समाधानं तु
एतदधिकरणवैयर्त्यपरिहाराय अनुव्याख्यानोक्त समाधानोपपादनम्
तात्पर्यचन्द्रिका
समाधानं तु–
बहुस्यामिति सङ्कल्प्य तेजःप्रभृतिसर्जनम् ।
गुरुः स्यामिति सङ्कल्प्य शिष्यसम्पादनादिवत् ।। १ ।।
तत्तन्नियामकस्वरूपबहुभावं संकल्प्यानन्तरं नियम्य सृष्टिर्युक्तैव । गुरुत्वराजत्वादेः शिष्यभृत्यादिसापेक्षत्ववन्नियामकताया नियम्यसापेक्षत्वात् । अत एव श्रुत्यन्तरे ‘‘सोकामयत बहुस्यां प्रजायेये’’ति प्रक्रम्य ‘‘स इदं सर्वमसृजत । यदिदं किञ्च । तत्सृष्ट्वा । तदेवानुप्राविश’’दिति अत्रापि श्रुतौ ‘‘अनेन जीवेनात्मनानुप्रविश्ये’’ति भगवतः स्वसृष्टवस्तुनियमनाय तदनुप्रवेश उक्तः । तदेतदभिप्रेत्योक्तं न्यायविवरणे ‘‘अचेतनस्येक्षणादृष्टिः । बहुभावश्रुतिस्त्वन्यभावं विना तत्तन्नियामकतया स्वरूपबहुत्वार्थत्वेनैव युज्यत’’ इति । तस्मादीक्षणबहुभावौ द्वावपि मुख्यौ । एकस्य गौणत्वेऽपीक्षितृत्वस्रष्टृत्वमध्यगतत्वेन ताभ्यां सन्दष्टो बहुभाव एव गौणः । न च संकल्पस्य सृष्ट्यर्थत्वात् ‘‘गुणे त्वन्याय्यकल्पने’’ति न्यायेनेक्षणं गौणमिति वाच्यम् । बहुस्यां प्रजायेयेत्यस्यापि सङ्कल्पान्तर्भूतत्वात् ‘‘असृजते’’ति प्रधानभूतस्रष्टृत्वानुरोधेन बहुभावादेरेव गौणत्वापत्तेः । गौणसङ्कल्पेन सृष्टेः क्वाप्यदर्शनेन सङ्कल्पस्य गौणत्वे सृष्ट्यर्थत्वस्यैवायोगाच्च ।
प्रकाशिका
‘‘बहुस्यामिति तस्यैव ह्युक्तमार्गेण युज्यते । तत्तद्गतेन रूपेण तदर्थं ह्यसृजज्जग’’दिति चतुर्थपादीयानुव्याख्यानोक्तं दृष्टान्तपूर्वं सङ्गृह्योपपादयति ।। समाधानं त्वित्यादिना ।।
सच्चत्यच्चाभवदिति नास्य विश्वत्वमुच्यते ।
तत्सृष्ट्वेति गिरैवास्य पूर्वं विश्वस्य सिद्धितः ।।
इत्युत्तरपादीयानुव्याख्यानोक्तमाह ।। अत एवेति ।। स्वरूपबहुत्वसङ्कल्पानन्तरं नियम्य सर्जनस्योक्तदिशाऽभिमतत्वादित्यर्थः । नन्वस्तु तैत्तिरीयश्रुतौ तत्सृष्ट्वेति वाक्यशेषबलात्तथोपपत्तिः । नैवं छन्दोगश्रुतौ । तथोपपत्तिकल्पकवाक्यशेषाभावात् । तथाच ‘‘बहुस्यामिति तस्यैव ह्युक्तमार्गेणे’’त्यनुव्याख्याने ‘‘सच्चत्यच्चेति वाक्यव्याख्यानन्यायेने’’त्युक्तिरयुक्तेत्यत आह ।। अत्रापि श्रुताविति ।। अनेन जीवनामकेनानिरुद्धेन स्वात्मना तेजोबन्नशब्दितान् श्रीब्रह्मरुद्रान् प्रविश्येत्यर्थः । तैत्तिरीयभाष्ये तु–
सृष्ट्वा जगदिदं सर्वं नियामकतयाऽस्य तु ।
बहुरूपो भवानीति स्याज्जगच्चेत्यचिन्तयत् ।।
इति बहुस्यामिति सङ्कल्प एव नियम्यानेकसर्जनपूर्वकस्वरूपबहुभावसर्जनविषयक इत्यर्थांतरमुक्तम् । तस्मिन्पक्षे नियम्यसर्जनस्य प्रथमसङ्कल्पितत्वान्नियम्यसर्जनं नासंगतमिति भावः । भाष्यटीकयोरस्फुटत्वादाह ।। तदिति ।। तत्वप्रदीपे सौत्रकर्मशब्दस्य सृष्ट्यर्थत्वमुपेत्येक्षणस्रष्टृत्वयोर्द्वयोर्हरौ मुख्यत्वोक्तया सूचितं पक्षान्तरमाह ।। एकस्य गौणत्वेपीति ।। सन्दष्ट इति ।। ‘‘तदैक्षत बहुस्यां प्रजायेयेति । तत्तेजोसृजते’’ति श्रवणादिति भावः । एतेन ‘‘पूर्वाधिकरणे चरमस्य द्रष्टृत्वादेर्मुख्यत्वाये’’त्यादिनोक्तपूर्वसिद्धान्तन्यायेन पूर्वपक्षोक्तिरपि प्रत्युक्ता । अत्रेव पूर्वत्र संदंशाभावेन द्रष्टृत्वादेर्मुख्यत्वसम्भवेनास्य पूर्ववैषम्यात् । ननु बहुभावस्य सन्दष्टत्वेपि न्यायान्तरेणेक्षणं गौणं स्यादित्याशङ्क्याह ।। न चेति ।। तदैक्षतेत्यस्य सङ्कल्परूपत्वात्सङ्कल्पस्येत्युक्तम् ।। गुणेत्विति ।। नवमे तृतीयपादे विप्रतिपत्तौ विकल्पस्स्यात् समत्वाद्गुणे त्वन्याय्यकल्पनैकदेशत्वा’’दिति जैमिनीयसूत्रोक्तन्यायेनेत्यर्थः । विवृतश्चायं न्यायो गुहाधिकरणे । बहुभावादेरित्यादिपदेन प्रजननं गृह्यते । कथमेतावतेक्षणस्यागौणत्वमित्यत आह ।। गौणेति ।।
चन्द्रिकाबिन्दुः
न च सङ्कल्पस्य सृष्ट्यर्थत्वादिति ।। बहुस्यामिति बहुभवनप्रकारमीक्षणं सङ्कल्पः । तस्य सृष्ट्यर्थत्वे गुणत्वात् । गुणे ईक्षणे । अन्यायकल्पना गौणत्वादिकल्पना युक्तेत्यर्थः । बहुस्यामिति ईक्षणाख्यसङ्कल्पं प्रति प्रकारसमर्पणार्थं बहुभावस्योक्तत्वेन ईक्षणापेक्षयापि बहुभावस्य गुणत्वात् तत्रैव गौणत्वमुचितमिति भावः । ननु स इति तच्छब्देन विष्णुपरामर्शः किमिति कर्तव्यः । तत्तु समन्वयादित्यतस्तच्छब्दानुवृत्त्यैव सिद्धेः सूत्रे स इति पदोपादानं व्यर्थमित्याशङ्क्य तस्य प्रयोजनानि दर्शयति ।। यद्यप्यत्रेत्यादिना ।।
पाण्डुरङ्गी
अत एवेति । नियामकताया नियम्यसापेक्षत्वादेवेत्यर्थः ।