अन्येतु
अद्वैतमतपरीक्षा
तात्पर्यचन्द्रिका
अन्येतु ऋतं पिबन्तौ बुद्धिजीवौ गुहाप्रविष्टत्वादेस्तत्र सम्भवात्सर्वगते ब्रह्मण्यसम्भवाद्बुद्धेरपातृत्वेऽपि छत्रिन्यायेन पिबच्छब्द इति प्राप्ते ऋताख्यकर्मफलपानलिङ्गेनैकस्य जीवत्वे निश्चिते द्वितीयस्तज्जातीयश्चेतनः परमात्मैव । नन्त्ववचेतना बुद्धिः । अस्य गोर्द्वितीयेन भाव्यमित्युक्ते गवान्तरेणेवाश्वादिना सद्वितीयत्वाप्रतीतेः । एवं च प्रथमावगतऋतपानेन पिबतोर्जीवात्मपरमात्मत्वे निश्चिते चरमं गुहाप्रविष्टत्वादिकं कथञ्चिन्नेयम् । ब्रह्मणोऽपातृत्वेपि छत्रिन्यायेन पिबच्छब्द इति सिद्धान्त इत्याहुः ।। अत्र ब्रूमः ।।
बुद्धिस्थत्वाद्भोक्तृतादेः पिबन् स्याच्चेतनः कथम् ।
चित्त्वेऽपि द्वित्वपूर्वस्याबाधार्थं सद्वितीयता ।। १ ।।
विरूपयाऽपि बुद्ध्यास्तु किं च बुद्धेस्सरूपता ।
वर्तते सहजीवेन पारतन्त्र्यादिरूपतः ।। २ ।।
त्वन्मते जपाकुसुमगतस्य लौहित्यस्य स्फटिक इव बुद्धिगतस्य कर्तृत्वादेर्जीवेऽध्यासात्कथं पातृत्वलिङ्गेनैकस्यापि चेतनत्वम् । येन तत्साजात्येन द्वितीयोऽपि चेतनः स्यात् । न हि लोके देह आत्मत्वमध्यस्तमित्यात्मा द्रष्टव्य इत्यादिश्रुतावात्मशब्दो देहपरः । भोक्तृत्वादेश्चिदचित्संवलनधर्मत्वे चान्योन्यधर्माध्यासोक्तिरयुक्ता स्यात् । एवं च परमते बुद्धेरेव पातृत्वेन प्रकृत्यर्थसम्भवात् । ज्ञानक्रियाशक्तिभेदेन प्रत्ययार्थस्य द्वित्वस्यापि कथञ्चित्सम्भवात्प्राणसहिता बुद्धिरेव पिबन्तावित्युच्यताम् । अथ द्वित्वे स्वारस्यमपेक्षसे तर्ह्यारोपितेन पातृत्वेन युक्तो जीवो बुद्धेर्द्वितीयस्स्यान्नतु तेनापि रहितं ब्रह्म । अथ श्रुतेरारोपितविषयत्वं न सहसे तर्हि छत्रिन्यायेन पातृत्वरहितं सजातीयं जडान्तरमेव बुद्धेर्द्वितीयमस्तु । चेतनस्य परमात्मनस्तु न कथञ्चिदनुप्रवेशः ।।
अस्तु वा जीवस्य पातृत्वम् । तथापि गोर्द्वितीयेनेत्यत्र द्वित्वस्य मुख्यस्य लाभात्सजातीयग्रहणम् । इह तु ब्रह्मग्रहणे जीवस्य ब्रह्माभेदान्न तात्त्विकं द्वित्वम् । तथाच यथाचन्द्रः सद्वितीय इति प्रामाणवाक्याद्विजातीयस्याप्यकल्पितभेदस्य न क्षत्रादेरेव धीर्नतु सजातीयस्यापि कल्पितभेदस्य चन्द्रान्तरस्य तथाऽत्रापि चेतनत्वेन जीवस्य सजातीयत्वेपि कल्पितभेदस्य ब्रह्मणो न धीः । किन्तु विजातीयत्वेपि धर्मिसमसत्ताकभेदाया बुद्धेरेव । न हि द्वित्ववत्साजात्यं शाब्दम् । येन तदनुरोधेन द्वित्वं बाध्येत । अपि चास्य जरठस्य गोर्द्वितीयेन बलवता भाव्यमित्युक्ते चरमस्यापि शाब्दस्य बलवत्त्वस्याबाधार्थं प्रथमेन जरठत्वेन तदाक्षिप्तदुर्बलत्वेन वा साजात्यस्येव प्रकृतेऽपि चरमस्यापि शाब्दस्य गुहाप्रविष्टत्वस्याबाधार्थं प्रथमपातृत्वाक्षिप्तेन चेतनत्वेन साजात्यस्यैव बाधोऽस्तु । न हि ‘‘यो वेद निहितं गुहायां’’ इत्यादिश्रुतिसिद्धमपि ब्रह्मणो गुहानिहितत्वं ‘‘सर्वगतस्य ब्रह्मणोऽर्भकौकस्त्वं न पारमार्थिक’’मिति वदतस्तव मते तात्त्विकम् । अस्तु वा जीवस्य ब्रह्मणा सद्वितीयत्वेऽपि द्वित्वादेरबाधः । तथापि कर्मफलभोक्तृत्वेन चेतनत्ववत्पारतन्त्र्यस्याप्याक्षेपात्परतन्त्रा बुद्धिर्जीवस्य द्वितीया स्यात् । चेतनस्य भोक्तृत्वनियमाभावेऽपि भोक्तुश्चेतनत्वनियमवत्परतन्त्रस्य भोक्तृत्वनियमाभावेऽपि कर्मफलभोक्तुः पारतन्त्र्यनियमात् । सम्भवति च बुद्धेर्भोगकरणत्वात्काष्ठानि पचन्तीत्यादाविव कर्तृत्वोपचारः । गोर्द्वितीयेनेत्यत्र तु गोत्वस्य शाब्दत्वात्तेनैव साजात्यं वाच्यमिति नातिप्रसङ्गः । छायातपत्वमपि चेतनाचेतनत्वादिना बुद्धिजीवादौ युक्तम् । किं च पूर्वपक्षे सिद्धान्ते च बुद्धौ ब्रह्मणि च छत्रिवल्लक्षणैव । पाता तु जीव एवेति प्रमेये विशेषाभावेन व्यर्था चिन्ता ।
मात्रयापि प्रमेयस्य भेदाभावे हि वादिनोः ।
शब्दमात्राय कलहो न युक्तो मूर्खयोरिव ।। १ ।।
यच्चोक्तं ‘‘विशेषणाच्चे’’ति सूत्रस्योत्तरवाक्ये ‘‘आत्मानं रथिनं विद्धी’’ति जीवस्य गन्तृत्वेन ‘‘सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पद’’मिति परमात्मनश्च गम्यत्वेन विशेषणात्तावेवात्रापिबन्तावित्यर्थ इति । तन्न । जीवस्य रथित्वेन ‘‘बुद्धिं तु सारथिं विद्धी’’ति बुद्धेश्च सारथित्वेन विशेषणात्तावेवात्र पिबन्तावित्यपि प्रसङ्गात् । किं च पिबन्तावित्यस्य लक्षणया ब्रह्मपरत्वेऽपि जीवपरत्वस्यापि सत्त्वादिहचाध्याये ईक्षतेरित्यादौ सदादिशब्दानामन्यपरत्वं निरस्य ब्रह्मपरत्वस्यैवोक्तेराद्याध्यायासङ्गतिः । न चोक्तरीत्या साक्षात्सङ्गतिसम्भवे प्रासङ्गिकसङ्गतिर्युक्ता । यथाहुः ‘‘साक्षाद्युक्तं न प्रसज्यत’’ इति । तदेतदभिप्रेत्योक्तं भाष्ये ‘‘न च जीवे समन्वयोऽभिधीयत’’ इति । अत्रापि परमतेऽपि जीवब्रह्मणोर्भोक्तृत्वाभोक्तृत्वाभ्यां भेदसिद्धिः ।।
प्रकाशिका
अन्ये त्विति ।। ऋतं पिबन्तौ बुद्धिजीवौ जीवेश्वरौ वेति संशये बुद्धिजीवावेव । गुहाविष्टत्वलिङ्गात् । नियतहृदयगुहाविष्टत्वस्य परिच्छिन्नयोर्बुद्धिजीवयोरेव युक्तत्वात् । सर्वगते ब्रह्मणि तदयोगात् । ‘‘सुकृतस्य लोक’’ इति सुकृतलोकावस्थानेन कर्मगोचरानतिक्रमस्य जीवस्य भोक्तृतया बुद्धेस्तु भोगसाधनतया तयोरेवोपपत्तेः । छायात्वरूपतमस्त्वस्य जडतया बुद्धौ प्रकाशत्वरूपातपत्वस्य जीवे सम्भवाच्च । बुद्धेरपातृत्वेऽपि पातृजीवसाहचर्याच्छत्रिवदुपपत्तेस्तावेव पिबन्ताविति प्राप्त इत्यर्थः । तदुक्तं भामत्यां–
नियताधारताबुद्धिजीवसंवेशिनी न हि ।
क्लेशात्कल्पयितुं युक्ता सर्वगे परमात्मनीति ।।
ऋतपानेन जीवात्मा निश्चितोऽस्य द्वितीयता ।
ब्रह्मणैव सरूपेण न तु बुद्ध्या विरूपया ।
प्रथमं सद्वितीयत्वे ब्रह्मणाऽवगते सति ।
गुहाश्रयत्वं चरमं व्याख्येयं अविरोधतः ।।
इति भामतीं हृदि निधाय सिद्धान्तमनुवदति ।। ऋताख्येति ।। कथञ्चिदिति ।। सालग्रामे हरिरितिवदुपलब्धार्थो देशविशेषोपदेशः । सुकृतस्य लोकवर्तित्वमपीश्वरे छत्रिन्यायेन नेयम् । छायातपत्वं च जीवस्याविद्याश्रयतया ब्रह्मणस्तदनाश्रयतयानेयमित्यर्थः । पिबतश्चित्त्वेऽवगते तदनुरोधात्सजातीयस्य ग्रहणं चरमस्य बाध इत्यादि स्यात् । तदेवासिद्धमित्याह ।। बुद्धिस्थत्वादिति ।। टीकारीत्याऽभ्युपेत्याप्याह ।। चित्त्वेऽपीति ।। स्वमतेऽभावाद्धेतोरसिद्धिमाशंक्य पूर्वार्धं व्याचष्टे ।। त्वन्मत इति ।। ‘‘एतत्सर्वं मन एवे’’त्यादिश्रुतेरिति भावः । नन्वारोपितपातृत्वेनापि जीव एव पिबच्छब्देन बोध्यत इत्यत आह ।। न हीति ।। तन्मतेऽपि केवलबुद्धिस्थत्वमसिद्धमित्यत आह ।। भोक्तृत्वादेरिति ।। अन्योन्यधर्मेति ।। ‘‘अन्योन्यस्मिन्नन्योन्यात्मकतामन्योन्यधर्मांश्चाध्यस्ये’’ति भाष्योक्तिरयुक्ता स्यादित्यर्थः । शक्तिभेदेऽपि न व्यक्तिभेद इति गुहाविष्टत्वमिव द्वित्वं न स्वरसमित्याशङ्क्याह ।। अथेति ।। तेनापि आरोपितपातृत्वेनापि ।। न कथञ्चिदिति ।। पातृत्वेन सजातीयत्वेन वेत्यर्थः । ‘‘चित्त्वेऽपी’’ति पादत्रयं व्याचष्टे ।। अस्तु वेति ।। कल्पितभेदस्य सत्त्वाद्द्वित्वं स्यादित्यत उक्तं न तात्विकं द्वित्वमिति । अत्राप्यतात्विकमेव द्वित्वं बोध्यतामित्यत आह ।। तथा चेति ।। एतेन ‘‘द्विवचनमिति चेत्तर्हि जीवेश्वराङ्गीकारोऽपि न स्यात् । तयोरैक्याङ्गीकारात् । काल्पनिकोऽस्ति तयोर्भेद इति चेत्तर्हीश्वरस्यैवाद्भुताचिन्त्यैश्वर्यवशाद्द्विरूपत्वेन द्वित्वमुपपाद्यता’’मिति सुधावाक्ये ईश्वरस्यैवास्त्वित्यापादने बीजमुक्तं भवति । ननु बुद्धावपि कल्पितभेदवत्त्वमविशिष्टमित्यत आह ।। धर्मिसमेति ।।
ननु प्रथमावगतं साजात्यं मुख्यमुपेत्य चरमावगतं द्वित्वमेव गुहाविष्टत्वमिवातात्विकं गृह्यतामित्यतोऽस्य शाब्दत्वात्साजात्यस्य तदभावादित्याह ।। न हीति ।। किं त्वाक्षिप्तमित्यर्थः । यदपि प्रथमेन चरमस्य गुहाप्रविष्टत्वस्य बाध इति तदप्ययुक्तमित्याशयेन द्वित्वपूर्वस्येत्यत्र पूर्वपदार्थं विवृण्वन्नाह ।। अपि चेति ।। जरठस्य वृद्धस्य । प्रथमेन श्रुतेनेति शेषः । जरठस्य द्वितीयो बलवानजरठ एवोपादीयते । तद्वदिह गुहाप्रविष्टत्वस्य त्वन्मते परिच्छिन्नयोर्बुद्धिजीवयोरेव मुख्यत्वेन सर्वगते ब्रह्मण्यमुख्यत्वेन ब्रह्मग्रहणे तद्बाधः स्यात् । स च न युक्तः । आक्षिप्तेन शाब्दबाधस्यान्याय्यत्वात् । अतस्तदबाधाय द्वितीया विरूपापि बुद्धिरेव ग्राह्येत्यर्थः । ब्रह्मपक्षे गुहाविष्टत्वममुख्यं तात्विकं नेत्येतदुपपादयति ।। न हीति ।। ब्रह्मणोऽर्भकौकस्त्वं न पारमार्थिकमित्यर्भकौकस्त्वसूत्रगततदीयभाष्यानुवादः । ‘‘किं च बुद्धे’’रित्यादिपादत्रयं व्याचष्टे ।। अस्तु वेति ।। ननु चेतनस्यैव भोक्तृत्वे तेन व्यापकस्य चेतनत्वस्याक्षेपेपि कथं पारतन्त्र्यस्याक्षेप इत्यतोऽस्यापि तद्व्यापकत्वात्समव्याप्तेस्तूभयत्राप्यभावादिति भावेनाह ।। चेतनस्येति ।। कूटस्थचेतने तदभावादिति भावः ।। कर्मेति ।। कर्मवशत्वादिति भावः ।
ननु बुद्धेः पारतन्त्र्येण साजात्येऽपि करणभूतायाः कथं भोक्तृत्वेन पिबन्ताविति कर्तृकोटिनिवेश इत्यत आह ।। सम्भवतीति ।। तर्हि गवादावप्येवं सुवचत्वेन सजातीयस्य तत्र धीर्न स्यादित्यत आह ।। गोरिति ।। ननु छायातपत्वविशेषणाज्जीवेश्वरावित्युच्यत इत्यत आह ।। छायेति ।। बुद्धिजीवादौ चेतनत्वाचेतनत्वादिनेति यथायोगमन्वयः । आदिपदेन बुद्धिप्राणयोर्ग्रहणम् । छायातपत्वं च तमस्त्वप्रकाशत्वादिना कथञ्चिदुपेयमिति । एवं अथ द्वित्वे स्वारस्यमित्यादिना ग्रन्थेन ‘‘किं च पिबतोर्बुद्धिजीवत्वे किं छिन्नं किं वा जीवेश्वरत्वे लब्ध’’मिति टीकावाक्यस्य प्रातिपदिकार्थपातृत्वस्य प्रत्ययार्थद्वित्वस्य च बुद्धिजीवपक्षे न छेदः। जीवेश्वरत्वे त्वीश्वर आरोपितपातृत्वस्याप्यभावेन प्रातिपदिकार्थस्य जीवेश्वरयोरैक्यांगीकारेण प्रत्ययार्थद्वित्वस्य च लाभो नास्तीति । तथा बुद्धिजीवत्वे श्रौतं गुहाप्रविष्टत्वं न छिन्नम् । जीवेश्वरत्वे तु सर्वगतेश्वरेऽर्भकौकस्त्वरूपं गुहाप्रविष्टत्वं नेति तन्न लब्धम् । साजात्यलाभस्त्वप्रयोजकः । साजात्यस्याश्रौतत्वादिति । तथा बुद्धिजीवत्वे पारतन्त्र्यादिना साजात्यमपि न छिन्नम् । चेतनाचेतनत्वादिना छायातपत्वं च न छिन्नम् । जीवेश्वरत्वे तु तयोरैक्येन न मुख्यं साजात्यादिलब्धमिति च त्रेधा तात्पर्यं निरूप्य अधुना परेणापि जीवे तदभ्युपगमात् । ईश्वरे समन्वयसिद्धिरिति चेन्न । ईश्वरे लिङ्गस्यौपचारिकत्वाभ्युपगमादिति तदुत्तरटीकावाक्यानुरोधेन तस्य तात्पर्यांतरं व्यनक्ति ।। किं चेत्यादिना ।।
ननु तेन बुद्धिजीवावित्युक्तम् । मया तु जीवेश्वरावित्यतोऽयमेव विशेष इत्यत आह ।। मात्रयेति ।। ब्रह्मेति शब्दमात्रमेतदित्यर्थः । एतेन त्वन्मते मन्मत इव गुहाविष्टत्वस्याहेतुत्वाद्ब्रह्मग्रहणे पिबत्प्रातिपदिकाक्षिप्तसाजात्यस्यैव हेतुत्वात्सूत्रे लाघवाय सुबोधाय साजात्यसूचनाय च प्रथमानुल्लङ्घद्योतनाय च पिबन्तावित्येव निर्देशस्स्यात् । न च सर्वगतस्य ब्रह्मणो गुहावच्छिन्नत्वायोगाद्गुहागतौ बुद्धिजीवौ न ब्रह्मेति पूर्वपक्षयुक्तिसूचनाय तदुपादानम् । ‘‘नियताधारताबुद्धिजीवसंवेशिनी’’ति भामत्युक्तेरिति वाच्यम् । ‘‘जीवमुख्यप्राणलिङ्गादिति चे’’दित्यादाविव पूर्वपक्षपरत्वद्योतकनिर्देशाभावात् । ‘‘सम्भोगप्राप्तिरिति चे’’दित्यतश्चेदित्यनुकर्षस्य क्लिष्टत्वात् । ‘‘अर्भकौकस्त्वा’’दिति पूर्वनयसूत्रेण गुहावच्छेदनिबन्धनशङ्कायाः परिहृतत्वाच्चेत्याद्यसूत्राक्षरासामंजस्यं स्पष्टमिति भावेन विशेषणबलाज्जीवेश्वरावत्र प्रतिपाद्यौ वाच्याविति शङ्कानिरासाय द्वितीयसूत्रार्थमप्यनूद्य निराह ।। यच्चेति ।। ‘‘इति व्याख्यानमयुक्तम् । समन्वयासङ्गतत्वा’’दित्यादिटीकां व्यनक्ति ।। किं च पिबन्तावित्यस्येति ।। ननु जीवपरत्वेऽपि ब्रह्मपरत्वमात्रेण सङ्गतिस्स्यादित्यत आह ।। इह चाध्याय इति ।।
ननु जीवेश्वरभेदस्यासत्यत्वाज्जीवपरत्वद्वारा ब्रह्मण्येव समन्वयः प्रसज्यत इत्यत आह ।। न चेति ।। अस्मद्रीत्या साक्षादित्यर्थः । यद्वा देवताधिकरणमिव प्रसङ्गादिदमत्र निवेशितमित्यत आह ।। न चेति ।। प्रसज्यते प्रसङ्गात्प्राप्यत इत्यर्थः ।
चन्द्रिकाबिन्दुः
ननु पिबन्तौ जीवब्रह्मणी इति कथं नेयमित्यतः अध्यस्तत्वाद्यभिप्रायेण नेयमित्याह ।। एवं चेति ।। चेतनः कथमिति ।। जीवो वा ईश्वरो वा चेतनः कथं पिबन् स्यात् किन्तु जडेतरमेव साजात्येन पिबन् स्यादित्यर्थः । पारतन्त्र्यादीत्यादिपदेन चेतनत्वभोक्तृत्वयोः परिग्रहः । एतच्च सम्भवतीति चेदिति वाक्यव्याख्यानावसरे स्पष्टयिष्यते । ननु जीवे आरोपितं कतृत्वमस्ति । तदभिप्रायेणैव जीवस्यापि तत्प्रातिपादिकार्थत्वमुच्यते इत्यत आह ।। न हीति ।।
ननु भोक्तृत्वादिकं जीवेऽध्यस्यम् । तस्य जीवबुध्द्युभयधर्मत्वाङ्गीकारादित्यत आह ।। भोक्तृत्वादेरिति ।। बुद्धेरेव पिबत्प्रातिपदिकार्थत्वे द्विवचनानुपपत्तिमाशङ्क्य प्राणशब्दवाच्यक्रियाशक्तिक्रियां बुद्धौ द्विवचनं घटयति ।। एवं चेति ।। स्वारस्यं विभिन्नवाक्याभिप्रायेणैव स्वारस्यम् । तेनापि आरोपितभोक्तृत्वाभिप्रायेणापि । छत्रिन्यायमुपपादयितुं पातृत्वरहितमिति ।। चित्वेऽपि द्वित्वपूर्वस्येति द्वितीयार्धं व्याचष्टे अस्तु वेत्यादिना । किन्त्विति ।। यद्यपि जीवेश्वरभेदवत् बुद्धिजीवभेदोऽपि कल्पित एव तथापि बुद्धिजीवभेदः धर्मिसमसत्ताकः । न ब्रह्मगतभेदः । ब्रह्मसमसत्ताकः अतस्तद्विहाय एतदुपपादनमेव स्वरसमिति भावः । जीवेश्वरग्रहणे साजात्यलभ्यत्वे साजात्यानुरोधेन द्वित्वमेव यथाकथञ्चिन्नेयमित्यत आह ।। न हीति ।। पातृत्वाक्षिप्तचेतनत्वेन पातृत्वस्य श्रौतगुहाप्रविष्टत्वलिङ्गेन बाध उचितः । तथा च श्रौतगुहाप्रविष्टत्वानुसारेण बुद्धिजीवाविति पूर्वपक्ष एवोचितो जात इत्यत आह ।। अपि चेति ।।
ननु श्रुतिसिद्धत्वाद्ब्रह्मण्येव गुहानिहितत्वमङ्गीक्रियत इत्यत आह ।। न हीति ।। किं च बुद्धेः सरूपतेति कारिकांशं व्याचष्टे ।। अस्तु वेति ।। पारतन्त्र्यस्येति ।। भोक्तुश्चेतनत्वं प्रतीव पारतन्त्र्यं प्रत्यपि व्याप्यत्वादिति भावः । व्यापकव्यभिचारोऽप्रयोजक इत्यत आह ।। चेतनस्येति ।। चेतनत्वेन बुद्धेरपि जीवसाम्यमस्ति । न च बुद्धेः करणत्वात् कथं कर्तृव्युत्पन्नचेतनशब्दार्थत्वम् । तर्हि ब्रह्मण्यपि कथं चेतनत्वं कर्तृत्वोपचारो ब्रह्मणीति चेत् तर्हि बुद्धावपि तथात्वमस्तु कर्तृत्वोपचारसम्भवात् । तथा च बुद्धेरपि चेतनत्वेन साजात्यमस्तीत्याह ।। सम्भवति चेति ।। यथा बुद्धावपि भोक्तृत्वेन साजात्यमस्ति । न च बुद्धेः भोगकरणत्वेन कथं भोगकर्तृत्वमिति वाच्यम् ।। ब्रह्मणीवात्रापि औपचारिकोपदेशसम्भवादित्याह ।। सम्भवति चेति ।। तथा च जीवसाजात्यं बुद्धेर्भोक्तृत्वेनास्तीति भावः । एवं सुधासूचितप्रकारेण दूषणमभिधायेदानीं टीकोक्तानि दर्शयति ।। किञ्चेत्यादिना ।।
ननु सिद्धान्ते जीवेश्वरौ पिबन्तौ । पूर्वपक्षे बुद्धिजीवौ पिबन्तौ । एवं च पिबच्छब्दविचारो युक्त इत्यत आह ।। मात्रयेति ।। अस्य विचारस्याध्यायसङ्गतिं दर्शयति ।। किञ्चेति ।।
पाण्डुरङ्गि
ननु भोक्तृत्वादिकमहंकारधर्मः । अहंकारश्च चिदचित्संवलनात्मक इति तत्र चिद्भागस्यापि प्रविष्टत्वेन भोक्तृत्वादेश्चिद्रूपजीवधर्मता सम्भवत्येवेत्यत आह ।। भोक्तृत्वादेरिति ।। तथा सति वस्तुगत्या भोक्तृतादेस्तद्धर्मतापत्त्याऽन्योन्यधर्माध्यासोक्तेरयोगेन तत्प्रतिपादकयुष्मदस्मत्प्रत्ययगोचरयोरित्यादिभाष्यानारम्भस्स्यादिति । चित्त्वेऽपि द्वित्वपूर्वस्याबाधार्थं सद्वितीयता । विरूपयापि बुद्ध्याऽस्तु इत्येतत्संग्रहांशं व्याचष्टे ।। अस्तु वेति ।। ननु यथा ब्रह्मग्रहणे जीवस्य ब्रह्माभेदान्न तात्विकं द्वित्वं तथा बुद्धिग्रहणेऽपि बुद्धेरपि जीवाभिन्नत्वान्न तात्विकं द्वित्वमिति कथं बुद्धिरपि द्वितीयतया गृह्येतेत्यत आह ।। धर्मीति ।। जीवबुद्ध्योरभेदेन भेदस्य कल्पितत्वेऽपि बुद्धिजीवरूपधर्मिव्यावहारिकसत्तासमानसत्ताकस्य भेदस्य सत्त्ववत् जीवब्रह्मभेदस्य जीवब्रह्म रूपधर्मिसमसत्ताकस्याभावेन द्वितीयतया ब्रह्मग्रहणासम्भवेऽपि बुद्धेर्द्वितीयतया ग्रहणं भवतीति भावः ।
ननु कल्पितभेदस्य ब्रह्मणोद्वितीयतया ग्रहणे द्वित्वबाधापत्त्या द्वित्वानुरोधेन साजात्यबाधकल्पने विजातीयग्रहणेन साजात्यबाधापत्त्या साजात्यानुसारेण द्वित्वस्यैव बाधः किं न स्यादित्यतः स्यादेतदेवं यदि द्वित्ववत्साजात्यमपि शाब्दं स्यान्न ह्येतदस्तीत्याह ।। न हीति ।। नन्वस्मत्पक्षेऽपि चरमश्रुतस्य गुहां प्रविष्टत्वस्य यो वेद निहितं गुहायां गुहाहितं गह्वरेष्ठं पुराणं गुहां प्रविश्यतिष्ठन्तीमित्यादिश्रुतिभिर्ब्रह्मलिङ्गत्त्वनिश्चयात्पूर्वपक्षिणा च तस्य ब्रह्मलिङ्गत्वाज्ञानेन ब्रह्मपक्षे बाधकत्वेन शङ्कितत्वमित्यत आह ।। न हि यो वेदेत्यादि ।। तात्विकत्वाभावे हेतुः सर्वगतस्येति । तथा च तद्बाधस्तदवस्थ एवेत्यर्थः । किं च बुद्धेस्सरूपता । वर्तते सहजीवेन पारतन्त्र्यादिरूपत इति सङ्ग्रहांशं व्याचष्टे ।। अस्तु वेति ।। ननु कर्मफलभोक्तृत्वेन पारतन्त्र्याक्षेपोऽनुपपन्नः । परतन्त्रस्य भोक्तृत्वनियमाभावादिति चेत्तर्हि कर्मफलभोक्तृत्वेन चेतनत्वाक्षेपोडपि न स्यात् । चेतनस्यापि भोक्तृत्वनियमाभावात् । न च चेतनस्य भोक्तृत्वनियमाभावेऽपि भोक्तुश्चेतनत्वनियमाद्भोक्तृत्वेन चेतनत्वाक्षेप इति वाच्यम् । तर्हि परतन्त्रस्य भोक्तृत्वनियमाभावेऽपि भोक्तुः पारतन्त्र्यनियमेन पारतन्त्र्याक्षेपोऽपि सम्भवतीत्याशयवानाह ।। चेतनस्येति ।। न चाचेतनाया बुद्धेर्न भोक्तृत्वम् । भोगकर्तृत्वम् । भोगकर्तृत्वमेव हि भोक्तृत्वमिति वाच्यम् । ईशपक्षेऽपि साम्यात् । किं च बुद्धेरेव भोक्तृत्वव्यपदेश उपचारेणोपपद्यत । करणे कर्तृत्वोपचारात् । न चोपचारे प्रयोजनाभावः । रूढोपचारत्वादित्याह ।। सम्भवति चेति ।। रूढोपचारत्वप्रदर्शनार्थमेव काष्ठानि पचन्तीत्यादिदृष्टान्तप्रदर्शनमिति ।। नन्वेवमस्य गोर्द्वितीयेन भाव्यमित्यत्रापि विजातीयाश्वादिनापि सद्वितीयत्वापत्त्या सजातीयगवान्तरेण सद्वितीयत्वं न स्यादित्यत आह ।। गोर्द्वितीयेनेत्यत्र त्विति ।। साक्षादिति ।। साक्षात्सङ्गतिसम्भवे प्रसङ्गसङ्गतिर्नाद्रियत इति संमतिग्रन्थार्थः ।