उपक्रमादि तु न तात्पर्यनिश्चायकम्

पूर्वपक्षिणा उपक्रमादीनां तात्पर्यनिर्णायकत्वनिरूपणम्

तात्पर्यचन्द्रिका

उपक्रमादि तु न तात्पर्यनिश्चायकम् । अश्वप्रतिग्रहेष्टिरुपक्रमाद्दातुरुपसंहारात् प्रतिग्रहीतुरिति प्रसङ्गात् । परस्परविरोधे मानान्तरविरोधं विनैकेनान्यस्य बाधस्त्व-युक्तः । द्वयोरपि शास्त्रैकदेशत्वेन तुल्यत्वात् । न चानुपसञ्जातविरोधित्वेन पूर्वस्योप-क्रमस्य बलीयस्त्वेनोपसंहारस्यास्वारस्यम् । अपच्छेदादौ परबलीयस्त्वस्यापि स्वीकारात् । न चोपसंहारस्य व्याख्यानरूपतया बलीयस्त्वेनेतरास्वारस्यम् । वेदोप-क्रमाद्यधिकरणेषूपक्रमबलीयस्त्वस्याप्युक्तेः । पौरुषेयवाक्ये तु विवक्षानुसारेणा-न्यन्नेयम् । अभ्यासोऽपि न तात्पर्यधीहेतुः । असकृदुक्तेर्वैयर्थ्यात् । अन्यथा ‘‘समिधो यजति’’ इत्यादावभ्यासात्कर्मभेदो न स्यात् । पौनरुक्त्यं च न क्वापि दोषः स्यात् । मानान्तराग्राह्यार्थत्वरूपाऽपूर्वतापि न तात्पर्यधीहेतुः । श्रुतिमूलस्मृत्या सर्वज्ञत्वादि-साधकसर्वकर्तृत्वाद्यनुमानेन जगत्सत्यत्वजीवेशभेदादिग्राहिप्रत्यक्षेण च गृहीतार्थायाः श्रुतेरतात्पर्यप्रसङ्गात् । फलमपि न तात्पर्यधीहेतुः । अश्रुतफलानां नित्यादि-वाक्यानामतात्पर्यापातात् । अफले श्रुतितात्पर्यानुपपत्त्या च फलकल्पनेऽन्योन्या-श्रयात् । एवमर्थवादोऽपि । लोके वेदे चार्थवादहीनानामपि तात्पर्यदृष्टेः । उपपत्तिरपि श्रुत्युक्ता वाऽनुक्ता वा । न द्वयमपि । सापेक्षत्वेनानपेक्षत्वरूपप्रामाण्यहानेः । अत एव ‘‘तेन ह्यन्नं क्रियते’’ इत्यादिहेतुवन्निगदार्थवादस्य हेतुसमर्पकत्वेऽप्रामाण्य-प्रसङ्गात्तत्त्यागः । तस्मान्नोपक्रमादिना तात्पर्यनिश्चयः । किन्तु सर्वज्ञप्रणीतागमादेव ।

प्रकाशिका

एवं सौत्रान्वयपदव्यावर्त्ययोर्व्याख्यानप्रतीतिमूलयोर्मध्ये व्याख्यानमूलं पूर्वपक्षं प्रपञ्च्य प्रतीतिमूलमग्रे प्रपञ्चयिष्यन्संशब्दव्यावर्त्यम् ‘‘उपक्रमादीनामपि क्वचि-त्तात्पर्यव्यभिचारदर्शनात्कथं लिङ्गत्वम्’’ इति संक्षिप्य सुधोक्तं प्रपञ्चयति ।। उपक्रमादि त्विति ।। येन विष्णोरेव तन्निश्चयापत्तिरिति भावः । तदेव प्रपञ्चयति ।। अश्वेति ।। ‘‘प्रजापतिर्वरुणायाश्वमनयत् स स्वां देवतामार्च्छत् स पर्यदीर्यत स एतं वारुणं चतुष्कपालमपश्यत् तन्निरवपत् ततो वै स वरुणपाशादमुच्यत’’ इत्युपक्रमे ‘‘प्रजापति-र्वरुणाय’’ इति दातृत्वेनोक्तः प्रजापतिः स्वां देवतां वरुणग्रहरूपामार्च्छत् । प्रजापतिरश्वं दत्वा जलोदरव्याधिमाप्नोदित्यर्थः । ‘‘स प्रजापतिः पर्यदीर्यत’ इत्यादिना दातुरिष्टिः प्रतीयते । ‘‘यावतोऽश्वान्प्रतिगृह्णीयात्तावतो वारुणांश्चतुष्कपालान्निर्वपेत्’’ इत्युपसंहारे स्पष्टं प्रतिग्रहीतुरिष्टिरिति प्रतीयत इत्यर्थः ।

नन्वन्योन्यविरोधे एकेनान्यबाधोऽस्त्वित्यत आह ।। परस्परेति ।। तुल्यबलयो-र्बाध्यबाधकभावायोगादिति भावः । उपक्रमस्य प्राबल्यमाशङ्क्य निराह ।। न चेति ।। तदोपसंहारकृतविरोधानुपस्थितेरिति भावः । अधिकरणशरीरमग्रे वक्ष्यामः । अपच्छेदा-दाविति ।। षष्ठे ‘‘पौर्वापर्ये पूर्वदौर्बल्यं प्रकृतिवत्’’ इति पञ्चमपादीयाष्टादशाधिकरणे चिन्तितम् । ज्योतिष्टोमे ‘‘यदि प्रतिहर्ताऽपच्छिन्द्यात्सर्ववेदसं दद्यात् । यद्युद्गाताऽ-पच्छिन्द्याददक्षिणं तं यज्ञमिष्ट्वा तेन पुनर्यजेत तत्र तद्दद्याद्यत्पूर्वस्मिन्दास्यन्स्यात्’’ इत्यप-च्छेदद्वये प्रायश्चित्तद्वयं श्रुतम् । अस्यायमर्थः । प्रातः सवने बहिष्पवमानेन स्तोष्यमाणा ऋत्विजः शालाया बहिः प्रसर्पन्ति । तदैकस्य पृष्ठतोऽन्य इत्येवं पिपीलिकापङ्क्त्याकारेण गन्तव्यम् ।

तत्र पुरोगन्तुः कच्छं गृहीत्वैव पृष्ठतोऽन्यो गच्छेत् । एवं सति यदि दैवात्प्रतिहर्ता स्वगृहीतं कच्छं मुञ्चेत्तदा तस्मिन्नेव प्रयोगे सर्वस्वं दद्यात् । यद्युद्गाता मुुञ्चेत्तदा दक्षिणामदत्वा प्रक्रान्तयज्ञं समाप्य पुनस्तेन यक्ष्यन्पूर्वं यदीरितं द्रव्यं तद्दद्यादिति । तत्रानु-पूर्व्येण द्वयोरपच्छेदे किं पूर्वोत्पन्ननिमित्तं प्रायश्चित्तं कार्यमुत विकल्पोऽथोत्तरनिमित्तमिति संशये पूर्वनिमित्तमसञ्जातविरोधिनिर्विघ्नमवगम्यत इति तद्बलीयस्त्वं विकल्पो वा । द्वयोरपि प्रामाण्यादिति प्राप्ते नात्र पूर्वेणोत्तरस्य ज्ञानस्योत्पत्तिः शक्यते विरोद्धुम् । प्रत्यक्षवाक्येन तदुत्पद्यत एव । तच्च जायमानं स्वविरुद्धं पूर्वज्ञानं बाधमानमेवोत्पद्यते । तेनैवोत्पन्नमपि पूर्वज्ञानं मिथ्या भवति । बाधितत्वात् । अतः परप्राबल्यादुत्तरनिमित्तमेव प्रायश्चित्तं कार्यमिति सिद्धान्त इति । आदिपदेन ‘‘सन्दिग्धे तु वाक्यशेषात्’’ इत्यादिग्रहः ।

वेदोपक्रमेति ।। तृतीये ‘‘श्रुतेर्जाताधिकारः स्यात्’’ इति तृतीयपादीयाद्याधिकरणे ‘‘प्रजापतिरकामयत प्रजाः सृजेयेति । स तपोऽतप्यत । तस्मात्तेपानात्त्रयो देवा असृज्यन्त । अग्निर्वायुरादित्यस्ते तपोऽतप्यन्त । तेभ्यस्तेपानेभ्यस्त्रयो वेदा असृज्यन्त । अग्नेर्ऋग्वेदो वायोर्यजुर्वेद आदित्यात्सामवेदः’’ इत्युपक्रम्य ज्योतिष्टोमप्रकरणे श्रुतं ‘‘उच्चैर्ऋचा क्रियते उच्चैः साम्ना उपांशु यजुषा’’ इति वाक्यमुदाहृत्य किमुच्चैष्ट्वादयो मन्त्रधर्माः किं वा वेदधर्मा इति संशये विधिवाक्ये मन्त्रवाचिनामृगादिशब्दानां प्रयोगा-न्मन्त्रधर्मा उच्चैष्ट्वादयः । तथा च यजुर्वेदोत्पन्ना अध्वर्युणा प्रयुज्यमाना अप्यृच उच्चैरेवो-च्चरितव्या इति प्राप्ते असञ्जातविरोधित्वेन प्रबलमुपक्रममनुसृत्य तद्वशेनोपसंहारस्य नेतव्यत्वादुपक्रमगतवेदपदानुसारेण विध्युद्देशगतानामप्यृगादिशब्दानां वेदपरत्वे सति ऋचोऽपि यजुर्वेदोत्पन्ना उपांशु पठनीया इति सिद्धान्तितम् ।

नन्वेवं शैवादिभिरपि तात्पर्यनिश्चयो न स्यात् । अनिश्चिततात्पर्याणां तेषां वेदतात्पर्यानिश्चायकत्वात् । तत्तात्पर्यनिश्चयस्य च शैवादिभिरेव जनने आत्माश्रया-पत्त्योपक्रमादेरेव तत्रानुसर्तव्यत्वात् । तेषां चोक्तदिशा बलाबलव्यवस्थाऽयोगादित्यत आह ।। पौरुषेयेति ।। वेदे च वक्तुरभावादिति भावः ।। समिधो यजतीति ।। द्वितीयस्य द्वितीये पादे ‘‘एकस्यैव पुनः श्रुतिरविशेषादनर्थकं हि स्यात्’’ इति द्वितीयेऽधिकरणे ‘‘समिधो यजति तनूनपातं यजति’’ इत्यादि पञ्चकृत्वोऽभ्यस्तं यजतिपदं धात्वर्था-वच्छिन्नामेकां भावनां वक्त्युत प्रत्यभ्यासं भावनाभेदमिति संशये प्रकृतिप्रत्यययोः पुनः पुनः श्रवणात्सन्निधिकृतप्रत्यभिज्ञावशाच्छब्दाभेदेऽर्थभेदस्यालीकत्वात्स एव यागः सैव च भावनैकैवेति प्राप्ते अप्रवृत्तप्रवर्तनात्मकविधिविरोधापत्त्या पुनः श्रवणरूपाभ्यासाद्याग-भावनयोर्भेद इति सिद्धान्तितम् । अभ्यासस्य तात्पर्यधीहेतुत्वे यागभावनारूपकर्मभेदो न स्यादित्यर्थः ।

पौनरुक्त्यं चेति ।। अन्यथेत्यनुकर्षः । वक्ष्यमाणदूषणसौकर्यायापूर्वतास्वरूपं विवृण्वं-स्तदहेतुत्वमाह ।। मानान्तरेति ।। बहुव्रीहिः । स्मृतिगृहीतार्थाया धर्माधर्मादिबोधकश्रुतेः अनुमानगृहीतार्थायाः सार्वज्ञश्रुतेः, प्रत्यक्षगृहीतार्थाया विश्वसत्यत्वादिश्रुतेरित्यर्थः । स्वार्थ इति शेषः । फलवत्त्वरूपफलस्यापि तन्नेत्याह ।। फलमपीति ।। १नित्यनैमित्तिक-कर्मबोधकानामित्यर्थः । अफले फलरहिते कर्मणीत्यर्थः । सिद्धे तात्पर्ये तद्बलात्स्वर्गादि-रूपफलकल्पना, फलवत्त्वेन च तात्पर्यकल्पनेत्यन्योन्याश्रयादित्यर्थः ।। एवमिति ।। न तात्पर्यधीहेतुरित्यनुकर्षः ।। दृष्टेरिति ।। तथा च व्यभिचारान्न हेतुरित्यर्थः ।। सापेक्ष-त्वेनेति ।। श्रुतेर्युक्तिसापेक्षत्वेनेत्यर्थः ।। अनपेक्षत्वरूपेति ।। उक्तं च तर्कपादे जैमिन्याचार्यैः ‘‘औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धस्तस्य ज्ञानमुपदेशोऽव्यतिरेक-श्चार्थेऽनुपलब्धे तत्प्रमाणं बादरायणस्यानपेक्षत्वात्’’ इतीति भावः ।।

अत एवेति ।। आद्ये ‘‘हेतुर्वा स्यादर्थवत्त्वोपपत्तिभ्याम्’’ इति द्वितीयपादे तृतीयेऽधिकरणे ‘‘शूर्पेण जुहोति तेन ह्यन्नं क्रियते’’ इत्युदाहृत्य शूर्पेण होमे कर्तव्येऽन्नकरणत्वं हेतुरुतार्थवाद इति संशये लक्षणया हि प्राशस्त्यपरत्वमतोऽन्नकरणत्वं हेतुरिति प्राप्ते वेदेनोच्यमानस्य शूर्पहोमसाधनत्वस्य हेतुसापेक्षत्वे वेदस्याप्रामाण्यापत्तेः प्ररोचनार्थमर्थवादस्यापेक्षितत्वात् ‘‘तेन ह्यन्नं क्रियते’’ इत्ययमर्थवाद इति सिद्धान्तितम् ।। अप्रामाण्येति ।। तेन हीति वाक्यसमर्पितहेतुसापेक्षत्वेन शूर्पेणेति विध्युद्देशस्याप्रामाण्य-प्रसङ्गात् तस्य हेतुसमर्पकत्वत्याग इति वा, तेन हीत्यस्यैव हेतुत्वोपपादकव्याप्त्यादि-बोधकमानान्तरसापेक्षत्वापातेन वा तत्त्याग इत्यर्थः । एवं समन्वयपदाभ्यां व्यावर्त्यं न्यायविवरणोक्तं पूर्वपक्षमुपसंहरति ।। तस्मादिति ।। बलाबलानिरूपणाद्व्यभिचारात् श्रुत्यप्रामाण्यापाताच्चेत्यर्थः ।

चन्द्रिकाबिन्दु

ननु लोके उपक्रमादिना निर्णयो दृश्यत इत्यत आह । पौरुषेयेति ।। वेदस्यापौरुषेयत्त्वादिति भावः । अन्यथेति ।। तात्पर्यनिश्चयलक्षणप्रयोजनवत्त्वेऽन्यथा-सिद्धत्त्वात् वेदादौ प्रामाण्यं न स्यादिति भावः ।

पाण्डुरङ्गि

ननूपक्रमादेस्तात्पर्यनिश्चायकत्वेनोपक्रमादिना च तात्पर्यविचारे क्रियमाणे विष्णोरेव कारणत्वे सर्वशास्त्रतात्पर्यं प्रतिपाद्यत इति कथं रुद्रादेः कारणत्वे शास्त्रतात्पर्यमित्यतः, स्यादेतदेवं यद्युपक्रमादेर्निर्णायकत्वं स्यात्तदेव नास्तीत्याह ।। उपक्रमादीति ।। ननु तत्रैकेनापरबाधः किं न स्यादित्यत आह ।। परस्परेति ।। ननूपक्रमस्योपसंहारापेक्षया प्रबलत्वात्तेनोपसंहारबाधः किं न स्यादित्यत आह ।। द्वयो-रपीति ।। तथा च बाधकत्वप्रयोजकस्याधिकबलत्वस्याभावान्नैकेनापरबाध इति भावः । ननूपक्रम एवास्तूपसंहारबाधकः । अनुपसञ्जातविरोधित्वेन बलवत्तया बाधकत्वसम्भवा-दित्याशङ्क्य निषेधति ।। न चेति ।। इतरास्वारस्यमिति ।। उपक्रमास्वारस्यमित्यर्थः ।

नन्वनिश्चिततात्पर्यस्य शैवाद्यागमादेस्तात्पर्यानिश्चायकत्वेन तत्र तात्पर्यनिश्चय-स्यावश्यकत्वात् तस्य चोपक्रमादिभिर्विना प्रकारान्तरेणासम्भवात्तैरेव वक्तव्यत्वात् तत्रानु-पपत्तिपरिहारस्यापि यथाकथञ्चित्कर्तव्यत्वात्तैरेव तात्पर्यनिश्चयोऽस्तु । अन्यथा गौरवा-पत्तेरित्यत आह ।। पौरुषेयवाक्ये त्विति ।। विवक्षानुसारेणेति हेतुगर्भम् । तथा च पौरुषेयवाक्ये वक्तृविवक्षायाः सत्त्वादेकानुसारेणान्यन्नेतुं शक्यते । प्रकृते तु वेदस्या-पौरुषेयत्वेन वक्तृविवक्षाया असम्भवान्नैकानुसारेणापरं नेतुं शक्यमित्यर्थः ।

ननु मास्तूपक्रमोपसंहारयोस्तात्पर्यनिश्चायकत्वं तथाप्यभ्यासस्य तात्पर्यनिश्चायकत्वं स्यादित्यत आह ।। अभ्यासोऽपीति ।। अथवा अभ्यासलक्षणकथनबीजयुक्तिमाह ।। असकृदुक्तेरिति ।। वैयर्थ्यात् निष्प्रयोजनत्वादित्यर्थः । ननु निष्प्रयोजनत्वमसिद्धम् । तात्पर्यनिश्चयस्यैव प्रयोजनस्य सद्भावादित्यत आह ।। अन्यथेति ।। असकृदुक्तेस्तात्पर्य-निश्चायकत्वे समिधो यजतीत्यादावप्यसकृदुक्तेस्तात्पर्यनिश्चायकत्वापत्त्या वैयर्थ्याभावेन तदन्यथानुपपत्त्या कर्मभेदो न स्यादित्यर्थः ।। पौनरुक्त्यं चेति ।। तत्रापि तात्पर्य-निश्चायकत्वस्य वक्तुं शक्यत्वादित्यर्थः ।। मानान्तरेति ।। सर्वदाशब्दार्थकथनमेतत् । श्रुतेरतात्पर्येति ।। ‘‘यः सर्वज्ञः’’ इत्यादिश्रुतेः सार्वज्ञे, ‘‘विश्वं सत्यम्’’ इत्यादि-श्रुतेर्विश्वसत्यत्वे ‘‘द्वासुपर्णे’’त्यादेर्जीवभेदादौ तात्पर्यं न स्यादित्यर्थः । अस्तु तर्हि फलस्य तात्पर्यनिश्चायकत्वमत आह ।। फलमपीति ।। नित्यादिवाक्यानामिति ।। ‘‘अहरहः सन्ध्यामुपासीत’’ इत्यादीनामित्यर्थः । आदिपदेन नैमित्तिकवाक्यग्रहणम् । ननु नित्यादिवाक्येष्वपि श्रुतितात्पर्यान्यथानुपपत्त्या फलं कल्प्यत इत्यत आह ।। अफल इति ।। अन्योन्याश्रयादिति ।। फले सिद्धे तात्पर्यज्ञापकस्य विद्यमानत्वात् श्रुतितात्पर्य-सिद्धिः, श्रुतितात्पर्ये सिद्धे निष्फले तदसम्भवेन फलसिद्धिरित्यन्योन्याश्रयापातादित्यर्थः । तथाप्यर्थवाद एव तात्पर्यधीहेतुर्भविष्यतीत्यत आह ।। एवमिति ।। एवमित्यतिदिष्टं दूषणमाह ।। लोक इति ।। अत एवेति ।। श्रुत्युक्ताया अनुक्ताया वोपपत्तेस्तात्पर्य-निश्चायकत्वे तत्सापेक्षत्वेनानपेक्षत्वलक्षणप्रामाण्यहानेरेवेत्यर्थः ।