अत्र बहुयुक्तिविरोधः परिह्रियते
आरम्भणाधिकरणम्
तात्पर्यचन्द्रिका
संगतिनिरूपणपूर्वकं पूर्वपक्षकथनम्
।। ॐ तदनन्यत्वमारम्भणशब्दादिभ्यः ॐ ।।
अत्र बहुयुक्तिविरोधः परिह्रियते । तत्र च बहुत्वं महदादिकं कर्त्रन्यस्वतन्त्रकारणसापेक्षम् । सृष्टत्वात् । घटवत् । तत्सृष्टिस्तत्सापेक्षा । सृष्टित्वात् । घटसृष्टिवदिति प्रयोगभेदमात्रान्न भवति । किन्तु महदादिसृष्टिः कर्त्रनधीनसत्ताकाधिष्ठानसापेक्षा । तथा तदनधीनशक्तिकाधिष्ठानसापेक्षा । तथोक्तरूपकरणसापेक्षा । सृष्टित्वात् । एवं स्थित्यादिरपीति प्रमेयभेदादिति नातिप्रसङ्गः । पूर्वत्रेश्वरस्य विश्वकर्तृत्वमेव नेति शङ्का परास्ता । अत्र तु श्रुतिसिद्धं तदुपेत्य स्वानधीनसत्तादियुक्तसाधनसापेक्षं तदिति शङ्का निरस्यत इति सङ्गतिः । अत्र जन्मादिसूत्रे विवक्षितं ब्रह्मणः स्वतन्त्रसाधनांतरनिरपेक्षकर्तृत्वं युक्तिविरुद्धमुत नेति चिन्ता । तदर्थं ‘‘किंस्विदासीदधिष्ठानमारम्भण’’मित्यत्र किंशब्दः किं परिहाराध्याहारेण प्रश्नार्थः किं वा तदनध्याहारेणाक्षेपार्थ इति । तदर्थं ‘‘अद्भ्यस्सम्भूत’’ इत्यादिश्रुतिः किं स्वतन्त्रसाधनान्तरपरोत परतन्त्रसाधनान्तरपरेति । तदर्थं कर्तुः स्वतन्त्रसाधनापेक्षा किं कर्तृत्वप्रयुक्तोताशक्तिप्रयुक्तेति ।
पूर्वपक्षमाह ।। स्वतन्त्रेति ।। अयं भावः । उक्तानुमानैरीशोऽपि स्वतन्त्रसाधनापेक्षः । यदि चेशत्वात्तदनपेक्षा तर्हि तत एव स्वाधीनसत्ताकमप्यान्तरं ज्ञानेच्छादिकं बाह्यं च कालकर्मप्रधानादिसाधनं नापेक्षेत । ‘‘किं स्विदासी’’दिति वाक्यं तु ‘‘अद्भ्यः सम्भूत’’ इत्यादिभिः स्वतन्त्रसाधनोक्तेस्तदविरोधाय परिहाराध्याहारेण प्रश्नो वाऽस्मदादेरिव सर्गानंतरभाविसाधनं नेत्येवंपरं वा । यद्यपि ‘‘अद्भ्यः सम्भूत’’ इत्यादौ साधनांतरमेवोक्तम् । न तु तस्य स्वातन्त्र्यम् । तथापि पारतन्त्र्यानुक्तौ स्वातन्त्र्यं स्वतः प्राप्तम् । लोके स्वतन्त्रसाधनापेक्षत्वे च कर्तृत्वमेव तन्त्रम् । लाघवात् । न त्वशक्तकर्तृत्वम् । गौरवात् । सर्वस्येशाधीनत्वश्रुतिश्च तत्सृष्टविषया । न तु सृष्ट्युपकरणविषया । अन्यथा साधनादिकमीशेन साधनांतरेण साध्यम् । तदप्यन्येनेत्यनवस्थेति ।
प्रकाशिका
टीकायामस्फुटत्वात्सुधोक्तमेवाधिकरणोपाधिं पूर्वापरापौनरुक्तयायाह ।। अत्रेति ।। ननु सुधायां महदादिसृष्टिः कर्तृभिन्नस्वतन्त्रकारणसापेक्षा । सृष्टित्वात्पटसृष्टिवत् । महदादिकं कर्तृव्यतिरिक्तकारणायत्तोत्पत्त्यादिकम् । कार्यत्वात् घटवदित्यादिना प्रयोगभेदोक्तया तेनैव बहुत्वमिति भाति । तथात्वे पूर्वत्रापि ईशो न सर्वकर्ता । असर्वकर्तृजीवाभिन्नत्वात् । सर्वकर्तृत्वं वा नेशनिष्ठम् । असर्वकर्तृजीवाभिन्नेऽयुक्तत्वादित्यादिरूपेण पूर्वत्रापि प्रयोगभेदसम्पादनसौलभ्यादित्यत आह ।। तत्र च बहुत्वमिति ।। ‘‘कर्त्रनधीनसत्ताशक्तयादिमत्कारणान्तरसापेक्षा खलु पटादिसृष्टिर्दृष्टे’’ति सुधावाक्यं हृदि कृत्वाह ।। किन्तु महदादीति ।। प्रयोगभेदप्रदर्शनं तु शिष्यव्युत्पादनार्थमिति भावः ।। एवमिति ।। स्थितिः कर्त्रनधीनसत्ता शक्तयादिमदधिष्ठानसापेक्षा । एवं संहृतिनियमनादयोपीत्यर्थः ।। तदुपेत्येति ।। एतेन ‘‘असदिति चे’’दिति प्रागपि प्रलये सर्वासत्त्वमाशङ्कितमिहापि ‘‘असद्व्यपदेशा’’दिति तदाशङ्क्यत इति पौनरुक्तयं निरस्तं बोध्यम् ।। सङ्गतिरिति ।। सामान्यविशेषविचाररूपेण ‘‘अत्ता गुहां’’ इत्यत्रेवावसरसङ्गतिरित्यर्थः । ‘‘तज्जगत्सृष्ट्यादिकं विषय’’ इत्यादिटीकां व्यनक्ति ।। अत्र जन्मादीति ।। युक्तीति ।। प्रागुदाहृतयुक्तीत्यर्थः । सौत्रारम्भणशब्देत्यतदंशसूचितां चिन्तामाह ।। किंस्विदिति ।। सत्वाच्चावसरस्येति सूत्रसूचितामाह ।। अद्य्भःइति ।। यद्याद्यःकल्पस्तदा ईश्वरस्य कर्तृत्वेन स्वतन्त्रसाधनस्यावश्यकत्वेन ‘‘अद्भ्य’’ इत्यादेस्तत्परत्वावश्यंभावात्तदनुरोधेन ‘‘किंस्वि’’दित्यस्य स्वतन्त्रसाधनाक्षेपायोगेन प्रश्नार्थत्वात्तादृशकर्तृत्वं युक्तिविरुद्धम् । द्वितीये तु नेति व्यक्तमिति भावः । सूत्रान्तरसूचिता तूहनीयेति भावः ।
प्रागुक्तसृष्टित्वादिहेतूनामनीशकर्तृकसृष्टित्वमुपाधिमाशङ्क्य ‘‘युक्ते’’रिति सूत्रांशव्यावर्त्यं समाधिमाह ।। यदि चेति ।। नापेक्षेतेति ।। तथा च बाधकतर्कसध्रीचीनतया ‘‘अनुकूलेन तर्केणे’’ति न्यायात्पक्ष एव उपाधेस्साध्यव्यापकताभङ्ग इति भावः । ननु युक्तिः श्रुतिबाधितेत्यतस्तां सावकाशयति ।। किं स्विदिति ।। ‘‘किं स्विदासीदधिष्ठानमारम्भणं कतमत्स्वित्कथासीत् । यतो भूमिं जनयन्विश्वकर्मा विद्यामौर्णोन्महिना विश्वचक्षाः’’ । इत्यष्टमाष्टकस्थश्रुतौ किंशब्दस्य प्रश्नाक्षेपसाधारण्येपि ‘‘किंस्विद्धिमस्य भेषज’’मित्यस्य ‘‘अग्निर्हिमस्ये’’ति परिहारानुरोधात्प्रश्नार्थत्वमिवात्रापि तथात्वं युक्तम् । न चाध्याहारो निर्बीजः । ‘‘अद्भ्यः सम्भूतः पृथिव्यै रसाच्च विश्वकर्मणस्समवर्तताधि । तस्य त्वष्टा विदधद्रूपमेति तत्पुरुषस्य विश्वमाजानमग्रे’’ । इति तैत्तिरीयश्रुतौ तत्पुरुषाख्यो हिरण्यगर्भो विश्वकर्मणो हरेस्सकाशादबाद्युपलक्षितभूतै रसोपलक्षिततन्मात्राभिश्चोत्पन्न इत्युक्तया स्वतन्त्राबादिसाधनप्रतीतेरित्यर्थः । आक्षेपार्थत्वमुपेत्याप्याह ।। अस्मदिति ।। श्रौताधिष्ठानादिशब्दस्तद्विशेषपर इत्यर्थः । भाष्ये स्वतन्त्रसाधनपरतयोदाहृतां श्रुतिमाक्षिप्य सुधोक्तमेव समाधिमाह ।। यद्यपीति ।। एतेन ‘‘सत्त्वाच्चावरस्ये’’ति सूत्रव्यावर्त्योक्तिपरा ‘‘नन्वद्भ्य’’ इत्यादिटीका विवृता । गौरवतर्कपराहतत्वाच्चोपाधेस्साध्यव्यापकत्वं नेत्याह ।। लोक इति ।। यद्वा ‘‘यदि चे’’त्यादिना हेतूनामप्रयोजकत्वशङ्का निराकृता । ‘‘लोक’’ इत्यादिना सोपाधिकत्वमाशङ्क्य निरस्यत इति ज्ञेयम् ।। सर्वस्येति ।।
द्रव्यं कर्मच कालश्च स्वभावश्चेतना धृतिः ।
यत्प्रसादादिमे संति न सन्ति यदुपेक्षया ।।
इत्यादिश्रुतिरित्यर्थः । ननु भवेदनादित्वे तदनधीनता । साधनादिकमपि तेनैव सृष्टमस्त्वित्यत आह ।। अन्यथेति ।।
चन्द्रिकाविवृतिः
ॐ तदनन्यत्वमारम्भणशब्दादिभ्यः ॐ ।। तत्सापेक्षा कर्त्रन्यस्वतन्त्रकारणसापेक्षा प्रयोगभेद-मात्रादिति ।। प्रमेयभेदस्तु नास्त्येव पूर्वोक्तानुमानानां कर्त्रन्यस्वतन्त्रकारणाख्यैकप्रमेयविषयकत्वात् । पक्षादिभेदमात्रमप्रयोजकम् । प्रयोगभेदमात्रेण युक्तिबहुत्त्वाङ्गीकारे मृन्न वक्त्री जडत्वात्, वक्तृत्वाभावो मृन्निष्ठश्चेतनासाधारणधर्माभावत्त्वात्, वक्तृत्वं मृन्निष्टाभावप्रतियोगि चेतनासाधारणधर्मत्वादिति पूर्वाधिकरणेष्वपि बहुयुक्तिविरोधस्य प्रतिपादयितुं शक्यत्वेनायमेतदधिकरणोपाधिरेव न भवेत् । अत एवोक्तं उत्तरत्र नातिप्रसङ्गः इति ।। किन्तु महदादिसृष्टिरिति ।। अत्राद्येऽनुमाने कर्त्रनधीनसत्ताकाधिष्ठानं प्रमेयं, द्वितीये कर्त्रनधीनशक्तिकाधिष्ठानम् ।। तृतीयेऽपि तदनधीनसत्ताकं कारणं तदनधीनशक्तिकं करणं चेति प्रमेयभेदः । एवं स्थितिं विनाशं च पक्षीकृत्य कर्त्रन्यस्वतन्त्रसाधनम•मिति भावः ।। ननु सुधायां महदादिसृष्टिरपि स्वतन्त्रसाधनसापेक्षा महदादिकं वा कर्तृव्यतिरिक्तस्वतन्त्रकारणायोत्पत्तिकं वा स्वतन्त्र ईश्वरो वा स्वतन्त्रकारणान्तरसंव्यपेक्ष इति एकस्मिन्नेव प्रमेये प्रयोगभेदमात्रेण बहुत्त्वमुक्तम् । चन्द्रिकाकारैस्तु इदानीमेव तद्दूषितमिति चेत् । अत्र वदन्ति स्वामिनः । सुधायामप्येकस्मिन् प्रयोगे अनेकप्रयोगा अभिप्रेताः । विमता सृष्टिः स्वतन्त्रकारणसापेक्षा इत्यस्यायमर्थः । विमता सृष्टिः कर्त्रनधीनसत्ताकाधिष्ठानसापेक्षा, तदनधीनशक्तिकाधिष्टानसापेक्षा, तदनधीनसत्ताककरणसापेक्षा, महदादिकं वा कर्तृव्यतिरिक्तेत्याद्यनुमानत्रयेऽप्येवमेवोहनीयम् ।। एवं चातिबहुत्त्वं तत्राभिप्रेतम् ।। अत एवानुमानप्रयोगात् पूर्वं दृष्टान्तवाक्यं सुधायां कर्त्रनधीनसत्ताकशक्तयादिमत्कारणान्तरसंव्यपेक्षा खाु घटादिसृष्टिर्दृष्टेति । तदुपेत्येत्यनेनोपजीव्योपजीवकभावसङ्गतिरिति सूचयति ।। कर्तृत्वप्रयुक्तेति ।। कर्त्रृमात्रप्रयुक्ता वाऽशक्तिमत्कर्तृत्वप्रयुक्ता वेत्यर्थः ।। अस्मदादेरिवेति ।। अस्मदादीनां सर्गानन्तरभावि-दण्डादिकारणापेक्षा ईश्वरे तु सा नास्तीति भावः ।।