प्राणानां धर्मितामाश्रित्योत्पत्तिश्चिन्तिता

सप्तगत्यधिकरणम्

तात्पर्यचन्द्रिका

ज्ञानेन्द्रियाणि सप्तेति समर्थनम्

।। ॐ सप्तगतेर्विशेषितत्वाच्च ॐ ।।

प्राणानां धर्मितामाश्रित्योत्पत्तिश्चिन्तिता । अथ सङ्ख्यारूपधर्माश्रयस्तद्विशेषश्चिन्त्यत इति सङ्गतिः । अत्र ब्रह्मणः श्रुतिसमन्वयेनोक्तं गुणपूर्त्यादिकमयुक्तं न वेति चिन्ता । तदर्थं श्रुतिरप्रमाणमुत प्रमाणमिति । तदर्थं प्राणेषु सप्तत्वद्वादशत्वश्रुती परस्परविरुद्धे उत नेति । तदर्थं प्राणानां द्वादशत्वेऽपि सप्तत्वश्रुतिर्न घटत उत घटत इति । तदर्थं द्वादशत्वसप्तत्वसङ्ख्यावच्छेदकं नास्त्युतास्तीति । सोमस्य ग्रहाः सोमरसग्रहणार्थाः पात्रविशेषाः । ज्योतिष्टोमे हि उपांश्वन्तर्यामैन्द्रवायवमैत्रावरुणाश्विनाः पञ्च, शुक्रामन्थिनौ द्वौ ऋतुपात्रे द्वे अतिग्राह्यास्त्रय इति सोमग्रहा द्वादश । यद्यप्यंश्वदाभ्यावपि ग्रहौ तत्र स्तः । तथापि तयोरनित्यत्वात्सादनोपस्थापनाद्यभावाच्च नित्यसादनादियुक्तग्रहविवक्षया द्वादशत्वमिति द्रष्टव्यम् । अत्र ‘‘श्रुत्योरेव परस्परविरोध’’ इति न्यायविवरण उभयाप्रामाण्येन पूर्वपक्षितत्वाट्टीकायामपि ‘‘सप्तैव प्राणा’’ इत्यादिना ‘‘अथवा द्वादश प्राणा’’ इत्यादिना च सप्तत्वद्वादशत्वश्रुत्योः समबलत्वोक्तया परस्परव्याघात इत्येक एव पूर्वपक्षो दर्शितः । तदनुसारेण सन्देहटीकापि किं सप्तोत द्वादशेत्यनिर्णय उत द्वादशेति निर्णय इत्यध्याहारेण योज्या ।। एकदैवत्याभिप्रायेणेति ।। समसङ्ख्यदेवताकत्वाभिप्रायेणेत्यर्थः । द्वादशमासादीनां हि द्वादशादित्यादयो देवताः ।

ननु निवृत्तकर्मणः संसारस्थित्यहेतुत्वात् अब्रह्मज्ञानस्य च तस्मादुद्गत्यहेतुत्वात्तयोः कथं स्थितगतिशब्दावत आह ।। सजातायत्वेनान्यत्रापीति ।। यथा ‘‘यत्प्रपदाभ्यां प्रापद्यत ब्रह्मेमं पुरुषं तस्मात्प्रपदे’’ इति श्रुत्युक्तस्य प्रपदशब्दनिमित्तस्य चतुर्मुखपादतलोपरिभागगतत्वेऽपि तज्जातीयपुरुषान्तर सम्बन्धिन्यपि तस्मिन्प्रपदशब्दस्तथेह प्रवृत्तकर्मणः संसारस्थितिहेतुत्वाद्ब्रह्मज्ञानस्य च तस्मादुद्गतिहेतुत्वात्सजातीययोःकर्मान्तरज्ञानान्तरयोरपि स्थितगतिशब्दावित्यर्थः । अन्ये तु प्राणाःसप्तैव । ‘‘सप्त प्राणा’’ इत्यादिश्रुतिषु सप्तत्वावगतेः । ‘‘सप्त वै शीर्षण्याःप्राणा’’ इति विशेषितत्वाच्चेति‘‘सप्ते’’तिसूत्रेण पूर्वपक्षयित्वा ‘‘दशेमे पुरुषे प्राणा आत्मैकादश’’ इति श्रुतेरेकादशेति ‘‘हस्ते’’ति सूत्रेण सिद्धान्तितम् । अक्षरार्थस्तु हस्तादयोऽपि प्राणाःसन्ति । अतोऽस्मिन्प्राणानामेकादशत्वे स्थिते सत्येवं सप्तत्वं नेतीत्याहुः । तन्न । मम रीत्या प्राणानां सप्तभ्योऽधिकसङ्ख्यत्वे ‘‘सप्त प्राणा’’ इति श्रुतिरयुक्ता । महासङ्ख्यायामवच्छेदकविशेषं विनाऽल्पसङ्ख्याव्यवहारायोगादिति शङ्किते घ्राणरसनचक्षुस्त्वक्श्रोत्रमनोबुद्धिषु ज्ञानेन्द्रियत्वरूपो विशेषो ‘‘गुहाशया’’मिति वाक्यसूचितोऽस्तीत्यवश्यवक्तव्यपरिहारोक्तया ‘‘सप्ते’’ति सूत्रस्यसिद्धान्तत्वसम्भवेपरिहारोक्तिसूचितपूर्वपक्षपरत्वायोगात् । श्रौतावगतिवाचिना सौत्रेण गतिशब्देनैव ‘‘सप्त प्राणा’’ इत्यस्या इव ‘‘सप्त वै शीर्षण्याःप्राणा’’ इत्यस्या अपि श्रौतावगतेर्वक्तुं शक्यत्वेन ‘‘विशेषितत्वाच्चे’’ त्यस्य वैयर्थ्याच्च । किञ्च ‘‘सप्त वै शीर्षण्याः प्राणाद्वाववाञ्चा’’विति समाख्याश्रुतौ प्राणानां नवत्वोक्तया न तया सप्तत्वसिद्धिः । किञ्च सिद्धान्ते ब्रह्ममुख्यप्राणादेरपि प्राणशब्दार्थत्वेन तत्रैकादशत्वनियमायोगादिन्द्रियेष्वेव स वाच्य इति पूर्वपक्षेऽपि तेष्वेव सप्तत्वनियमो वाच्यः । न च द्वे श्रोत्रे द्वे नासिके द्वे चक्षुषी एका वागिति श्रोत्रादिचतुरिन्द्रियाधिष्ठानगोलकानां सप्तत्व इन्द्रियेषु तत्सिध्द्यति । हस्तेति सूत्रेऽपि हस्तादयोऽप्यतो नैवमित्येतावतैव पूर्णत्वात् ‘‘स्थितेत’’ इति शब्दो व्यर्थः ।

किञ्च हस्तादयःपञ्च पूर्वपक्ष्युक्तसप्तान्तर्गता एव चेन्न पूर्वपक्षनिरासः । अतिरिक्ताश्चेद्द्वादशत्वेनैव सिद्धान्तो वाच्यो न त्वेकादशत्वेन । न च वाक्, षट् ज्ञानेन्द्रियाणि चेति सप्त ‘‘सप्ते’’ति सूत्रे विवक्षितानि । हस्तेति सूत्रे तु चत्वारि वागन्यकर्मेन्द्रियाणि । तथा चैकादशत्वमिति वाच्यम् । मम मते सप्तसु ज्ञानेन्द्रियत्ववत्, हस्तादिषु कर्मेन्द्रियत्ववच्च त्वन्मत एकस्यावच्छेदकस्याभावेनादिसूत्रे सप्तशब्दस्य, द्वितीय आदिशब्दस्य चायोगात् । गीयते च प्राणानां द्वादशत्वं ‘‘इन्द्रियेभ्यःपरा ह्यर्था अर्थेभ्यश्च परं मनः । मनसस्तु परा बुद्धिः । इन्द्रियाणि हयानाहुः । बुद्धिन्तु सारथिं विद्धि मनः प्रग्रहमेव च । यदा पञ्चावातिष्ठन्ते ज्ञानानि मनसा सह । बुद्धिश्च न विचेष्टते । द्वादश वा एते प्राणाः । द्वादशैवेन्द्रियाण्याहुर्मनोबुद्धी तु द्वादशे’’ इत्यादिश्रुतिषु

विज्ञानतत्वाच्च मनो मनस्तत्वाच्च खादिकम् ।

सप्त प्राणास्त्ववगतेः पञ्च प्राणाश्च कर्मणः ।

श्रोत्रादीनि तु पञ्चैव तथा वागादिपञ्चकम् ।

मनोबुद्धिसहायानि द्वादशैवेन्द्रियाणितु ।।

इत्यादिस्मृतिषु च । यद्यपि ‘‘दशेमे पुरुषे प्राणा आत्मैकादश’’ इत्यादिश्रुतिषु ‘‘इन्द्रियाणि दशैकञ्चे’’त्यादिस्मृतिषु चैकादशत्वञ्च बुद्धिमनसोरभेदाश्रयणेनैवोच्यते । तथापीह सूत्रे ज्ञानेन्द्रियाणि सप्तोक्त्वा पुनः पञ्चकर्मेन्द्रियोक्तेर्भेदेन द्वादशत्वं विवक्षितम् । एतेन यत्परैःसूत्रयोर्योजनान्तरमुक्तं प्राणानामेकादशत्वेऽपि सप्तैवोत्क्रामन्ति । ‘‘सर्वे प्राणा अनूत्क्रामन्ती’’त्यत्र सप्तानामेव गत्युक्तेः । तत्र सर्वशब्दश्रवणेऽपि ‘‘न पश्यतीत्याहु’’रित्यादौ ‘‘न स्पृशती’’ त्यन्ते पूर्ववाक्ये चक्षुर्घ्राणरसनवाक्श्रोत्रमनस्स्पर्शनानामेव विशेषितत्वादिति ‘‘सप्ते’’ ति सूत्रेण पूर्वपक्षिते ‘‘दशेम’’ इति वाक्ये ते यदाऽस्माच्छरीरात् मर्त्यादुत्क्रामन्ती’’ति श्रवणादेकादशाप्युत्क्रामन्तीति हस्तेति सूत्रेण सिद्धान्तितमिति तदपि निरस्तम् । उक्तरीत्या ‘‘सप्ते’’ति सूत्रस्याध्याहारं विनैव सिद्धान्तत्वसम्भव उत्क्रामन्तीत्यध्याहारायोगात् । पूर्ववाक्येनान्यपरेण पूर्वपक्षायोगाच्च । एतेन यत्कैश्चिदुक्तं सप्तैव प्राणाः । ‘‘येषु चरन्ति प्राणा गुहाशयां निहिताःसप्त सप्ते’’ति श्रुतौ सप्तानामेव गत्युक्तेरित्याद्यसूत्रेण पूर्वपक्षिते हस्तेति सिद्धान्तितमिति तन्निरस्तम् । उत्तरसूत्रे स्थितपदवैयर्थ्यात् ।। छ ।। सप्तगत्वधिकरणम् ।। ४ ।।

प्रकाशिका

उत्पत्तिरिति ।। श्रुतौ ‘‘सप्त प्राणाः प्रभवन्ती’’ति प्रभवशब्दश्रवणात्प्राणास्सप्त जायन्तेऽथ द्वादशेति चिन्त्यत इत्यर्थः । पूर्वोत्तरपक्षटीकासूचिताश्चिन्ता आह ।। अत्रेति ।। स्पष्टश्चिन्ताग्रन्थः फलफलिभावश्च । टीकाक्षरार्थमाह ।। सोमस्येति ।। पात्रविशेषाः उलूखलाकाराः । ‘‘अग्निर्देवतेत्युपांशु पात्रमासादयति ।। सोमो देवतेत्युत्तरमन्तर्यामस्य । तं परेण प्रत्यंचि द्विदैवत्यपात्राणि । इन्द्रो देवतेत्यैन्द्रवायवस्य । बृहस्पतिर्देवतेति मैत्रावरुणस्य । अश्विनौ देवतेत्याश्विनस्य । तान्यपरेण शुक्रामन्थिनोः पात्रे । ते अपरेण ऋतुपात्रे । स्थाल्यावन्तरेण त्रीण्युदंचति ग्राह्यपात्राणि । आग्नेयमैन्द्रं सौर्य’’मिति पात्राणामासादनक्रमोक्तयनुरोधेनाह ।। उपांश्वंतर्यामेति ।। शुक्रश्च मन्थी च शुक्रामन्थिनौ । ‘‘देवताद्वन्द्वे चे’’ति स्मरणात् । तयोर्द्वौ पात्रविशेषावित्यर्थः । अंश्वदाभ्यौ । अंशुनामकादाभ्यनामकावित्यर्थः ।। अनित्यत्वादिति ।। ‘‘काम्यावितरा’’ वित्युक्तेरिति भावः ।। विशेषितत्वाच्चेति ।। शीर्षण्या इत्यनेन ‘‘ये शीर्षण्याश्शिरस्स्थितास्सप्त ते प्राणा’’ इति शीर्षण्यत्वेन प्राणत्वोक्तया हस्तादीनामप्राणत्वावगमादिति भावः । अत इत्यस्य प्रतिपदमस्मिन्निति । तस्यार्थः प्राणानामिति ।। श्रौतावगतीति ।। श्रुतिसिद्धसप्तत्वावगतिवाचिनेत्यर्थः । श्रौतावगतेरित्यस्याप्येवमर्थः । विशेषित्वहेतोस्सप्तत्वासाधकत्वं चाह ।। किञ्चेति ।। द्वाववाञ्चाविति ।। अवांचौ पायूपस्थौ द्वौ प्राणावित्यर्थः । तेषु इन्द्रियेष्वित्यर्थः । स तु सप्तत्वनियमस्तेष्वयुक्त इति भावः । भामत्युक्तसप्तत्वप्रकारमनूद्य निराह ।। न चेति ।। व्यर्थ इति ।। अनुवादे प्रयोजनाभावादिति भावः । एकादशत्वेन सिद्धान्तः श्रुतिविरुद्धश्चेत्याह ।। गीयते चेति ।। इन्द्रियेभ्य इत्युक्तदशेन्द्रियेभ्योऽन्ययोर्मनोबुद्ध्योरप्याम्नानादिति भावः । यद्वा मन्मतं सप्तत्वद्वादशत्वरूपविवक्षाद्वयमपि श्रुत्यादिप्रसिद्धमिति भावेन सप्तत्वे द्वादशत्वे च काठकादिवाक्यान्युदाहरति ।। इन्द्रियेभ्य इत्यादिना ।। द्वादशत्वमिति सप्तत्वं चेत्यपि ध्येयम् । इन्द्रियेभ्यः चक्षुरादिपञ्चेन्दियेभ्य इत्यर्थः । इन्द्रियाणि चक्षुरादीनि पञ्चेत्यर्थः । इन्द्रियाणीति वाक्यान्तरम् । अस्य बुद्धिं त्वित्यर्धादुत्तरपादत्वेऽप्यर्थबोधसौकर्याय पूर्वमुक्तिः । श्रुत्यन्तरं यदेति । ज्ञानानि ज्ञानसाधनानि । द्वादश वा इति भाष्योक्तश्रुतिः । द्वादशैवेन्द्रियाणीति तु ‘‘त इन्द्रियाणी’’त्यत्र भाष्योक्ता । विज्ञानेति स्मृतिः ‘‘अन्तरे’’त्यत्र भाष्योक्ता । खादिकं इन्द्रियादिकमित्यर्थः । सप्तेति स्मृतिरत्रैव भाष्योक्ता । श्रोत्रादीनि त्विति तु ‘‘त इन्द्रियाणी’’त्यत्र भाष्योक्ता । स्मृतिष्वित्यस्य गीयते चेति पूर्वेणान्वयः । यद्वा परभाष्यादौ यत्सप्तत्वप्रत्याख्यानेनैकादशत्वोक्तया सिद्धान्तकरणं तदुभयमप्ययुक्तम् । सप्तेन्द्रियपक्षस्य द्वादशेन्द्रियपक्षस्य च श्रुत्यादावभिधानादिति भावेन ‘‘गीयते चे’’त्यादिना श्रुत्याद्युक्तिरुभयत्रेति बोध्यम् ।

ननु द्वादशत्वादिपक्ष इवैकादशत्वपक्षोऽपि प्रमित इत्यत आह ।। यद्यपीति ।। आत्मा बुद्धिर्मनो वा । परमते त्वात्मैव ।। अभेदेति ।। न त्वेकस्याप्राणत्वबुद्ध्येति भावः ।। पञ्चेति ।। यद्यपि सूत्रे पञ्चेति नास्ति तथापि ‘‘स्थिते कर्मविषये हस्तादयः’’ इत्युक्तया कर्महेतुत्वस्य पञ्चस्वप्यविशेषात्, पूर्वत्र गतेर्ज्ञानस्येत्युक्त्वा पश्चात् ‘‘हस्तादय’’ इत्युक्तया तदन्यपञ्चानामपि लाभात्, आदिपदसङ्कोचकाभावात्, ‘‘पञ्च प्राणाश्च कर्मण’’ इति स्मृतेश्च पञ्चेत्युक्तम् । ‘‘इयमपरा सूत्रद्वययोजने’’त्यादिपरभाष्योक्तमनूद्य निराह ।। एतेनेति ।। मम रीत्येत्याद्युक्तदोषेणेत्यर्थः । सूत्रार्थमनुवदति ।। सप्तैवोत्क्रामन्तीति ।। ‘‘सप्तगते’’रिति हेत्वर्थमाह ।। सर्व इति ।। ‘‘तमुत्क्रामन्तं प्राणोनूत्क्रामति प्राणमनूत्क्रामंतं सर्वे प्राणा अनूत्क्रामन्ती’’ति श्रुतावित्यर्थः । विशेषितत्वादित्यस्यार्थमाह ।। तत्र सर्वेति ।। न पश्यतीति ।। ‘‘यत्रैष चाक्षुषः पुरुषः पराङपर्यावर्तते । अथारूपज्ञो भवति न पश्यतीत्याहुर्न जिघ्रति न रसयती’’त्यादावित्यर्थः ।। ते यदेति ।। ‘‘दशेमे पुरुषे प्राणा आत्मैकादशस्ते यदाऽस्माच्छरीरान्मर्त्यादुत्क्रामन्ती’’ति श्रवणादित्यर्थः । दोषान्तरं चाह ।। पूर्ववाक्येनेति ।। अन्यपरेणेति ।। सुप्ताविन्द्रियाणां निर्व्यापाराद्युक्तिपरेणेत्यर्थः ।। एतेनेति ।। सिद्धान्तसूत्रत्वसम्भव इत्यादिदोषेण, द्वादशपरत्वसमर्थनादिना चेत्यर्थः ।।

चन्द्रिकाविवृतिः

।। ॐ सप्तगतेः विशेषितत्त्वाच्च ॐ ।। धर्मितामाश्रित्योत्पत्तिरिति ।। धर्मितामेवाश्रित्योत्प-त्तिश्चिंतितेत्यर्थः । अयं पूर्वं प्राणे उत्पत्तिरूपधर्ममात्रविचारः । अत्र पुनः प्राणधर्मभूतसंख्यादौ सप्तत्त्वादिविशेषविचार इति भावः ।। सोमस्य ग्रहा इति ।। यद्यपि ग्रहाः सोमस्येति टीकापाठस्तथापि सोमस्य ग्रहाः द्वादशेति अन्वयं सूचयति । व्यत्यासेन ग्रहणमिति ध्येयम् ।। सादनेति ।। सादनं उपस्थापयोर्नास्तीत्यर्थः ।। तदनुसारेणेति ।। पूर्वपक्षानुसारेणेत्यर्थः । अन्यथा पूर्वपक्षसंदेहटीकयोर्विरोध इति भावः ।। ग्रहाणां मासादीनां च न तद्दैवतैक्यम् । मासादीनां आदित्यादिदेवताकत्त्वात् ग्रहाणामिन्द्रवायुमित्रावरुणादिदेवताकत्त्वादित्यत आह ।। समसंख्येति ।। तस्मिन्पादतलोपरिभागे । शीर्षण्य इत्यनेन शीर्ष्णि भवत्त्वरूपविशेषणेन विशेषितत्वात् ।। तद्विशेषणोपेतानामिन्द्रियाणां सप्तत्वात्सप्तैवेति स्वीकर्तव्यमिति भावः ।। अवश्यवक्तव्यपरिहारेति ।। द्वादशसु प्राणेषु पृथक् सप्तेति निर्देशः किं निबन्धन इति शङ्का पूर्वपक्षसूत्रत्वाङ्गीकारेणैव परिहृतेति भावः ।। परिहारोक्तिसूचितेति ।। द्वाववांचौ द्वावधस्तनौ मिाित्त्वा नवद्वाराणि सम्पद्यंत इति श्रुतेरभिप्रायः ।। स वाच्यः एकादशत्त्वनियमो वाच्यः । पूर्वपक्षेऽपि तेष्वेवेति । सिद्धान्तपूर्वपक्षयोः समानविषयत्त्वादिति भावः ।।

ननु पूर्वपक्षे इन्द्रियाणां सप्तत्वाङ्गीकारे को दोषः । न च सप्तत्त्वासम्भव इति वाच्यम् ।। द्वे श्रोत्रे द्वे नासिके द्वे चक्षुषी एका वागिति इन्द्रियाणां सप्तत्त्वसम्भवादित्यत आह ।। न च द्वे श्रोत्र इति ।। तावता गोाकान्येव सप्त इन्द्रियाणि तु चत्वार्येवेति भावः ।। तत् सिद्ध्यति सप्तत्वं सिध्यति ।। न पूर्वपक्षनिरास इति ।। पूर्वपक्षिणा हस्तादीनंतर्भाव्यैव सप्तत्त्वप्रतिपादनात् सिद्धान्ते हस्तादीन्द्रियाणि सन्तीत्येतावता न पूर्वपक्षनिरास इति भावः ।। त्वन्मते एकस्यावच्छेदकस्येति ।। घ्राणरसनादिषु वागिन्द्रियमपि प्रवेश्य सप्तत्त्वोक्तेः ।। न हि वागिन्द्रियं ज्ञानेन्द्रियम् । येन ज्ञानेन्द्रियत्त्वमवच्छेदकं स्यादिति भावः ।। हस्तेति सूत्रेऽपि हस्तादय इति ।। सूत्रे वाक्पाणिपादपायूपस्थैरिति कर्मेन्द्रियक्रमे विद्यमानेऽपि यदा पाणीन्द्रियमारभ्य ग्रहणं तदा वागिन्द्रियं षडि्भर्ज्ञानेन्द्रियैरेव परिगणनीयमित्यभिप्रेतम् ।। अन्यथा वागादयस्तु स्थित इति सूत्रणं स्यात् ।। तथापि हस्ताभिमानीन्द्रदेवस्य मुख्यत्वात् ।। अभिमानिदेवताप्राधान्यविवक्षया सूत्रकारेण हस्तादयस्तु स्थित इत्युक्तम् । मनोबुद्धिभ्यां सह द्वादशेन्द्रियाणि प्रतिपादयन्ति वाक्यानि उदाहरन्ति ।। इन्द्रियेभ्य इत्यादिना ।। खादिकं इन्द्रियभूतादिकम् ।। स्मृतिषु चेत्यत्र प्राणानां द्वादशत्त्वं गीयत इति पूर्वेणान्वयः ।। प्राणानामेकादशत्त्वेऽपीति ।। इन्द्रियाणामेकादशत्त्वमङ्गीक्रियत एव । उत्क्रमणं तु सप्तानामेव सर्वेषां वेति विचारे सप्तानामिति पूर्वपक्षे एकादशानामेवेति सिद्धान्त इति परेषां अधिकरणशरीरनिष्कर्षः ।