अत्रानंशस्यापीशस्यैकदेशेन..
श्रुते: शब्दमूलत्वाधिकरणम्
तात्पर्यचन्द्रिका
अचिन्त्यशक्त्या विष्णो: दुर्घटघटनापि युज्यते इति सिद्धान्तनिरूपणम्
ॐ श्रुतेस्तु शब्दमूलत्वात् ॐ ।।
अत्रानंशस्यापीशस्यैकदेशेन व्यापारेऽणीयस्त्वादियुक्तस्य च महीयस्त्वादौ व्याघात इति व्याघात पर्यवसायिप्रबलयुक्तयविरोध उच्यते । पूर्वोक्तस्य जीवकर्तृत्वे कृत्स्नप्रसक्तयादिदोषस्य ब्रह्मण्युद्धारात्सङ्गतिः । अत्र पूर्वोक्तं विष्णोः सर्वकर्तृत्वं न युक्तमुत युक्तमिति चिन्ता । तदर्थं तस्य कर्तृत्वे कृत्स्नप्रसक्तयादिदोषोऽस्त्युत नेति । तदर्थमन्यत्र युक्तिविरुद्धं ब्रह्मण्यपि तद्विरुद्धं न वेति । तदर्थं ब्रह्मणि तद्विरोधः किं तस्य तर्कागोचरत्वाघटितघटनाशक्तिभ्यां सुपरिहर उत नेति । तदर्थं ताभ्यां तत्परिहारे किमतिप्रसङ्ग उत नेति । तदर्थं सोपि किमप्रमितेपि किं वा प्रमित एवेति पूर्वपक्षमाह ।। न युक्तमिति ।। अयं भावः ।। ईश्वरस्याल्पकार्येपि सर्वशक्तया प्रवृत्तौ प्रेक्षावत्त्वं न स्यात् । एकदेशेन प्रवृत्तिस्तु विरुद्धा । भिन्नांशाभावात् । नापि विशेषबलादविरोधः । जीवेऽपीश्वरमनपेक्ष्य विशेषबलादेवाविरोधापातात् । ईश्वर ईश इति पर्यायशब्दवाच्ये निर्विशेषाभिन्ने विशेषाभावेन तत्राणुत्वमहत्त्वादेर्विरोधापाताच्च । प्रमितत्वादविरोध इति तु जीवेपि समम् । प्रमाणस्य ज्ञापकत्वेनाविरोधाकारकत्वाच्च । न चाल्पकार्ये नांशस्य प्रवृत्तिः । नापि गुरुकार्ये कृत्स्नस्य । किं तु प्रयत्नतारतम्यमात्रमिति वाच्यम् । जीवेपि साम्यात् । यदि चास्माकं तृणादान एकदेशस्य गुरुतरभारादाने च कृत्स्नस्य प्रवृत्तिरनुभवसिद्धा तर्हीशेपि सा जीवान्तर इवानुमानसिद्धा । ईश्वरस्यातर्क्यत्वान्न तत्र तर्कप्रसर इति चेन्न । शास्त्रयोनौ ब्रह्मण्यसाधकस्यापि तर्कस्य बाधकत्वात् । अन्यथा मीमांसावैयर्थ्यम् । यदि चेश्वरस्याचिन्त्यशक्तित्वादविरोधस्तर्हीश्वर उपादानं (अप्राकृतविग्रहं) ज्ञानेच्छादिकं च विनैव सृजेत् । स्वयमेव वोपादानं स्यात् । शून्यं च सत्कुर्यात् । मुक्तांश्च बध्नीयादिति बहुविप्लवः स्यादिति ।
प्रकाशिका
‘‘जीवकर्तृत्वपक्षोक्तदोषस्यात्रापि सम्भवा’’दित्यादिटीकासूचितमेतदुपाधिं पूर्वोत्तरापौनरुक्तयायाह ।। अनंशस्यापीति ।। एकदेशस्यैव महीयस्त्वात्तद्य्वाहन्येत । साकल्येन प्रवृत्तौ च ब्रह्माण्डपिपीलिकाण्डप्रवृत्तावेकप्रकारेण प्रवृत्तौ प्रेक्षावत्त्वं व्याहन्येतेति भावः । सङ्गतिः आपवादिकी । विषयसंशयटीकां व्यनक्ति ।। अत्रेति ।। ‘‘श्रुतेस्त्वि’’ति सूत्रांशसूचितां चिन्तामाह ।। तदर्थमन्यत्रेति ।। ‘‘शब्दमूलत्वात् । आत्मनि चैवं विचित्राश्च ही’’त्येतत्सूचितामाह ।। तदर्थं ब्रह्मणीति ।। अतिप्रसङ्ग इति ।। उपादानादिना विना सृजेदित्यादिरित्यर्थः । व्यक्तः फलफलिभावः । ननु जीव इव कृत्स्नप्रसक्तावनुभवविरोधाभावाद्विशेषबलादिना परिहारसम्भवाच्छास्त्रयोनिसूत्रे तर्कागोचरत्वस्य स्थितत्वाच्च कथं जीवपक्षोक्तदोषप्राप्त्या पूर्वपक्षोदय इत्यत आह ।। अयं भाव इति ।। ईश्वर इति ।। ईशशब्दापेक्षयेश्वरशब्दस्य ‘‘स्थेशभासपि सकसोवर’’जिति वरच्प्रत्ययान्तत्वेन वा ‘‘ईशेभ्यो वर’’ इति चतुर्थगीताभाष्योक्तदिशा वाऽतिशयार्थत्वात्तादृशोऽपि चेदीशशब्दपर्यायो हरौ तदा निर्विशेषाभिन्नत्वमेव प्राप्नोति ।। विशेषसत्त्वे त्वपर्यायत्वस्यैव प्राप्त्या पर्यायता न स्यादिति भावः ।। बाधकत्वादिति ।। प्राक् साधकत्वमेव निरस्तमिति भावः । ‘‘शब्दमूलत्वा’’दित्येतद्य्वावर्त्यं प्रपंच्य ‘‘आत्मनिचैव’’मित्येतद्य्वावर्त्यमाह ।। यदि चेश्वरस्येति ।। एतेन चिन्तास्थपूर्वपक्षकोटीनां हेतुहेतुमद्भावोपि व्यक्तीकृतोऽतिप्रसङ्गश्च विवृतः ।
चन्द्रिकाविवृतिः
।। ॐ श्रुतेस्तु शब्दमूलत्वात् ॐ ।। अनंशस्येति ।। भिन्नांशरहितानंशिन इत्यर्थः ।। एकदेशेन अभिन्नांशेन ।। अंशोऽणुपरिमाणः । अंशी तु महान् । तथा चाणुत्वमहत्त्वविषये व्याघात इत्यभिप्रेत्याह ।। अणीयस्त्वादियुक्तस्येति ।। ब्रह्मण्युद्धारादिति ।। तथा च पूर्वाधिकरणसिद्धान्तन्यायेन पूर्वपक्षोत्थानात्सङ्गतिरिति भावः ।। ताभ्यां तर्कागोचरत्वाघटितघटनाशक्तिभ्याम् ।। अतिप्रसङ्ग इति ।। तर्कागोचरत्वांशे मीमांसावैय्यर्थ्याख्यातिप्रसङ्गः ।। अघटितघटनाशक्तिमत्वांशे उपादानज्ञानादिकं विनैव सृजेदित्याद्यतिप्रसङ्गो भवति न वेतीत्यर्थः ।। ननु कृत्स्नैकदेशे प्रयुक्ताणुत्वमहत्त्वे न ईश्वरे विरुद्धे प्रमितत्वादित्यत आह ।। प्रमितत्वादविरोध इति त्विति ।। सुधास्थं दूषणं दर्शयति ।। प्रमाणस्य ज्ञापकत्वेनेति ।। किं तु प्रयत्नतारतम्येति ।। अनेन एतेन कार्यानुसारेण प्रवृत्तमिति निरस्तमिति टीकावाक्यार्थ उक्तो भवति (कार्यानुसारेण प्रवृत्तिरिति ।। कार्यानुसारिप्रयत्नतारतम्यमित्यर्थः ।)