अत्रोक्तं ब्रह्मणः सर्वस्रष्टृत्वं ..

चतुर्थः पादः

प्राणोत्पत्यधिकरणम्

तात्पर्यचन्द्रिका

इन्द्रियाणामुत्पत्तिमत्वसमर्थनम्

ॐ तथा प्राणाः ॐ ।।

अत्रोक्तं ब्रह्मणः सर्वस्रष्टृत्वं किं प्राणानादित्वश्रुतिविरुद्धं न वेति चिन्ता । तदर्थं किं प्राणानादित्वश्रुतिर्मुख्यार्थोत गौणीति । तदर्थमनादित्वश्रुति सहकारित्वेन स्मृत्युक्तानुपादानत्वं किं सर्वथा निरुपादनत्वं किं वा सूक्ष्मरूपेणेति । ‘‘प्रतिज्ञानुपरोधाच्चे’’ति सिद्धान्तसूत्रोक्ताया इदं सर्वमसृजते’’ तिसामान्यश्रुतेर्बाधाय पूर्वपक्षन्यायविवरणे स्पष्टार्थवद्विशेषश्रुतिविरोध इत्युक्तम् । तत्र सामान्यव्यवधानाभावरूपं स्पष्टार्थत्वं निरवकाशत्वरूपविशेषश्रुतित्वेऽपि हेतुरित्याह ।। स्पष्टार्थायानिरवकाशत्वेनेति ।। ‘‘एतस्माज्जायते प्राणो मनः सर्वैद्रियाणि चे’’ ति सिद्धान्तीयविशेषश्रुतिबाधार्थं भाष्योक्तां पूर्वपक्षयुक्तिमाह ।। निरुपादानत्वादिति ।। व्यतिरेकेणेति ।। यद्यप्यन्वयदृष्टान्तो ब्रह्मास्ति । तथापि व्यतिरेकव्याप्तिं विना व्यभिचारशङ्काया अनिरासाद्भाष्योक्तस्मृत्यनुसारेण व्यतिरेक एवोक्तः ।। विप्रतिपत्त्यभावेनेति ।। तेजोऽत इत्यादौ तेजआदेर्ब्रह्मकार्यत्व इव प्रकृते तत्र विप्रतिपत्त्यभावेनेत्यर्थः ।। प्रतिसृष्टिकालमिति ।। यस्मिन् प्रलयकालेऽनुपचयस्तदा न समर्थानि यस्मिंस्तु सृष्टिकाले समर्थानि तदाऽस्त्वेवोपचय इत्यर्थः । इन्द्रियाणां भूतैरुपचये तैजसाहङ्कारकार्यत्वविरोध इत्यत आह ।। अहङ्कारोत्पन्नेति ।। उक्तयुक्तयापीति ।। ‘‘युक्तियुक्ताया अप्यविशेषश्रुतेस्सकाशादुभय (विशेषश्रुतेस्सकाशादुभय)’’ श्रुतेः प्राबल्या’’दिति (इदं वाक्यं न्यायविवरणे मुद्रितपुस्तके नास्ति) न्यायविवरणोक्तरीत्या ‘‘स प्राणमसृजत स प्राणा’’नित्यादिसिद्धान्तीयविशेषश्रुतेः पूर्वपक्षीयविशेषश्रुतितःप्राबल्यार्थं पूर्वोक्ता सामान्यश्रुतिः स्मारितेति भावः ।। छ ।। प्राणोत्पत्त्यधिकरणम् ।। १ ।।

प्रकाशिका

एतत्पादाभिधेयं पूर्वपादानन्तर्ये बीजादिकं च प्रागेव विवृतम् ।। ॐ तथा प्राणाः ॐ ।। ‘‘जगत्कारणे ब्रह्मणी’’त्यादिफलोक्तिपरटीकातात्पर्योक्तिपूर्वं विषयसंशयटीकां व्यनक्ति ।। अत्रोक्तमिति ।। अत्रेति ।। चिन्तेत्यन्वयः । उक्तमित्यस्य जन्मादिसूत्रोक्तमित्यर्थः । एवमग्रेऽपि । आद्यसूत्रसूचितचिन्तामुक्त्वा द्वितीयसूत्रसूचितचिन्तामाह ।। किं प्राणेति ।। टीकाक्षरार्थमाह ।। प्रतिज्ञेत्यादिना ।। विशेषश्रुतिबाधार्थमिति ।। एतेन टीकायां ‘‘उत्पत्तिश्रुतिरस्ती’’त्यस्य सामान्यश्रुतिश्चास्तीत्यर्थ उक्तो भवति ।। भाष्योक्तस्मृत्यनुसारेणेति ।। ‘‘उपादानकृता सृष्टिस्सर्वलोकेषु दृश्यत’’ इति स्मृतीत्यर्थः ।। तैजसाहंकारेति ।। ‘‘तैजसात्तु विकुर्वाणादिन्द्रियाणि दशाभव’’न्निति द्वितीयस्कन्धस्य पञ्चमाध्याये ‘‘अतिजाज्वल्यमानत्वात्तैजसानीन्द्रियाण्यपी’’त्यादितत्तात्पर्योक्तवाक्येषु च ‘‘तैजसानीन्द्रियाण्येव क्रियाज्ञानविभागत’’ इत्यादितृतीयस्कन्धकापिलेयवाक्यादौ च तैजसाहंकारकार्यत्वश्रवणादिति भावः ।। तामसेति ।। तामसादपि भूतादेर्विकुर्वाणादभून्नभ’’ इत्यादिद्वितीयस्कन्धवाक्यात् ‘‘तामसात्तु विकुर्वाणाद्भगवद्वीर्यचोदितात् । शब्दमात्रमभूत्तस्मान्नभश्श्रोत्रं तु शब्दग’’मित्यादितृतीयस्कन्धोक्तेरिति भावः । प्रतिज्ञानुपरोधादिति तृतीयसूत्रसार्थक्यमाह ।। युक्तियुक्ताया अपीत्यादिना ।।

चन्द्रिकाविवृतिः

ॐ तथा प्राणः ॐ ।। सामान्यव्यवधानाभावरूपेति ।। स इदं सर्वमसृजतेति सर्वत्त्वं सामान्यव्यवधानं कृत्त्वा तत्पूर्वकमिति यावत् । इन्द्रियाणामुत्पत्तिं प्रतिपादयति ।। मनः सर्वेन्द्रियाणीति ।। श्रुतिस्तु व्यवधानाभावेन स्पष्टमेवेन्द्रियाणामुत्पत्तिमिति स्पष्टमेवेत्युक्तम् ।। समर्थानीति ।। संसारापादन इति शेषः ।। प्राबल्यार्थमिति ।। अन्यथा पूर्वपक्षीयविशेष्यश्रुतेर्युक्तियुक्तत्त्वेन बाधो न स्यादेवेति भावः ।। १ ।।