तगतं वाक्यम् । ‘‘देवावै सत्रमासत ऋद्धिपरिमितं यशस्कामा’’ इति तैत्तिरीये द्वितीयकाण्डे तृतीयप्रश्नादावारण्यके च वाक्यम् । ‘‘देवा यज्ञमतन्वते’त्यपि पुरुषसूक्तस्थं वाक्यम् । ‘‘देवा वै चतुर्होतृभि’’रिति परातेद्वितीयकाण्डे द्वितीयप्रश्ने वाक्यम् । चतुर्होतृभिः चतुर्होतृनामकैः । अग्निर्होतेत्यादिमन्त्रैरित्यर्थः । ‘‘यद्विश्वेदेवा’’ इत्येतदपि पराते प्रथमकाण्डे चतुर्थप्रश्ने वाक्यम् ।। प्रजापतिर्वा इति ।। एतेन ‘‘प्रजापतिर्वाव ज्येष्ठः । स ह्येतेनाग्रेऽयजते’’ति सप्तमकामकाण्डस्थं वाक्यमुपात्तमित्याहुः । अन्ये तु शाखान्तरस्थमिति । ‘‘इन्द्रोऽश्वमेधा’’निति तृतीये ‘‘श्रुत्यादिबलीयस्त्वाच्च न बाध’’ इत्यत्र भाष्योक्तश्रुतिः । देवा वा इति पराते द्वितीयकाण्डे द्वितीयप्रश्ने श्रुतम् । अत्र वाक्य आद्यन्तयोश्श्रुतषष्ठ्यन्तपदयोर्देवतानामपि देवानामिति विशेषणविशेष्यभावेनान्वयः । देवतानामपीत्यस्य ‘‘साऽस्य देवते’’त्यादाविव सम्प्रदानभूतस्वामिवाचित्वाद्देवतापदस्य यज्ञेष्वाराध्यानामपीत्यर्थः । तेन न पौनरुक्त्यदोषः । देवानामपीत्यपिशब्दो न केवलं मनुष्याणामिति समुच्चयार्थः । अर्थवादानां स्वार्थे तात्पर्यस्य परेषामप्यनुमतत्वादन्यथा देवतातद्विग्रहाद्यसिद्ध्यापत्तेरित्यग्रे वक्ष्याम इति भावः । नन्वबाधे स्वार्थे तात्पर्यम् । इह च बाधकान्न स्वार्थे तात्पर्यमस्तीति चेत् तत्किं शूद्रादिवन्निषेध उत देवतान्तराभावादिरूपः प्रागुक्तः । आद्य आह ।। शूद्रेति ।। ‘‘नाग्निर्नयज्ञश्शूद्रस्य तथैवाध्ययनं कुत’’ इति ‘‘न च वर्णावरस्याप्यधिकार’’ इतिवन्न देवानामधिकार इति निषेधाश्रवणादिति भावः । द्वितीय आह ।। देवतेति ।। वेदसूत्रे वेदार्थनिर्णायकसूत्रे । वज्रिणं वज्रशब्दवाच्यं माम् । वज्रयन्तर्गतमिति वा । शक्रः प्रसिद्धेन्द्रः । यजतामिति द्वितीयार्थे षष्ठी । यजतः । अथवा ‘‘यजतां पाण्डवः स्वर्गमवत्विन्द्रस्तपस्विनः । वयं हनामद्विषत’’ इत्यादाविव यजतामिति लोडात्मनेपदम् । अत्र विष्णुविषयत्वाप्रतीतेराह ।। भगवद्वचनादिभिरिति ।। अत एवेति ।। भगवत एवोद्देश्यत्वादित्यर्थः । अभिजयेयं प्राप्नुयामित्यर्थः । इन्द्राय इन्द्रशब्दवाच्याय विष्णवे । इयं च श्रुतिः पराते तृतीयकाण्डे प्रथमप्रश्ने श्रूयते । एवं देवानामधिकारं समर्थ्य ऋषीणां तमाह ।। भृग्विति ।। अनेकमानविरोधेन सङ्कोचो न्याय्य इति भावः ।। पूर्वपूर्वेति ।। यदत्रोक्तं भामत्यां प्राचां भृग्वादीनां क्षीणाधिकारत्वेनेदानीमृषित्वाभावादिति तन्न । भृग्वादित्वानपायात् । उक्तं च तन्त्ररत्ने ‘‘न च भृग्वादयो भृग्वादिसगोत्रा इति भाष्यमयुक्तम् । कुतः । अनादिर्हि कालोऽस्माकं भृगोरपि पूर्वं भृग्वन्तरसम्भवात् । ततः पूर्वमप्येवमेवेति सम्भवत्येव भृगोर्भार्गवत्वमित्यस्त्येवर्षीणामधिकार’’ इति । ‘‘ऋष्युदाहरणमनादरणीय’’मिति शास्त्रदीपिकायामपि ऋष्युदाहरणानादरणमुक्तम् ।

चन्द्रिकाबिन्दुः

ननु देवानां विग्रहादिराहित्यं कथमर्थवादादिना विग्रहादिप्रतिपादनादित्यत आह ।। मन्त्रार्थवादेत्यादि ।। सजातीये अनधिकारशङ्कोचिता न तु विजातीय इत्यभिप्रायेणोत्तरमाह ।। तन्नेति ।। किं च त्वत्पूर्वपक्षी उपनिषदां प्रामाण्यं नाङ्गीकरोति उताङ्गीकरोति वेति विकल्प्य क्रमेण दूषयति ।। किञ्चेति ।। ब्रह्मैव न सिध्येदिति ।। तथा च ब्रह्मविद्याधिकारविचारो दूरपरास्त इति भावः ।

ननु देवतासृष्ट्यंशावच्छेदेनोपनिषदामप्यत्राप्रामाण्यमित्यत आह ।। न हि ता इति ।। मन्त्रार्थवादादीनां विग्रहादौ तात्पर्यमङ्गीकृत्य योऽयं सिद्धान्तः सोऽप्ययुक्त इत्याह ।। किञ्च देवताविग्रहेति ।। न चेदिति ।। तात्पर्यगोचरो न चेत् । व्यावहारिकसन्नपि न स्यादित्यर्थः । अन्यथा श्रुतितात्पर्यगोचरस्यापि बाध्यत्वे ।। यजमानप्रस्तरत्वमपीति ।। अत्राप्यन्यथेत्यनुकृष्यते । तत्रायमर्थः । अन्यथा श्रुतितात्पर्यविषयस्यापि व्यावहारिकसत्त्वाङ्गीकारे । एतदधिकरणे परोक्तमेव प्रासङ्गिकं प्रमेयान्तरं निराकर्तुमनुवदति ।। यच्चोक्तमिति ।। स देवतानामपीत्यस्य भगवानेवोद्देश्य इत्यनेनैव सम्बन्धः । अधिकारानधिकारौ हि अपूर्वत्वात्तु श्रुतिस्मृतिमात्रावसेयावित्यभिप्रेत्य देवताधिकारे श्रुतीरुदाहरति ।। यज्ञेनेत्यादि ।। यज्ञशब्दस्य ज्ञानयज्ञपरत्वेनापि सावकाशं मन्वानः चतुर्होत्रादिघटितं देवा वै चतुर्होतृभिरित्यादिवाक्यमुदाहृतवानिति । एवमनेकवाक्योदाहरणे देवयागोभयसामान्यविशेषविषयकत्वं स्वारस्यं प्रयोजनमूह्यम् वेदाख्यधर्मसूचके ।। अत एव इन्द्रशब्दमुख्यार्थमुद्दिश्य इन्द्रकर्तृकयागधर्मस्य उपपन्नता ।।

पाण्डुरङ्गि

ननु ता एता इत्यादेस्सृज्ये न तात्पर्यमिति चेत्तथात्वे स्रष्टर्यपि न स्यादविशेषादित्याह ।। न हीति ।। ननु श्रुतितात्पर्यागोचरस्यापि विग्रहादेर्ब्रह्मज्ञानेतरज्ञानाबाध्यत्वाद्व्यावहारिकत्वम् । यजमानप्रस्तरत्वादेर्ब्रह्मज्ञानेतरज्ञानबाध्यत्वादव्यावहारिकत्वमित्यत आह ।। समर्थितं चेति ।। श्रुतौ श्रद्धालुना त्वया श्रुतेस्तात्विकविषयत्वस्यैव वक्तव्यत्वात् । न चैतद्देवताशरीरादिकं प्रमाणान्तरप्राप्तम् । येन तद्वाक्यमनुवादकं सत्तत्रातात्पर्यादप्रमाणं न स्यादित्यादिनाऽन्तराद्यधिकरणेषु समर्थितमित्यर्थः । देवानां कर्मस्वनधिकारः किं साधकाभावात्किं वा निषेधसद्भावात्किं वाऽनुपपत्तिसद्भावादिति विकल्पान्मनसि निधायाद्यं दूषयति ।। देवतानामपीति ।। न द्वितीय इत्याह ।। शूद्रवच्चेति ।। तृतीये देवानां देवतान्तरभावेन तदुद्देशेन हविस्त्यागायोगो बाधक इति तावन्निराकरोति । देवताकर्तृकयज्ञेष्विति ।। वेदसूत्रेति ।। सूचनात्सूत्रमित्यर्थः । ऋषीणां भृग्वादीनां भृग्वाद्यन्तराभावेन तद्वरणायोगात्स्वेन स्ववरणस्य च कर्तुमशक्यत्वान्न कर्मण्यधिकार इत्यत आह ।। भृग्वादीति ।। भृग्वादिवरणस्य मनुष्यमात्रविषयत्वे गौणता भवतीत्यरुच्याऽह ।। यद्वेति ।।

Load More