सिद्धान्तस्तु

सिद्धान्ते विष्णोरेव अक्षिस्थत्वसमर्थनम्

तात्पर्यचन्द्रिका

सिद्धान्तस्तु ।। अग्नेः ‘‘परिह्येनं म्रियन्ते विद्युद्वृष्टिश्चन्द्रमा आदित्योऽग्निः । भीषाऽस्मादग्निश्चे’’त्यादिश्रुत्यादिभिर्मृतिभयादिमत्त्वेन मुख्यामृतत्वादेर्निरवकाशत्वात् । अमुख्यस्य च मुख्यसम्भवेऽयोगात् । भाष्ये च ब्रह्मात्मशब्दयोर्निरवकाशतायाः प्रागेवोक्तत्वात् । स्थानादिव्यपदेशसुखविशिष्टाभिधानादीनां निरवकाशतायास्तत्रैवोक्तत्वात् । जीवपक्षेऽनवस्थादेश्च बाधकत्वाद्विष्णुरेवाक्षिस्थः । तदेतदभिप्रेत्योक्तं न्यायविवरणे ‘‘निरवकाशोपपत्तेरेव प्राबल्य’’मिति । न च बह्वग्निश्रुत्यादिबाधः । अग्नीनामेवोपदेष्टृत्वात् । कुशलं न इत्यादावस्मच्छब्दोऽग्निपरोऽपि सोऽहमित्यत्र बाधकादन्तर्यामिपरः । अभ्यासोऽपि पूर्वापराविरुद्धेऽर्थे तात्पर्यस्य लिङ्गम् । अग्नेरादित्यस्थत्वं चामृतमित्याद्युत्तरवाक्यैः कं ब्रह्मेत्यादिपूर्ववाक्यैश्च विरुद्धम् ।

धर्म्यैक्येऽपि भवत्येव विद्याभेदः प्रकारयोः ।

भेदमात्रेणापि यथा दहरप्राणविद्ययोः ।। १ ।।

अस्मद्विद्याऽऽत्मविद्ययोश्च ब्रह्मविद्यात्वेऽप्याद्याया अग्न्यन्तर्यामित्वप्रकारकत्वात् द्वितीयायाश्च सर्वगतत्वप्रकारकत्वात् । ब्रह्मविषयकदहरप्राणवैश्वानरादिविद्यानामिव प्रकारभेदात्पृथगुक्तिरिति ।।

प्रकाशिका

अमृतत्वाभयत्वब्रह्मात्मशब्दस्वबन्धनिमित्तकचक्षुरसङ्गत्वापादकत्व-पूर्णसुखत्वादिश्रुतिलिङ्गप्रकरणरूपविष्णुप्रापकाणां ‘‘उपपत्ते’’रित्यादिसूत्रोक्तानां निरवकाशत्वात्परहेतूनां सावकाशत्वात्परपक्षे बाधकसत्त्वाच्च विष्णुरेवाक्षिस्थ इति भावेन ‘‘विष्णुरेव चक्षुरन्तस्स्थ’’ इत्यादिटीकोक्तं प्रमेयं निष्कृष्य दर्शयति ।। सिद्धान्तस्त्वित्यादिना ।। अग्नेर्मृतिभयादिमत्त्वेनेत्यन्वयः । ‘‘म्रियन्ते पञ्चदेवता’’ इति ऋग्भाष्योक्तमाह ।। एनमिति ।। एनं वायुगं विष्णुं परीत्यैतरेयब्राह्मणे । अस्मादस्य भयेनेति तैत्तिरीये । भयादस्याग्निस्तपतीति कठश्रुत्यादिरादिपदार्थः । अत्राभयत्वादेश्चंद्रिकायां पूर्वपक्षिणाऽऽक्षेपे कृतेऽपि परहेतूनां सावकाशत्वस्याग्रे स्पष्टत्वात् ‘‘कम्पना’’दित्यत्र टीकोक्तदिशाऽमृतत्वादेर्हेतूकरणमविरुद्धमिति ज्ञेयम् ।। प्रागेवेति ।। ‘‘अभ्यासात् प्रसिद्धोपदेशा’’दित्यादौ ।। स्थानादीति ।। ‘‘स्थानादिव्यपदेशाच्चे’’त्यत्र ‘‘तद्यदस्मिन्सर्पिर्वोदकं वे’’त्यक्षिस्थपुरुषसम्बन्धादक्ष्णोरसङ्गाख्यशक्तिर्व्यपदिश्यते । तथा ‘‘एतं संयद्वाम इत्याचक्षते । एतं हि सर्वाणि वामानि संयन्ति । एष उ एव वामनि’’रित्यादिना संयद्वामत्वादिस्वरूपशक्तिश्चोच्यते । एतदुभयं च ‘‘स ईशस्सोऽसपत्नस्सहरिः परः परो वरीयान् । यदिदं चक्षुषि सर्पिर्वोदकं वा सिञ्चति वर्त्मनी एव गच्छति स वामनस्स भामन’’ इति श्रुत्या ‘‘यत्स्थानत्वादिदं चक्षुरसङ्गं सर्ववस्तुभिः । स वामन’’ इति स्मृत्या च विष्ण्वेकनिष्ठम् । ‘‘सुखविशिष्टाभिधानादेव चे’’त्यत्र ‘‘कं ब्रह्म खं ब्रह्मे’’त्युपक्रमे श्रुतं विशिष्टसुखत्वं पूर्णसुखत्वमुच्यते । तच्च ‘‘आनन्दं ब्रह्मणः आनन्दो ब्रह्मे’’त्यादिना निरवकाशम् ।

‘‘श्रुतोपनिषत्कगत्यभिधाना’’दित्यत्र श्रुतैतद्विद्यानां ‘‘स एनान् ब्रह्म गमयती’’ति ब्रह्मगत्यभिधानात्तस्य चाक्षिस्थस्य विष्णुत्वं विनाऽयोगात् अन्यविद्ययाऽन्यगतेरयुक्तत्वादिति भाष्यादावेवोक्तत्वादित्यर्थः । ‘‘अनवस्थितेरसम्भवाच्च नेतर’’ इत्यत्र वामनिभामन्यादिशब्द बलेनाग्नेर्जीवप्रेरकतया चक्षुस्स्थत्वेऽभिमते सति तस्य जीवत्वात्प्रेरकान्तरापेक्षायां तत्रापि तथेत्यनवस्थानात् अग्नेरपि प्रेर्यजीवत्वसाम्येन प्रेरणस्यासम्भवाच्च नाग्निरक्षिस्थइत्युच्यमानत्वादित्यर्थः । टीकाया मूलमाह ।। तदेतदिति ।। उपपत्तेरेव प्राबल्यं किमुतात्मशब्दसहिताया इत्येवकारार्थः । उपपत्तेर्निरवकाशत्वोक्तिसूचितं परहेतूनां सावकाशत्वं भाष्याद्युक्तं व्यक्तमाह ।। न चेत्यादिना ।। अग्निपरोऽपीति ।। यथोक्तं न्यायविवरणटीकायां ‘‘अग्निःप्रसिद्ध एवास्तु । सोऽहमस्मीत्यादि त्वन्तर्याम्यपेक्षया सावकाश’’मिति ।। बाधकादिति ।। अमृतत्वादिबाधकादित्यर्थः । श्रुतिगतिमुक्त्वाऽभ्यासगतिमाह ।। अभ्यासोऽपीति ।। ‘‘अवधारणं चान्तर्यामिणो विशेषाभावमात्रप्रतिपादनार्थ’’ मित्यन्यत्र टीकायामुक्तरीत्याऽवधारणगतिरपि ध्येया । उक्तं च तत्वप्रदीपे ‘‘अत्र चोक्तं छन्दोगोपनिषद्भाष्ये भगवतैव स एवाहमस्मीत्यन्तर्यामिणोस्सर्वविशेषाभावज्ञापनार्थ’’मित्यादि ।

ननु विद्याशब्दाभ्यासस्य का गतिरित्यतः ‘‘न चास्मद्विद्येत्युक्तिविरोध’’ इत्यादिटीकोक्तं प्रमेयं सङ्गृह्य विवृणोति ।। धर्म्यैक्येऽपीति ।। ‘‘यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्मे’’ति छान्दोग्यस्थदहरविद्या ब्रह्मपरेति दहरनये साधयिष्यते । ‘‘प्राणो वा आशाया भूयानि’’ति तत्रैव सप्तमगता प्राणविद्या भूमाधिकरणे ब्रह्मपरेति वक्ष्यते । ‘‘अभिविमानामात्मानं वैश्वानरमुपास्त’’ इति तत्रैव पञ्चमस्था वैश्वानरविद्या वैश्वानरनये निर्णेष्यत इति ता ब्रह्मपरा इति भावः ।। प्रकारेति ।। दहरहृत्पद्मस्थत्वप्राणस्थत्वविश्वनरान्तरत्वादिप्रकारभेदादित्यर्थः ।

पाण्डुरङ्गि

मुख्यामुख्ययोर्मुख्ये सम्प्रत्यय इति न्यायेनाग्नेरमृतत्वादेर्मुख्यत्वाभावेन विष्णोरेव तद्भावेन मुख्यस्यैव ग्रहणं युक्तं न त्वग्नेरित्यरुच्या पक्षान्तरमाह ।। उक्तार्थवादेति ।। पूर्वपक्षीयाणि बाधकानि परिहर्तुमाह ।। न चेत्यादिना ।। नन्वभ्यासस्य पूर्वापराविरुद्धे स्वरसप्रतिपन्नेऽर्थे तात्पर्यार्थत्वेऽप्यग्नेरादित्यस्थत्वस्यापि पूर्वोत्तराविरुद्धत्वात्स्वरसप्रतिपन्नत्वाच्च तात्पर्यार्थत्वमभ्यासस्स्यादेवेत्यत आह ।। अग्नेरिति ।। नन्वस्मद्विद्याऽऽत्मविद्या चेति विद्याशब्दोऽभ्यस्यत इति विद्याभेदार्थं कं ब्रह्मेत्यादिकाऽऽत्मविद्या आदित्यस्थादिविद्या त्वग्निविद्येति स्वीकार्यतया चाग्नेरेवादित्यस्थत्वेऽक्षिस्थत्वमपि तस्यैवेत्यत आह ।। धर्म्यैक्येऽपीति ।।