केचित्तु

विशिष्टाद्वैतमतपरीक्षा

तात्पर्यचन्द्रिका

केचित्तु अत्तेत्यादि चतुःसूत्र्येकमधिकरणम् । एकप्रकरणस्थवाक्यविशेष विषयाणां पादान्तराधिकरणान्तराव्यवहितानामुपजीव्योपजीवकभावेन परस्परान्वितार्थानां सूत्राणां विषयवाक्यभेदे सत्यपि भिन्नाधिकरणत्वायोगात् । अत्र चात्तेत्यादिसूत्रद्वयविषयभूतं ‘‘यस्य ब्रह्मे’’त्यादिवाक्यं गुहामित्यादिसूत्रद्वयविषयभूतं ‘‘ऋतं पिबन्ता’’वित्यादिवाक्यं चैकप्रकरणस्थमुपजीव्योपजीवकभावेनान्वितार्थं च । तथा हि । ऋतमित्यादिवाक्यं यदि पूर्वपक्षरीत्या बुद्धिजीवविषयं स्यात्तदा ऋतमित्यादेर्ब्रह्माविषयतया ‘‘महान्तं विभुमात्मान’’मिति प्रस्तुतब्रह्मप्रकरणविच्छेदात् ऋतमित्यनेनाव्यवहितपूर्वं यस्येत्यादिवाक्यमपि व्यवहितेन महान्तमित्यादिनैकप्रकरणतां त्यक्त्वा ऋतमित्यादिनैकप्रकरणतामापन्नं सत् ऋतमित्यादिवत्कर्मफलभोक्तृत्वरूपपातृत्वप्रतिपादकतया जीवविषयं स्यात् । यदा तु ऋतमित्यादिकं सिद्धान्तरीत्या जीवब्रह्मविषयं तदा तस्य ब्रह्मविषयतया ब्रह्मप्रकरणाविच्छेदाद्यस्येत्यादिकमपि संहर्तृत्वरूपात्तृत्वप्रतिपादकतया ब्रह्मविषयं स्यादिति पूर्वसूत्रद्वयार्थं प्रत्युत्तरसूत्रद्वयार्थस्योपजीव्यत्वादित्याहुः । तन्न ।। अस्मन्मते पूर्वसूत्रद्वयस्य बृहदारण्यकगतवाक्यविषयत्वेनोत्तरद्वयस्य च काठकगतवाक्यविषयत्वेनैकप्रकरणस्थविषयत्वाभावात् । किञ्च ऋतमित्यादिकं महान्तमित्यस्य यस्येत्यस्य च मध्ये यदि स्यात्तदा–

विच्छिन्ना सामिधेनीनां निविद्भिः प्रक्रिया यतः ।

न तु काम्यैः पुनः कल्पैः सन्धातुं सा हि शक्यते ।।

इत्युक्तन्यायेन मध्यस्थनिविद्भिः सामिधेनीप्रकरणस्येव ऋतमित्यनेन ब्रह्माविषयेण ब्रह्मप्रकरणस्य विच्छेद इति शङ्का स्यात् । न त्वेतदस्ति । ऋतमित्यादेर्यस्येत्यस्मादपि परत्वात् । तथा च यस्येत्यस्य कथं ब्रह्मप्रकरणाद्विच्छेदाशङ्का । न च ‘‘नायमात्मा प्रवचनेन लभ्य’’ इति ब्रह्मपरपूर्ववाक्योक्तस्य दुरवबोधत्वरूपब्रह्मलिङ्गस्य ‘‘यस्ये’’ति वाक्ये ‘‘क इत्थावेदयत्र स’’ इति प्रत्यभिज्ञानात्तदेकप्रकरणतेति त्वद्रीत्या ‘‘प्रकरणा’’दिति सूत्रेणोक्तेऽपि तत्त्यागेन यस्येत्यस्यानन्तर्यरूपेण क्रमेण ऋतमिति वाक्येनैकवाक्यतेति शङ्कितुं शक्यम् । लिङ्गादानन्तर्यरूपक्रमदौर्बल्यस्य त्वन्मते एतच्छास्त्रपूर्वभागे पूर्वतन्त्र एव सिद्धत्वेन पुनरिह क्रमप्राबल्यशङ्कानुदयात् । सिद्धान्ते ऋतं पिबन्ताविति ब्रह्मप्रकरणे तच्छेषतया जीवोक्तिवत् ‘‘बुद्धिं तु सारथिं विद्धी’’ति बुद्ध्युक्तिवच्च पूर्वपक्षेऽपि ‘‘यस्य ब्रह्मे’’त्यादिब्रह्मप्रकरणे तच्छेषतया बुद्धिजीवोक्तिसम्भवाच्च ।

प्रकाशिका

।। केचित्त्विति ।। अत्रेदमधिकरणशरीरम् । यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनः । मृत्युर्यस्योपसेचनमित्यत्रौदनोपसेचनसूचितोऽत्ता जीवः परमात्मा वेति संशये अत्तृत्वस्य कर्मफलभोक्तृत्वरूपत्वात्तस्य च जीव एव सम्भवाज्जीव इति प्राप्ते अत्रात्तृत्वस्य ब्रह्मक्षत्रोपलक्षितचराचरग्रहणेन सर्वसंहर्तृत्वरूपत्वात्तस्य ब्रह्मण्येव सम्भवात् ‘‘महान्तं विभुमात्मानं मत्वा धीरो न शोचति । नायमात्मा प्रवचनेन लभ्य’’ इति पूर्वत्र ब्रह्मप्रकरणे श्रुतस्य प्रसादादृते दुरवबोधत्वरूपलिङ्गस्येह ‘‘क इत्थावेदे’’ति श्रवणेन प्रत्यभिज्ञायमानतया ब्रह्मप्रकरणत्वावगमाच्च परमात्मैवात्तात्रोच्यते । न च वाच्यमुत्तरत्र ऋतं पिबन्ताविति वाक्ये कर्मफलभोक्तृत्वश्रवणेन बुद्धिजीवपरत्वं वा प्राणजीवपरत्वं वाऽवश्यं वाच्यम् । ब्रह्मणः कर्मबन्धविधुरत्वात् । एवं च प्रकरणाल्लिङ्गस्य बलवत्त्वेन ऋतपानाख्यलिङ्गेन महान्तमिति ब्रह्मप्रकरणं विच्छिन्नम् । व्यवहितत्वात् । यस्य ब्रह्म चेति वाक्यं तु सन्निहितत्वान्न विच्छिन्नमिति प्रागुक्तोऽप्यत्ता न परमात्मेति । यतो गुहां प्रविष्टौ जीवात्मपरमात्मानावेव । अस्मिन्प्रकरणे ‘‘गुहानिहितं गह्वरेष्ठ’’मिति, परस्य ‘‘गुहां प्रविश्य तिष्ठन्त’’मिति जीवस्य गुहाप्रविष्टत्वदर्शनात् । अस्मिन्प्रकरणे ‘‘मत्वा धीरो न शोचति । आत्मानं रथिनं विद्धी’’त्यादिनोपास्यत्वोपासकत्वप्राप्यत्वप्राप्तृत्वविशेषणाच्च शेषभूतजीवद्वितीयश्छत्रिवत्परमात्मैवात्तेति सिद्धान्त इति । तदुक्तं–

अत्ता खल्वोदनादेर्भवभुगिति कठश्रुत्यधीतोऽप्यसौ स्यान्न ।

स्यान्मृत्यूपसिक्तस्थिरचरनिखिलग्रासतस्तल्लयोक्तेः ।।

जीवव्यावर्तनं च प्रकरणविदितं भोक्तृतोक्तिर्द्वयोस्तु ।

प्रेर्यत्वप्रेरकत्वप्रतिनियतरसाछत्रिनीत्याथवा स्यात् ।। इति ।

तदेतत्परमते विषयवाक्यानानुगुण्यादिनोक्तदूषणेन दूषितप्रायं मत्वा यदत्रैकाधिकरण्यसमर्थनं तदपि निराचिकीर्षुः श्रुतप्रकाशे दर्शितमैकाधिकरण्यसमर्थनमनुवदति ।। एकप्रकरणेति ।। भिन्नाधिकरणत्वायोगादित्यन्वयः । नन्वदृश्यत्वाधिकरणस्य द्युभ्वाद्यधिकरणस्य चाथर्वणिकैकप्रकरणगतवाक्यविशेषविषयस्य भिन्नत्वं दृष्टमित्यत उक्तं पादान्तरेति ।। तत्रोभाभ्यां व्यवधानाद्यस्मिन्द्यौरित्यस्य ब्रह्मपरत्वेऽप्यदृश्यत्वादियुक्तस्याक्षरस्य ब्रह्मप्रकरणेऽपि तच्छेषतया प्रधानाद्युक्त्युपपत्त्या ब्रह्मत्वासिद्धेरुपजीव्योपजीवकभावाभावाच्च । अत एव ‘‘तद्धेतुव्यपदेशाच्च । मान्त्रवर्णिकमेव चे’’त्यादिसूत्राणां पूर्वापरबहुवाक्यविषयत्वेऽप्यव्यवहितत्वात्परस्परोपजीव्योपजीवकभावेनान्वितार्थपरतया चैकाधिकरण्यम् । अन्यथा तत्रापि भेदस्स्यादिति भावः । उपजीव्योपजीवकभावं श्रुतप्रकाशोक्तमेव दर्शयति ।। तथा हीति ।। पूर्वपक्षरीत्येति ।। सा रीतिः प्राङ्मया दर्शिता ।। विच्छेदादिति ।। ऋतपानाख्यलिङ्गापेक्षया प्रकरणस्य दुर्बलत्वादिति भावः ।

ननु ऋतं पिबन्तावित्येतदब्रह्मविषयं सन्न महान्तमिति प्रकृतब्रह्मप्रकरणविच्छेदकम् । किन्तु यस्य ब्रह्म चेत्यनेनैव विच्छेदकरम् । यस्य ब्रह्मेत्येतत्तु वाक्यमनेनाब्रह्मविषयेण विच्छिन्नं सत् ‘‘महान्त’’मित्यादिब्रह्मपरवाक्यैः ‘‘क इत्थावेद’’इति लिङ्गकृतप्रत्यभिज्ञावशेनैकवाक्यतामापन्नं सद्ब्रह्मपरमेव स्यादित्यत आह ।। ऋतमित्यनेनेति ।। महान्तमित्यस्य व्यवहितत्वाद्यस्येत्यस्याव्यवहितत्वादित्यर्थः ।। ऋतमित्यादिनेति ।। अव्यवहितेनेत्यर्थः ।। सिद्धान्तरीत्येति ।। उक्ता रीतिः प्राक् ।। उपजीव्यत्वादिति ।। उत्तरवाक्यस्याब्रह्मपरत्वे ब्रह्मपरत्वे वा पूर्वस्यापि तथात्वादित्यर्थः ।। बृहदारण्यकगतेति ।। तस्यैव सूत्रानुगुणत्वेनोदाहरणतौचित्यान्नास्मन्मतेऽयं दोषः । किन्तु मायिनां मत एव । पादान्त्यप्राणनये सर्वत्रेति न ययोस्तादृशवाक्यविषयत्वेऽपि भिन्नपादस्थत्वादिति भावः । यदप्युपजीव्योपजीवकभावेनैकाधिकरण्यसमर्थनं तदप्ययुक्तमिति वक्तुं यत्तावदुक्तं ऋतमित्यादिकं यस्येत्यस्य महान्तमित्यादिब्रह्मप्रकरणविच्छेदकमिति तत्तावन्न युक्तम् । तस्य तन्मध्यपतितत्वाभावादित्याह ।। किञ्चेति ।। इत्युक्तेति ।। इति वार्तिकोक्तन्यायेनेत्यर्थः । तृतीयस्याद्यपादे ‘‘सन्दिग्धे तु व्यवायाद्वाक्यभेदस्स्या’’दिति दशमेऽधिकरणे दर्शपूर्णमासप्रकरणे ‘‘उपव्ययत’’ इति श्रुतमुपवीतं किं सामिधेन्यङ्गमुत दर्शपूर्णमासाङ्गमिति संशये पुरस्तादुपरिष्टाच्च सामिधेनीकीर्तनादवान्तरप्रकरणेन सामिधेन्यङ्गमिति प्राप्ते ‘‘देवेद्धोमन्विद्ध’’ इत्यादिभिर्निविद्भिर्व्यवधानात्सामिधेनीप्रकरणस्य विच्छेदान्न तदङ्गम् । न च ‘‘एकविंशतिमनुब्रूयात् प्रतिष्ठाकामस्ये’’त्यादि काम्यसामिधेनीनां प्रकरणानुवृत्तिश्शङ्क्या । तासां काम्यसामिधेनीनां स्वातन्त्र्येण प्रकृतत्वाभावात् । अतो महाप्रकरणेन दर्शपूर्णमासाङ्गमिति सिद्धान्तितम् । तत्र सिद्धान्तवार्तिकमेतत् । यतः यस्मात् । निविद्भिः निविन्नामकैर्देवेद्धोमन्विद्ध इत्यादिमन्त्रैः । विच्छिन्नं सामिधेनीनां अग्निसमिन्धनार्थतया सामिधेनीनामिकानामृचां प्रकरणं तस्मात्प्रकरणं काम्यैस्सामिधेनीकल्पैः सामिधेनीविकल्पैः न पुनस्सन्धातुं संयोजितुं शक्यमित्यर्थः । ननूक्तमत्र यस्येत्येतद्व्यवहितेन महान्तमित्यनेन विच्छिन्नं सन्निहितेन ऋतमित्यनेनैकवाक्यतामापद्यत इति । तन्न । प्रकरणात्सन्निधेर्दुबलत्वादिति भावेन तदाशङ्क्य निराह ।। न चेत्यादिना ।। ऋमेणेति ।। स्थानरूपप्रमाणेनेत्यर्थः ।। लिङ्गादिति ।। तृतीयस्य तृतीये ‘‘श्रुतिलिङ्गवाक्यप्रकरणस्थाने’’ति बलाबलप्रकरणे दशमेऽधिकरणे राजसूये पश्विष्टिसोमयागास्समप्रधानतया श्रुताः । तत्राभिषेचनीयस्य सोमयागस्य सन्निधौ विदेवनादयः केचन पदार्थाश्श्रुताः । ते किमभिषेचनीयस्याङ्गमुत सर्वस्य राजसूयस्येति संशये सन्निधिविशेषादभिषेचनीयमात्राङ्गमिति प्राप्ते प्रकरणाविशेषात्सर्वराजसूयाङ्गमिति सिद्धान्तितम् । तथा च विंशतिलक्षण्येकं शास्त्रमिति वदतस्तव मते तत्रैव प्रकरणात्पाठसन्निधिरूपस्य स्थानस्य दौर्बल्यं सिद्धमिति नात्र तत्प्राबल्यशङ्कोपपद्यत इत्यर्थः । एवं यस्येत्यस्य ऋतमित्यनेन नैकवाक्यता युक्तेत्युक्तम् । इदानीमस्त्वेकवाक्यत्वम् । एवमपि न ब्रह्मप्रकरणविच्छेदशङ्का युक्तेत्याह ।। सिद्धान्त इति ।। तच्छेषतयेति ।। ब्रह्मणः प्राधान्येन प्रतिपादनं जीवस्य ब्रह्मगुणभूततयेत्यर्थः । द्युभ्वादिनये त्वदुक्तरीत्यैवेति भावः । प्राधान्येनान्यप्रतिपादन एव प्रकरणविच्छेदः । एवं च प्रकरणविच्छेदाशङ्काया अयोगेन तत्समाधानार्थं गुहामित्यादिकमयुक्तमित्याशयः ।

चन्द्रिकाबिन्दुः

अदृश्यत्वद्युभ्वाद्यधिकरणव्यावृत्त्यर्थमाह ।। पादान्तराधिकरणान्तरेति ।। ऋतमिति वाक्यस्य ब्रह्मप्रकरणविच्छेदकत्वमेव नास्ति । महान्तं यस्येति वाक्ययोर्मध्यस्थत्वाभावादितीममर्थं प्रत्युदाहरणपूर्वकमुपपादयति ।। किञ्च ऋतमिति ।। मध्यस्थेति ।। तथा च उपव्यय इति विधीयमानं उपव्ययं न सामिधेनीमात्रार्थं किं तु दर्शपूर्णमासक्रियामात्राङ्गमिति स्फुटं शास्त्रदीपिकायाम् । यस्येति वाक्यस्य प्रकरणादिति सूत्रव्याख्यानसमये वाक्यान्तरस्य ब्रह्मलिङ्गप्रत्यभिज्ञानेन ब्रह्मपरत्वं निर्णीतमस्तीति त्वया व्याख्यातम् । तथा च लिङ्गेन ब्रह्मपरतया निर्णीतस्य यस्येति वाक्यस्य क्रमाख्यसन्निधानमात्रब्रह्मपरत्वशङ्कैवायुक्तेत्याह ।। नायमात्मेति ।। लिङ्गात्क्रमस्य प्राबल्यात् ज्ञाननिबन्धनी शक्तिरित्यत आह ।। लिङ्गादिति ।। यस्येति वाक्यस्य ब्रह्मपरत्वेऽपि एतमिति वाक्यस्य ब्रह्मपरत्वमेव । ब्रह्मप्रकरणेऽपि तच्छेषतया अब्रह्मोक्तिसम्भवादित्येतत् सदृष्टान्तमुपपादयति ।। सिद्धान्त इति ।। पूर्वपक्षी स्वदत्तविशेषणव्यावर्त्यमेतदिति स्वाभिप्रायमुद्घाटयति ।।

पाण्डुरङ्गि

अस्मन्मत इति वदता एकप्रकरणस्थमेव विषयवाक्यं वदतां परेषामर्थदोष इति ध्वनितम् । ननु यस्य ब्रह्म च क्षत्रं चेत्यस्य वाक्यस्यानन्तर्यरूपेण क्रमेण ऋतमिति वाक्येनैकवाक्यतेति शङ्का किं न स्यादित्यत आह ।। न चेति ।। ननु लिङ्गेन यस्य ब्रह्मेत्यादेर्ब्रह्मप्रकरणत्वनिश्चयेऽप्यानन्तर्यरूपक्रमस्य दुर्बलत्वानिश्चयेन क्रमप्राबल्यशङ्कया क्रमेण ऋतमिति वाक्यैकवाक्यता शङ्का स्यादेवेत्यत आह ।। लिङ्गादिति ।। विंशल्लक्षणमेकं शास्त्रमति त्वत्सिद्धान्तादिति भावः ।

Load More