अस्य पादसङ्गतिः..
ब्राह्मणाधिकरणम्
तात्पर्यचन्द्रिका
संगतिनिरूपणपूर्वकं विषयचिन्ता
।। ॐ पत्यादिशब्देभ्यः ॐ ।।
अस्य पादसङ्गतिः ब्राह्मणशब्दस्य विप्रत्वजातौ लोके प्रसिद्धत्वेऽपि चतुर्मुखे विशिष्य तदभावेन वा कम्पनादित्यत्रोक्तरीत्या वा द्रष्टव्या । अनन्तरसङ्गतिस्तु ‘‘असङ्गोन हि सज्यत’’ इति श्रुतस्यात्रत्यासङ्गस्याब्रह्मत्वे ‘‘असङ्गो ह्ययं पुरुष’’ इति पूर्वोक्तस्याप्यब्रह्मत्वं स्यादिति पूर्वाक्षेपेण पूर्वपक्षोत्थानाद्वा पूर्वत्र जीवमात्राभेदं निरस्येह जीवविशेषचतुर्मुखाभेदनिरासाद्वा द्रष्टव्या । प्रयोजनं तु अन्यस्य नित्यमहिमत्वे जिज्ञासादिसूत्रेषु विवक्षितं विष्णोर्नित्यमहिमत्वं न स्यादिति टीकायामेवोक्तम् । देवानां विद्याकर्मणोः पदप्राप्तिः सूचिते’’ति भाष्येणैव प्रयोजनमप्युक्तमिति ज्ञेयम् । तस्य भाष्यस्य देवानामेवानित्यपदत्वं न तु विरिञ्चस्येत्यर्थवत् विरिञ्चादीनां देवानामनित्यपदत्वमुक्तम् । तच्चायुक्तम् । विरिञ्चस्य नित्यमहिमत्वादित्यर्थस्यापि सुवचत्वात् । अत्र ‘‘एष नित्यो महिमा ब्राह्मणस्ये’’ति श्रुतो ब्राह्मणशब्दः किं विरिञ्चपरः किं वा ब्रह्मपर इति चिन्ता । तदर्थं स किं रूढः किं वा यौगिक इति । तदर्थं किं रूढेर्बाधकं नास्त्युतास्तीति । तदर्थं सर्वाधिपतित्वादिकं किं चतुर्मुखे ब्रह्माभेदाभिप्रायेण नेतुं शक्यमुताशक्यमिति ।।
प्रकाशिका
अत्र टीकायां ‘‘नित्यमहिमत्वलिङ्गेनाजश्रुत्याच विष्णुविरिञ्चयोस्साधारणस्य ब्राह्मणनाम्न’’ इत्यादिना पादसङ्गतिरुक्ता । सा नयुक्तेव । ब्राह्मणशब्दस्यान्यत्र रूढत्वेनाकाशादिशब्दवदन्यत्र प्रसिद्धत्वापत्तेः । उभयप्रापकवशादुभयत्र प्रसिद्धत्वे चाकाशादिनाम्नोऽपि तथात्वापत्तेरित्यत आह ।। अस्येति ।। अधिकरणस्येत्यर्थः ।। चतुर्मुख इति ।। पूर्वपक्ष्यभिमतेऽन्यत्र प्रसिद्धेरेवान्यत्रप्रसिद्धिशब्दार्थत्वात् । जातिपूर्वपक्षस्य चेह नित्यमहिमत्वादिनाऽनवकाशादिति भावः ।। विशिष्येति ।। तस्यापि विप्रत्वेन सामान्यतस्सत्त्वादिति भावः । एतेनान्यसाधारण्येन पूर्वपक्ष्यभिमते प्रसिद्धत्वादन्यत्रप्रसिद्धिरिति प्रत्युक्तम् । विशिष्याभावात् । तथाच सामान्यप्रसिद्धिब्रह्मलिङ्गाभ्यामुभयत्रप्रसिद्धिरिति भावः ।। उक्तेति ।। नामपादीयन्यायेन ब्रह्मण्यपि प्रयोगस्योक्तत्वात्प्रयोगसाधारण्येनेत्याद्युक्तरीत्येत्यर्थः । टीकायां लिङ्गोक्तिस्तु नामपादन्यायसूचनाय । अजश्रुत्युक्तिरपि चतुर्मुखरूपविशेषोपस्थित्यर्थेति भावः । नन्वेवं सङ्गत्युक्तौ ‘‘प्राचीनाधिकरणेषु विष्णौ नित्यमहिमत्वमभिसंहित’’मिति टीकाविरोध इत्यत आह ।। प्रयोजनं त्विति ।। सा प्रयोजनपरेति भावः । यद्यप्यसङ्गत्वाक्षेपः प्रयोजनं सूचितम् । तथापि तस्य सङ्गतिमात्रपरत्वेनोपपत्तेरिति वा सर्वाक्षेपरूपप्रयोजनसम्भवे तन्मात्राक्षेपरूपप्रयोजनसङ्कोचायोगादिति वा टीकोक्तं प्रयोजनान्तरमिति वा तत्स्फुटीकर्तुं प्रयोजनं त्वित्युक्तम् ।। यद्वा द्वितीयसङ्गतौ पूर्वाक्षेपाभावाद्भाष्ये स्पष्टं प्रयोजनानुक्तेश्च किं प्रयोजनमेतच्चिन्ताया इत्यत उक्तं प्रयोजनं त्विति ।। भाष्य एव प्रयोजनोक्तिरस्तीत्याह ।। देवानां इति ।।
ननु टीकायामेतदन्यथाव्याख्यातमित्यतस्स्वयमर्थान्तरमाह ।। तस्येति ।। अनेकार्थत्वाद्भाष्यस्य । ‘‘भाष्यं चात्यर्थविस्तर’’मित्युक्तेरिति भावः ।। उक्तमिति ।। देवताधिकरण इत्यर्थः । विषयसंशयटीकां व्यनक्ति ।। अत्रेति ।। वाजसनेये ‘‘जनको ह वैदेह आसांचक्र’’ इति षष्ठेऽध्याये चतुर्थे ब्राह्मणे ‘‘स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु य एषोंऽतर्हृदय आकाशस्तस्मिन् शेते सर्वस्य वशी सर्वस्येशानस्सर्वस्याधिपतिस्स न साधुना कर्मणा भूयान्नो एवासाधुना कनीयानेष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसम्भेदाय स एष नेति नेत्यात्माऽगृह्यो न हि गृह्यतेऽशीर्यो न हि शीर्यतेऽसङ्गो न हि सज्यतेऽसितो न व्यथते न रिष्यती’’त्याद्युपक्रम्य श्रूयते ‘‘तदेतदृचाभ्युक्तम् । एष नित्योमहिमा ब्राह्मणस्य न कर्मणा वर्धते नो कनीयान् । तस्यैव स्यात्पदवित्तं विदित्वा न लिप्यते कर्मणा पापकेनेति ।। तस्मादेवंविच्छान्तो दान्त उपरतस्तिति क्षुस्समाहितो भूत्वाऽऽत्मन्येवात्मानं पश्यति । नैनं पाप्मा तरति सर्वं पाप्मानं तरति नैनं पाप्मा तपति सर्वं पाप्मानं तपति विपापो विजरो विजिघित्सो ब्राह्मणो भवति एष ब्रह्मलोकस्सम्राडिति होवाच याज्ञवल्क्यस्सोहं भगवो विदेहान् ददामिमां च सहदास्यायेति । स वा एष महानज आत्माऽन्नादो वसुदानो विंदते वसु य एवं वेद । स वा एष महानज आत्माऽजरोऽ मरोऽमृतोऽभयो ब्रह्माभयं हवै ब्रह्म भवति य एवं वेदे’’ति । तत्रत्यो ब्राह्मणशब्दो विषय इत्यर्थः ।। रूढ इति ।। जातिवाचीत्यर्थः ।। उताशक्यमिति ।। यदि त्वाद्यस्तदा रूढौ बाधकाभावाच्चतुर्मुख एव । द्वितीये बाधकाद्रूढित्यागेन योगाद्विष्णुरेवेति स्पष्टः फलफलिभाव इति भावः ।
नन्वत्र यद्वेत्याद्यग्रिमग्रन्थे टीकायां च वर्णादिहीने हरावनवकाशेन विप्रत्वजातौ निरूढेन ब्राह्मणशब्देन सहपठिततयाऽजशब्दस्य विरिञ्चिपरत्ववर्णनाद्वरौ विरिञ्चे चाजायमानत्वाकारवाच्यविष्णुजत्वरूपयोगाभ्यां ‘‘तस्मादहमजस्स्मृत’’ इति स्मृत्या ‘‘अज आत्मा महान्ध्रुव’’ इत्यादिनाच रूढ्यापि साधारणस्याजशब्दस्यैव चिन्ताधर्मित्वमुचितमिति चेन्मैवम् । भाष्ये ‘‘स च ब्राह्मणस्सवा एषमहानज आत्मेत्यजशब्दाद्विरिञ्च’’ इत्युक्तयाऽजशब्दादेव पूर्वपक्षप्राप्त्युक्तेः । तत्र चाजशब्दो विष्णौ यौगिक एव । न तु चतुर्मुख इव योगरूढ इत्युपेत्याजशब्दे विरिञ्चप्रापकत्वस्याग्रे प्रतिपादनात्तदनुरोधेन ब्राह्मणशब्द एव धर्मीकृतः । नन्वेवं ब्रह्मपर इति चिन्तानन्तरं तदर्थं तत्सहपठितोऽजशब्दः किं चतुर्मुखपरोऽथ ब्रह्मपर इति चिन्ता कार्येति चेन्न । ब्राह्मणशब्देनाजशब्दस्याप्युपलक्षणाद्वा श्रुतिद्वयसाहित्यस्यैव पूर्वपक्षप्रापकत्वेनाभिमतत्वस्य वक्ष्यमाणत्वाद्ब्राह्मणशब्दे चिन्तापरम्पराप्रदर्शनस्याजशब्देऽपि तुल्यत्वेनोहितुं शक्यत्वाद्वा ब्राह्मणशब्दसाहित्येनैवाजशब्दस्य विरिञ्चपरताया वक्ष्यमाणत्वेन तत्पक्षानुसाराद्वा ब्राह्मणशब्दधर्मिकैव चिन्तापरम्परोक्तेति ।
चन्द्रिकाबिन्दुः
अस्य अधिकरणस्य ।। चतुर्मुखे विशिष्य तदभावेनेति ।। तथा च चतुर्मुखे अजशब्दवशात् प्रसिद्धिश्चेत् ब्रह्मणि नित्यमहिमत्वलिङ्गवशात् प्रसिद्धिरित्युभयत्रप्रसिद्धत्वमिति भावः । नामलिङ्गपादन्यायसाम्येनेति भावः । टीकायामेवोक्तमिति ।। न तु भाष्यकारेण । एवमाक्षेपसङ्गतिः सूचितेति भावः ।। तस्य भाष्यस्येति ।। देवानां चेति भाष्यं पूर्वपक्षानन्तरं वर्तत इति कृत्वा प्रयोजनसूचकत्वेन योजयित्वा पूर्वपक्षोपपादकतयैव टीकाकारैर्योजितमिति स्वारस्यं टीकापक्षे द्रष्टव्यम् ।
पाण्डुरङ्गि
।। उक्तरीत्येति ।। नामलिङ्गपादन्यायसाम्येन ब्राह्मणशब्दस्य ब्रह्मण्यपि प्रसिद्धेरुक्तप्रायत्वादुभयसाधारण्यमित्युक्तरीत्येत्यर्थः ।