पूर्वत्र हेतुमुखयुक्तिविरोधोऽपास्तोऽत्रतु..
न प्रयोजनाधिकरणम्
तात्पर्यचन्द्रिका
ईश्वरस्य स्वभावत: प्रवृत्तेर्न प्रयोजनापेक्षा इति सिद्धान्तनिरूपणम्
ॐ न प्रयोजनवत्त्वात् ॐ ।।
पूर्वत्र हेतुमुखयुक्तिविरोधोऽपास्तोऽत्रतु फलमुखदृष्टयुक्तिविरोधोऽपास्यत इति सङ्गतिरधिकरणोपाधिरगतार्थताच । अत्र पूर्वोक्तं विष्णोः स्रष्टृत्वादिकं न युक्तमुत युक्तमिति चिन्ता । तदर्थं स्रष्टृत्वे सृष्ट्यादिसाध्यस्य फलस्य पूर्वमभावादपूर्णत्वमापतत्युत नेति । तदर्थं किं सृष्ट्यादिकं फलार्थमुत लीलारूपमिति । तदर्थं प्रेक्षावत्प्रवृत्तिः प्रयोजनोद्देशेनैवोत तदनुद्देशेनापीति । तदर्थमुद्रिक्तानन्दस्य पुंसो हासगाननृत्तादौ प्रवृत्तिर्दयालोश्च परार्था प्रवृत्तिः किं स्वप्रयोजनोद्देशेनैवोत तदनुद्देशेनापि सुखोद्रेकादिसामग्रीत इति । पूर्वपक्षमाह ।। सयुक्तिकमित्यादिना ।। अयं भावः । न तावदीश्वरस्य प्रयोजनमुद्दिश्य प्रवृत्तिः । अपूर्णत्वापातात् । न च प्रयोजनानुद्देशेऽप्यग्नेरूर्ध्वज्वलनादाविव स्वभावादेव प्रवृत्तिः। चेतनत्वात् । न च चेतनत्वे पि मत्तस्य नृत्तगानादाविव निष्फलैव प्रवृत्तिः । प्रेक्षावत्तत्वात् । नापि प्रेक्षावत्त्वेऽपि दयया प्रवृत्तिः । दयासाध्यफलाभावात् । आप्तकामत्वात् । तदनुद्देशे च प्रेक्षावत्त्वं न स्यादित्युभयथापि न निर्दोषं ब्रह्मेति ।
प्रकाशिका
ॐ न प्रयोजनवत्त्वात् ॐ ।। ‘‘यत्प्रयोजनार्थं सृष्ट्यादी’’त्यादिभाष्यटीकासूचितसङ्गत्यादिकमाह ।। पूर्वत्रेति ।। हेतुः कारणं मुखं द्वारं यस्या युक्तेरिति सा तथा । ब्रह्मैकदेशेन हेतुरुत कार्त्स्न्येनेत्येवंरूपयुक्तिः पूर्वत्र । अत्र तु सृष्टेः फलमस्त्युत नास्तीत्येवंरूपेत्यर्थः । द्वितीयसूत्रसूचितामाह ।। किं सृष्ट्यादिकमिति ।। ननु प्रयोजनानुद्देशेनापि जायमानायाः प्रवृत्तेर्लोके दर्शनात् ‘‘प्रयोजनानुद्देशेन प्रवृत्तिरेव न दृष्टे’’ति टीका कथमित्यतः सुधोक्तमाह ।। अयं भाव इति ।।
चन्द्रिकाविवृतिः
।। ॐ न प्रयोजनवत्वात् ॐ ।। ननु फामुखयुक्तिविरोधोऽपि पूर्वाधिकरणन्यायेनैव परिहर्तुं शक्यत इत्यत आह ।। फामुखदृष्टेति ।। सुधानुसारेण पूर्वपक्षाभिप्रायमाह ।। अयं भाव इति ।। तदनुद्देशे चेति ।। दयालुस्थलेऽपि दयासाध्यप्रयोजनसत्त्वेऽपि तदनुद्देशेऽपीत्यर्थः ।