अत्र यदुक्तमुभाभ्यां जीवमात्रमन्तर्यामीत्येव पूर्वः पक्षः
पूर्वपक्षे अन्तर्यामी न प्रकृतिरिति परकीयमतद्वयोक्तिदूषणम्
तात्पर्यचन्द्रिका
अत्र यदुक्तमुभाभ्यां जीवमात्रमन्तर्यामीत्येव पूर्वः पक्षः । न तु प्रकृतिः । तस्याद्रष्टृत्वाद्यसम्भवादिति । तन्न । त्वन्मते ‘‘तदैक्षते’’ति श्रुतस्येक्षणस्य प्रकृतौ गौणत्वेनेक्षत्यधिकरणपूर्वपक्षवत् द्रष्टृत्वादेर्दर्शनरूपे ब्रह्मण्यारोपितत्वेन मायाविशिष्टनिष्ठत्वेन वाऽत्रत्यसिद्धान्तवच्च पृथिवीशरीरत्वादिप्रकृतिलिङ्गेन प्रधानेऽपि द्रष्टृत्वादेर्गौणत्वेनारोपितत्वेन वा चेतनविशिष्टनिष्ठत्वेन वा पूर्वपक्षस्य सम्भवात् । अन्यथा ‘‘न च स्मार्ते’’ति सूत्रे प्रकृतेर्निषेधो न स्यात् । पृथिव्याद्यभिमानिनां जीवानां वैतदन्तर्यामित्वम् । तान्प्रति पृथिव्यादेः स्थूलशरीरत्वात् । अत्र भामत्यां ‘‘यःसर्वांल्लोकानन्तरो यमयती’’ति श्रुतस्य सर्वनियन्तृत्वस्याभिमानिजीवेषु प्रत्येकमसम्भवान्नैवं पूर्वपक्ष इत्युक्तम् । तन्न । स्वाङ्गीकृतजीवमात्रपक्षेऽपि तदसम्भवात् । य इत्याद्येकवचनस्य समुदायपरत्वं त्वभिमानिपक्षेऽपि समम् । प्रत्युत जीवमात्रपक्ष एवायुक्तः । ‘‘यस्य पृथिवीशरीर’’मित्यादिनोक्तस्य पृथिव्याद्येकैकशरीरत्वस्य ‘‘यस्य प्राणाश्शरीर’’मित्यादिनोक्तस्य प्राणवाक्चक्षुःश्रोत्रादिशरीरत्वस्य चायोगात् । तस्मादभिमानिनामेवान्तर्यामित्वम् । न तु विष्णोः । तस्य पृथिव्याद्यात्मकत्वतद्देहत्वयोरयोगात् । न च तेन शीर्यमाणत्वादिना पृथिव्यादेस्तच्छरीरत्वम् । योगाद्रूढेर्बलीयस्त्वात् । ‘‘यं पृथिवी न वेदे’’त्युक्तं पृथिव्यादिनाऽविदितत्वं च तस्य जडत्वादभिमानिन्यपि युक्तम् । ‘‘यमात्मा न वेदे’’ति चेतनस्य पृथगुक्तेः पृथिव्यादिशब्दो नाभिमानिचेतनपरः । ‘‘यः पृथिव्या अन्तर’’ इत्युक्तमन्तरत्वं यदि भिन्नत्वं यदि वाऽन्तस्स्थत्वं द्वयमपि पृथिव्यादिशरीरकेऽभिमानिन्यपि युक्तम् । ‘‘य आत्मनि तिष्ठन्नात्मानं यमयती’’त्येतदपि तत्वाभिमानिनामस्मदाद्यात्मनियामकत्वाद्युक्तम् ।‘‘यमात्मा न वेदे’’ति त्वभिमानिजीवानां दुर्ज्ञानत्वाद्युक्तम् । यद्वा ‘‘यःपृथिव्या’’मित्यादाविव ‘‘य आत्मनी’’त्यत्राप्यात्माभिमानिजीव एवात्मान्तर्यामित्वेनोच्यत इति ।।
प्रकाशिका
अत्र यदुक्तमिति ।। स्पष्टयिष्यते चैतदग्रे ।। गौणत्वेनेति ।। गौणश्चेदिति सूत्रे द्वाभ्यामपि गौणत्वेनोक्तत्वादिति भावः ।। प्रधानेऽपि द्रष्टृत्वादेर्गौणत्वेनेति ।। नन्वक्षराधिकरणटीकायां द्रष्टृत्वादिश्रवणाज्जडप्रकृतेरसन्देहनिविष्टत्वमिति वक्ष्यत इति तद्विरुद्ध्यत इति चेन्न । तत्र द्रष्टृत्वादेः प्रथमतः श्रवणादिह चरमश्रुतद्रष्टृत्वादेः प्रथमावगतपृथिव्यादिशरीरस्थत्वपृथिवीस्थत्वादिना लिङ्गेन कथञ्चिन्नेयत्वादिति तात्पर्यात् । अत एव तत्र वक्ष्यति टीकाकारः ‘‘उत्तराधिकरणे त्वीक्षणस्य प्रथमाप्रतीतेरस्त्यवकाश इती’’ति भावः । किमर्थमेवमित्यतो विपक्षे सूत्रविरोधमाह ।। अन्यथेति ।। यदत्रोक्तं श्रुतप्रकाशे तदग्रे निरसिष्यते । एवं पृथिव्यादिशरीरत्वं नाम तदात्मकत्वमित्युपेत्यैकः पूर्वपक्षष्टीकाविवरणेन विवृतः । इदानीं तद्देहत्वमर्थमुपेत्य ‘‘शारीरश्चे’’ति सूत्रसूचितं द्वितीयं पक्षं ‘‘पृथिव्यादि जीवस्य वैतदन्तर्यामित्व’’मित्यादिटीकां विवृण्वन्नाह ।। पृथिव्यादीति ।। भाष्यसूत्रानुरोधेन टीकायामेकवचनोक्तावपि तज्जात्यभिप्रायमिति भावेन बहुवचनोक्तिः । अन्यथा भामतीमतरीत्या टीकायामपि जीवसामान्यमेवाभिमतमिति मन्दस्य शङ्का स्यात् । जीवसामान्यपक्षश्चाग्रेतनदोषदुष्टः । अत एव टीकायामुत्तरत्र ‘‘प्रकृत्यादिलिङ्गेन तेषामन्तर्यामित्व’’मिति ‘‘अतोऽन्तर्यामी न विष्णुः । अपि तु प्रकृत्यादय’’ इति च बहुवचनोक्तिः । अन्यथा तस्येति प्रकृत्यादिरित्येव च निर्देशस्स्यादिति भावः । अत्र परोक्तं बाधकमाशङ्क्याह ।। अत्रेति ।। नैवमिति ।। किन्तु जीवसामान्यमित्यर्थः ।। तदिति ।। सर्वलोकनियन्तृत्वस्य प्रत्येकं जीवेऽसम्भवादित्यर्थः । न प्रत्येकं जीवानां तन्नियन्तृत्वम् । किन्तु मिलितानाम् । यस्सर्वां.......ल्लोकानित्येकवचनं समुदायाशयमित्यत आह ।। य इति ।। अभिमानिनामप्युक्तरीत्या तत्तल्लोकनियामकत्वेन मिलित्वा सर्वलोकनियन्तृत्वोपपत्तेरित्यर्थः ।। प्रत्युतेति ।। प्राणचक्षुरादीन्द्रियपृथिव्यादिभूतसङ्घातशरीरकत्वाज्जीवस्य पृथिव्यादिमात्रशरीरकत्वमयुक्तम् । अभिमानिनां तु तत्तन्मात्रनियामकत्वे न तत्तन्मात्रस्थूलशरीरकत्वं युक्तमिति भावः । ‘‘विद्यमानेऽपि विष्णुलिङ्गे न तस्यान्तर्यामित्व’’मित्यादिटीकार्थमाह ।। न तु विष्णोरित्यादि ।। ‘‘पृथिव्यादिशरीरत्वस्य कयापि विधयाऽवकाशाभावा’’दिति टीकायां विधाशब्दस्य ‘‘पृथिवीभिन्नत्वचिच्छरीरत्वोररीकारेणे’’ति वाक्यानुरोधेन तदात्मकत्वतद्देहत्वरूपप्रकारद्वयमर्थं विवृत्य योगवृत्त्यापीत्यप्यर्थमभिप्रेत्य योगवृत्त्या विष्णौ घटनामाशङ्क्य निराह ।। न च तेनेति ।। बलीयस्त्वादिति ।। तस्य जन्मादिनयपूर्वपक्ष एव व्युत्पादितत्वादिति भावः । रूढित्यागे बाधकमाशङ्क्याह ।। यमिति ।। तस्य पृथिव्यादेः । जडत्वे युक्तिमाह ।। यमिति ।। माध्यन्दिनपाठानुरोधेनात्मेत्युक्तम् । यं विज्ञानं न वेदेति काण्वपाठस्यैवोक्तौ विज्ञानशब्दस्यात्मशब्दस्येव जीवे प्रसिद्ध्यभावेन चेतनाज्ञेयत्वं न स्पष्टं भायादिति भावः । नन्वथाप्यन्तरपुरुष इत्यत्र निर्णीतान्तरत्वं वा आत्मनि तिष्ठन्नित्यादिनोक्तं चेतननिष्ठत्वं वा चेतननियमनं वा रूढौ बाधकमस्त्वित्यतः क्रमेण निराह ।। य इत्यादिना ।। पूर्वमात्मशब्दस्य जीवसामान्यपरत्वं तद्वाक्यस्थ य इत्यादि यच्छब्दस्य पृथिव्यादितत्वाभिमानिजीवसमुदायपरत्वमुपेत्य तल्लिङ्गं सावकाशमित्युक्तम् । इदानीमात्मशब्दस्सकलचेतनपर एव । य इत्यादियच्छब्दस्तु सकलात्माभिमानिचेतनपरः । पूर्वत्र पृथिव्यादिशब्दैस्तदभिमानिजीवस्यैव ग्रहणेनात्रापि तत्प्रायपाठेन तथैव ग्राह्यत्वात् । आत्माज्ञेयत्वादि चात्माभिमानिनो जीवस्य दुर्ज्ञेयत्वादिना युक्तमिति भावेनाह ।। यद्वेति ।। एवं चान्तर्यामिणोऽन्यत्वादमृतत्वस्यापि तस्यैव वाच्यत्वात्प्रागुक्तहेतुना नाक्षिस्थो विष्णुरिति भावः ।
चन्द्रिकाबिन्दुः
सिद्धान्तवदिति ।। यदा त्वदीयसिद्धान्तोऽपि आरोपितदर्शनाभिप्रायेण प्रवृत्तः तदाऽस्मदीयपूर्वपक्षः आरोपितद्रष्टृत्वाभिप्रायेण प्रवर्तत इति किमु वक्तव्यमिति भावः ।। प्रत्येकमसम्भवादिति ।। न हि पृथिव्याद्यभिमानिजीवानां प्रत्येकं सर्वलोकनियन्तृत्वं किन्तु मिलितानामेवेति भावः । स्वपक्षे दूषणपरिहारप्रकारं परेणैव वाचयितुं प्रतिबन्दीं गृह्णाति ।। स्वाङ्गीकृतेति ।। तर्हि किं परपक्षेण साम्यं, नेत्याह ।। प्रत्युतेति ।। अयोगादिति ।। अस्मदादिष्वदर्शनादिति शेषः । ननु पृथिव्याद्यविदितत्वं विष्णुलिङ्गं कथं प्रकृत्यादावित्यत आह ।। पृथिव्यादिनेत्यादिना ।। ननु यं पृथिवी न वेदेत्यादिना न जडाविदितत्वमुच्यते किन्तु चेतनाविदितत्वमेवोच्यत इत्यत आह ।। यमात्मा न वेदेति ।। प्रायपाठविरोधभीत्या पृथिव्यादिशब्दवत् य आत्मनीत्यत्रात्मशब्दोऽप्यभिमानिपर इति मत्वा पक्षान्तरमाह ।। यद्वेति ।।
पाण्डुरङ्गि
अन्यथेति ।। जीवमात्रमन्तर्यामीत्येव पूर्वपक्ष इत्यर्थः । पृथिव्यादिजीवस्यैवैतदन्तर्यामित्वमित्युक्तं टीकायाम् । तत्र पृथिव्यादिरूप एव जीवोऽस्तीति प्रतीयते । तदयुक्तम् । पृथिव्यादिरूपस्य जीवस्याभावादित्यतः पृथिव्याद्यभिमानी जीवः पृथिव्यादिजीव इति मध्यमपदलोपीसमासोऽत्राभिमत इत्यभिप्रेत्याह ।। पृथिव्यादीति ।। पृथिव्यादिजीवानामन्तर्यामित्वे पृथिव्यादिशरीरत्वादेस्तस्मिन्नतिसुघटत्वादिति टीकायां हेतुरुक्तः । तत्र कथमतिसुघटत्वमित्यत आह ।। तान्प्रतीति ।। तदसम्भवात् प्रत्येकं सर्वनियन्तृत्वासम्भवदित्यर्थः । ननु पृथिव्याद्यभिमानिनामनेकत्वान्नान्तर्यामित्वम् । यस्सर्वानित्यन्तर्यामिण एकत्वस्य बोधनादिति चेन्न । तथा सति जीवमात्रमित्यपि न स्यात् । तेषामप्यनेकत्वसाम्यात् । न च जीवानामनेकत्वेऽपि तत्समुदायापेक्षयैकवचनोपपत्तिरिति वाच्यम् । तथा सत्यभिमानिपक्षेऽपि समुदायविवक्षया तदुपपत्तिरिति भावेनाह ।। य इतीति ।। ननु जीवमात्रस्यैकस्मिन्काले पृथिव्यादिशरीरत्वासम्भवेऽपि कदाचित्कस्यचिदित्येवंरूपेण जीवमात्रस्य पृथिव्यादि शरीरत्वमुपपन्नमित्यरुचेराह ।। यस्य प्राणा इति ।। प्रथमसूत्रोक्तं पृथिव्याद्यविदितत्वमपि सावकाशमित्यतो न प्रकृतपक्षे बाधकमित्याह ।। यं पृथिवी न वेदेति ।।
ननु कथं पृथिव्यादेर्जडत्वेन तदविदितत्वं जीवस्य उच्यते । पृथिव्यादिशब्दानामभिमानिचेतनपरत्वात्तदविदितत्वस्य जीवेऽसम्भवादित्यत आह ।। यमात्मा न वेदेति ।। चेतनस्य पृथगुक्तेरिति ।। अन्यथा पौनरुक्तयं स्यादिति भावः ।। अभिमानिन्यपीति ।। अभिमानिनः पृथिव्यादिरूपशरीराद्भिन्नत्वात्तदन्तस्स्थत्वाच्चेति भावः ।। तत्वाभिमानिनामिति ।। पृथिव्याद्यभिमानिनामित्यर्थः । ननु पृथिव्यादेर्जडत्वेन तदविदितत्वस्याभिमानिनि सम्भवेऽपि पृथिव्याद्यभिमानिनामात्माविदितत्वं कथम् । आत्मनश्चेतनत्वेन तदविदितत्वस्यासम्भवादित्यत आह ।। यमात्मेति ।। नन्वेवं प्रायपाठबाधः । यःपृथिव्यामित्यादौ पृथिव्याद्यभिमानिजीवस्यान्तर्यामित्ववद्य आत्मनीत्यत्रान्तर्यामिपरत्वाभावेन पृथिव्याद्यभिमानिदेवतानामन्तर्यामित्ववचनस्य प्रायपाठविरुद्धत्वादित्यरुच्या पक्षान्तरमाह ।। यद्वेति ।। जीव एवेति ।। चतुर्मुख इत्यर्थः ।।