नीरूपेऽपि च रूपादि यद्युपास्त्यर्थमुच्यते
अद्वैतमते असाधारणदोषनिरूपणम्
तात्पर्यचन्द्रिका
किञ्च–
नीरूपेऽपि च रूपादि यद्युपास्त्यर्थमुच्यते ।
जीवेऽपि पाप्माभावादि तर्ह्युपास्त्यर्थमुच्यताम् ।। १ ।।
ननु जीवे पाप्मनो व्यावहारिकत्वात्तद्राहित्यं प्रातिभासिकम् । ब्रह्मणि तु नीरूप-त्वस्य तात्विकत्वाद्रूपं व्यावहारिकम् । न च व्यावहारिकविषयत्वेन प्रामाण्यसम्भवे श्रुतेः प्रातिभासिकविषयत्वं युक्तमिति चेन्न । त्वन्मत उपास्यस्य नामादौ ब्रह्मत्वादेः प्रातिभासिकत्वनियमेनात्रापि तथैव युक्तत्वात् । त्वन्मते चोपासनावाक्यस्य तत्कर्त-व्यतामात्रपरत्वेनार्थपरत्वाभावात् । कर्तव्यतायां च व्यावहारिकप्रातिभासिकविभागा-भावात् । श्रुतौ श्रद्धालुना श्रुत्योर्विषयभेदेन तात्विकविषयत्वस्यैव वक्तव्यत्वाच्च । न च हिरण्यश्मश्रुत्वादिकमन्यतः प्राप्तम् । येन तद्वाक्यमनुवादकं सत्तत्रातात्पर्याद-प्रमाणं न स्यात् । किञ्च जीवे पाप्मादेर्व्यावहारिकत्वेऽपि तद्राहित्यश्रुतिस्त्वंपदलक्ष्य-शुद्धरूपाभिप्राया पारमार्थिकविषयैवास्तु । न च शुद्धं रूपं ब्रह्मैवेति ब्रह्मविषयत्वा-पत्तिः । त्वयाऽस्य वाक्यस्य सविशेषाशुद्धब्रह्मविषयत्वाङ्गीकारात् ।
प्रकाशिका
एवं साधारणेन मतद्वयं निरस्य प्रातिस्विकरूपेणाप्यद्वैतिमतं निरसितुं तन्मते सिद्धान्ते रूपादेर्या द्वेधा गतिरुक्ता तत्राद्यायां तावद्दोषमाह ।। किञ्चेति ।। उच्यतामिति ।। अविद्यमानारोपस्योभयत्र तुल्यत्वात् । तथा च सिद्धान्तानुत्थितिरिति भावः। ‘‘रोगाख्यायां ण्वुल् बहुलम्’’ इति बहुलग्रहणात् क्तिन्नन्तत्वेनोपास्तीति साधु । वैषम्यमाशङ्क्य निरस्यति ।। नन्विति ।। ततश्च किमित्यत आह ।। न चेति ।। नामादाविति ।। ‘‘नामब्रह्मेत्युपासीत’’ इत्युक्तनामादावित्यर्थः । यदपि व्यावहारिक-परत्वलाभायैवमुक्तिरिति तदयुक्तं, वैषम्यकथनमित्याह ।। त्वन्मते चेति ।। श्रुत्योः नीरूपत्वसरूपत्वश्रुत्योः । विषयभेदेन प्राकृताप्राकृतादिविषयभेदेनेत्यर्थः । न तु व्यावहारिकरूपविषयत्वेनाप्रामाण्यमित्यर्थः । ननु मिथ्यारूपविषयत्वेऽपि नाप्रामाण्यम् । तत्र तात्पर्याभावादित्यत आह ।। न चेति ।।
पाण्डुरङ्गि
ननूदाहृतेऽपि वाक्येऽपहतपाप्मत्वादीनां ब्रह्मलिङ्गानां सत्त्वात्तैरन्तस्थस्य ब्रह्मत्वनिर्णयसम्भवेन तदुदाहरणं युक्तमेवेत्यत आह ।। किञ्चेति ।। तथा चापहतपाप्म-त्वस्य जीवेऽपि सम्भवान्न तेन ब्रह्मत्वनिश्चय इति भावः । ननु जीवस्य कल्पितत्वेन तत्र पापराहित्यस्य पारमार्थिकत्वासम्भवेन प्रतियोगितन्निवृत्त्योर्वैलक्षण्यस्यावश्यकत्वेन पापराहित्यप्रतियोगिभूतपापस्य व्यावहारिकत्वेन तन्निवृत्तिरूपस्य पापराहित्यस्य व्यावहारिकत्वासम्भवेन प्रातिभासिकत्वस्य वक्तव्यत्वेन जीवे पापराहित्यमुपास्त्यर्थं वक्तुमशक्यम् । तथा सति श्रुतेरतत्वावेदकत्वं स्यादित्याशङ्कते ।। नन्विति ।। तथात्वे नीरूपे ब्रह्मणि रूपमप्युपास्त्यर्थं न वक्तुं शक्यम् । तस्यापि प्रातिभासिकत्वेन श्रुतेरप्रामाण्यापातादित्यत आह ।। ब्रह्मणि त्विति ।। किञ्चोपासनावाक्यानामुपासना-कर्तव्यत्वे तात्पर्यस्य विद्यमानत्वेनोपासनाविषयीभूतेऽर्थे प्रातिभासिकव्यावहारिकभेद-सद्भावेऽपि तत्रोपासनावाक्यानां तात्पर्याभावात् तत्तात्पर्यविषयीभूतोपासनाकर्तव्यतायाश्च सर्वत्र व्यावहारिकत्वेन तत्र तात्पर्यवतां वाक्यानां प्रामाण्यसम्भवेन जीवे पापराहित्यस्य प्रातिभासिकत्वेऽपि न दोष इत्याशयेनाह ।। त्वन्मत इति ।।
किञ्च ब्रह्मणि रूपस्य व्यावहारिकत्वेऽप्यतात्विकत्वेन तत्प्रतिपादकवाक्यानाम-प्रामाण्यापत्त्या रूपस्य व्यावहारिकत्वं परित्यज्य तात्विकत्वमेवाभ्युपेयम् । न चैवं विरोधः । रूपवत्तदभावस्यापि तात्विकत्वाभ्युपगमादिति वाच्यम् । एकविषयत्वे हि विरोधः । प्रकृते च रूपवदेव किञ्चिद्वस्तु ‘‘हिरण्यश्मश्रुः’’ इत्यादिवाक्येन प्रतिपाद्यते । रूपाभावप्रतिपादकेन च तादृशं वस्त्विति विषयभेदाभ्युपगमेन विरोधाभावात् । तस्मा-द्रूपादेर्व्यावहारिकत्वाभ्युपगमेऽप्रामाण्यतादवस्थ्यमेवेत्यभिप्रायेण दूषणान्तरमाह ।। श्रुतौ श्रद्धालुनेति ।। न रूपादिश्रुतेस्तात्विकरूपादिपरत्वं कल्प्यम् । प्रयोजनाभावात् । न चैवं रूपप्रतिपादकवाक्यानामप्रामाण्यं स्यादिति वाच्यम् । तेषामनुवादकत्वेन तात्पर्या-भावादित्यत आह ।। न चेति ।। तथा च मानान्तरप्राप्त्यभावेन रूपप्रतिपादकवाक्याना-मनुवादकत्वं न सम्भवतीति तत्र तात्पर्येऽवश्यं वाच्ये अतात्विकार्थपरत्वेनाप्रामाण्यं स्यादेवेति तत्परिहारार्थं रूपादेर्व्यावहारिकत्वमेव परित्यज्यतामिति भावः । यदुक्तं जीवगतपापाभावविषयत्वे श्रुतेः प्रातिभासिकविषयत्वेनाप्रामाण्यं स्यादिति तद्दूषयति ।। किञ्चेति ।। ननु जीवस्य विशिष्टत्वात्तत्र तात्विकपापराहित्यं न सम्भवतीत्यत आह ।। त्वं पदेति ।। ननु शुद्धरूपस्य ब्रह्मत्वात्तद्विषयत्वे ब्रह्मविषयत्वमेव स्यादित्याशङ्क्य निषेधति ।। न चेति ।।