नापि व्यवहितपरत्वम्
व्यवहितपरामर्शित्व दोषपरिहारणम्
तात्पर्यचन्द्रिका
नापि व्यवहितपरत्वम् । तेषां सुखमिति वाक्यादुत्तरस्मिन् ‘‘नित्यो नित्यानां चेतनश्चेतनाना’’मिति वाक्य ईश्वरस्य सन्निहितत्वात् । अस्तु वा ‘‘तेषां सुख’’मिति वाक्यात्पूर्वस्मिन् ‘‘एको वशी’’त्यादिव्यवहितवाक्ये प्रकृतेश्वरपरामर्शः । तथापि न दोषः ।
सन्निकृष्टमयोग्यं चेद्योग्यं दूरेऽपि संस्थितम् ।
गृह्यते सन्निधानाद्धि योग्यतैव बलीयसी ।। १ ।।
उक्तं हि जैमिनिसूत्रे ‘‘आनन्तर्यमचोदने’’ति । वार्तिके च–
यस्य येनार्थसम्बन्धो दूरस्थेनापि तेन सः ।
अर्थतो ह्यसमर्थानामानन्तर्यमकारणम् ।। इति ।
अयोग्यं च ज्ञानिसुखमनिर्देश्यत्वनिरूपपदपरमत्वसूर्यप्रकाशहेतुत्वादिनाऽन्वेतुम् । टीकायामपि ‘‘व्यवधानेनान्वयोऽपि योग्यतापेक्षया भवे’’दिति व्यवधानोक्तिरभ्युपेत्यवादेन । अत एव ‘‘चेतनश्चेतनानामित्यादौ परमात्मनोऽपि प्रकृतत्वा’’दिति टीकायां सन्निहितवाक्य एव प्रकृततोक्ता । यद्वा ‘‘नित्यो नित्याना’’मित्यस्मादपि परस्मिन् ‘‘तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां शान्तिः शाश्वती नेतरेषा’’मित्यत्र प्रकृतेन ज्ञानफलेन शान्तिशब्दार्थेन सुखेन ‘‘नित्यो नित्याना’’मिति वाक्योक्तस्याप्यात्मनो व्यवहितत्वाट्टीकायां सन्निधानाद्योग्यताया बलीयस्त्वोक्तिः । एतेनैव सुखशब्दैकत्वनिमित्ता प्रत्यभिज्ञाऽपि निरस्ता । अस्य सुखस्यानिर्देश्यत्वादिभिर्ज्ञानिसुखाद्भेदस्यैव भानात् । प्रत्युत ब्रह्मपक्ष एव ‘‘तमात्मस्थं तदेत’’दिति तच्छब्दैक्यकृता प्रत्यभिज्ञाऽस्तीति ।
प्रकाशिका
तदेतदित्यादेर्व्यवहितपरामर्शित्वदोषं द्वेधा परिहरति ।। नापीत्यादिना ।। सन्निहितत्वादिति ।। एतेन ‘‘चेतनश्चेतनानामित्यादौ परमात्मनोऽपि प्रकृतत्वा’’दिति टीकायां प्रकृतत्वात्सन्निहितत्वादित्यर्थो दर्शितः । ‘‘दूरोक्तस्यापि समीपोक्तपरित्यागेन ग्रहण’’मिति टीकावाक्यानुरोधेन पक्षान्तरमाह ।। अस्तु वेति ।। कुत इत्यत ‘‘एतदुभयस्य ज्ञानिसुखेऽसम्भवात्परमात्मनि सम्भवाद्दूरोक्तस्यापी’’त्यादिटीकार्थं सङ्गृह्य हेतुमाह ।। सन्निकृष्टमिति ।। श्लोके हिशब्दो हेतौ । यस्मात्तस्मान्न दोष इत्यर्थः । सन्निधितो योग्यताबलवत्त्वं मीमांसकसंमत्या द्रढयति ।। उक्तं हीति ।। तृतीयस्याद्यपादे ‘‘आनन्तर्यमचोदने’’त्युपान्त्याधिकरणे हस्ताववनेनिक्ते । उलपराजिंस्तृणाती’’ति दर्शपूर्णमासगतं ‘‘मुष्टीकरोति । वाचं यच्छति । दीक्षितमावेदयती’’ति ज्योतिष्टोमगतं च वाक्यमुदाहृत्य चिन्तितम् । हस्तावनेजनं हस्तसंस्कारार्थम् । मुष्टीकरणवाग्यमने मनःप्रणिधानार्थे । तेन त्रयमपि तावत्सामर्थ्यरूपाल्लिङ्गात् करिष्यमाणकर्माङ्गम् । तत्किमनन्तरयोरुलपराज्यास्तरणदीक्षितावेदनयोरेवांगमुत सर्वकर्माङ्गमिति संशये तत्रानन्तर्यादेकवाक्यत्वादवान्तरप्रकरणाद्वा तन्मात्रांगत्वे प्राप्ते लिङ्गप्रकरणाभ्यां प्राकरणिकसर्वकर्मार्थत्वप्रतीतेरानन्तर्यशब्दितपाठसन्निधिरूपक्रमस्य दुर्बलत्वात्सर्वकर्माङ्गतेति सिद्धान्त इति । वेद्यामास्तरितुं सम्पादिततृणविशेषा उलपराजयः । दीक्षितावेदनप्रकारश्चैवं श्रुतः । ‘‘अदीक्षिष्टायं ब्राह्मण इति त्रिरुपांश्वाह देवेभ्य एवैनं प्राह । त्रिरुच्चैरुभयेभ्य एवैनं देवमनुष्येभ्यः प्राहे’’ति ।।
सूत्रार्थस्तु आनन्तर्यं सन्निधानम् । अचोदना निमित्तं न भवतीति योग्यताबलवत्त्वस्य सूत्रेऽप्रतीतेराह ।। वार्तिके चेति ।। अस्त्वेवं ततः किमित्यत आह ।। अयोग्यं चेति ।। टीकायां ‘‘एतदुभयस्य ज्ञानिसुखेऽसम्भवा’’दिति वाक्यशेषस्थलिङ्गद्वयमात्रासम्भवोक्तावपि ‘‘अनिर्देश्यत्वाद्ययोगाच्चे’’त्युत्तर ग्रन्थपर्यालोचनयाऽभिप्रेताननेकहेतूनाह ।। अनिर्देश्यत्वेति ।। आदिपदेन सूर्याद्यप्रकाश्यत्वजगत्प्रकाशकत्वयोर्ग्रहः । आद्यपक्षे पूर्वोत्तरटीकावाक्ययोर्विरोधमाशङ्क्योत्तरवाक्यस्य गतिमाह ।। टीकायामपीति ।। टीकायामिति ।। पूर्वमिति योज्यम् । अस्तु वेत्युक्तद्वितीयपक्ष एव टीकाभिमत इति भावेन टीकास्थपूर्ववाक्यविरोधं निराकर्तुं तेन सन्निध्यलाभप्रकारमाह ।। यद्वा नित्यो नित्यानामिति ।। एतेन टीकायां ‘‘चेतनश्चेतनानामित्यादौ परमात्मनोऽपि प्रकृतत्वा’’दित्युक्तिस्तु प्रकृतत्वमात्राभिप्राया । न तु सन्निहितत्वाभिप्रायेत्युक्तं भवति । एवं चेश्वरस्य व्यवहितत्वमुपेत्य दूरस्थस्यापि योग्यतया परामर्श इत्युपरितनटीकावाक्यं न विरुद्धम् । नाप्यभ्युपगमवादेन नेतव्यमिति तात्पर्यम् । व्यवहितत्वादित्येतदेव प्राचीनपक्षेऽस्वारस्यबीजं ध्येयम् । यदपि सुखश्रुतिकृतप्रत्यभिज्ञाविरोध इति तदपि ‘‘अनिर्देश्यत्वाद्ययोगाच्चे’’ति टीकया निरस्तमिति भावेनाह ।। एतेनेति ।। एतच्छब्दार्थं व्यनक्ति ।। अस्येति ।।
पाण्डुरङ्गि
ननु च कथं ज्ञानिसुखापेक्षयेश्वरस्य सन्निहितत्वम् । नित्यो नित्यानामित्येतस्मादुपरितने ‘‘तेषां शान्तिः शाश्वती नेतरेषामि’’ति वाक्ये शान्तिशब्दार्थभूतसुखस्यैव सन्निहितत्वादित्यस्वरसादाह ।। अस्तु वेति ।। अत एवेति ।। टीकायां व्यवधानेनोक्तेरभ्युपेत्यवादत्वादेवेत्यर्थः । अस्मिन्पक्षे सन्निधानाद्योग्यतायाः बलीयस्त्वोक्तेरमुख्यत्वं भवतीत्यतः पक्षान्तरमाह ।। यद्वेति ।। एतेनेत्यनेनैव परामृष्टं हेतुं दर्शयति ।। अस्य सुखस्येति ।।