केचित्तु
विशिष्टाद्वैतमतपरीक्षा टीकाक्षरार्थनिरूपणम् च
तात्पर्यचन्द्रिका
केचित्तु । ‘‘गौणश्चेन्नात्मशब्दादित्यत्रात्मशब्दस्याचिद्व्यावर्तकतया उक्तत्वादात्मशब्दोक्ते द्युभ्वाद्यायतने प्रधानत्वशङ्कानुदयाज्जीवत्वेनैव पूर्वपक्ष’’ इत्याहुः । तन्न । रुद्रादिव्यावर्तकताया अनुक्तत्वेन जीवत्वेनैवेत्यवधारणायोगात् । ‘‘नानुमान’’मिति सूत्रे प्रधाननिरासायोगाच्च । ‘‘अस्मिन्नस्य च तद्योगं शास्ती’’त्यादौ मुक्तोपसृप्यत्वस्यापि जीवव्यावर्तकताया उक्तत्वेन मुक्तोपसृप्यत्वेनोक्ते तस्मिञ्जीवत्वशङ्काया अप्यनुदयाच्च । जायमानत्वादिनिरवकाशलिङ्गैर्मुक्तोपसृप्यत्वस्य गौणत्वे तैरेवात्मशब्दोऽपि ‘‘प्रकाशात्मा प्रदीप’’ इत्यादाविवान्यार्थोऽस्तु । प्रत्युतास्मदादिजीवेऽनुभवविरुद्धं द्युभ्वाद्यायतनत्वम् । प्रधाने तु सर्वोपादाने तद्युक्तम् । किं चाद्यसूत्रे स्वशब्दादित्यस्य ब्रह्मासाधारणशब्दादित्यर्थ इति त्वयोक्तत्वात् स्वशब्दादित्यनेनैव ‘‘अमृतस्यैष सेतुः’’ ‘‘यः सर्वज्ञ’’ इत्यादेरिव मुक्तोपसृप्यत्वादिशब्दस्यापि ग्रहणसम्भवान्मुक्तोपसृप्यादिसूत्रवैयर्थ्यम् ।
नन्वदृश्यत्वादीत्यत्र ‘‘यत्तदद्रेश्य’’मित्यादेर्ब्रह्मपरताया उक्तत्वात्तत्प्रकरणस्थस्य ‘‘यस्मिन्द्यौ’’रित्यादेरपि सासिद्धेतीदमधिकरणमनारभ्यमिति चेत् । अत्र परैरुक्तम् । यस्मिन्नित्यादिकं यत्तदद्रेश्यमित्येतत्प्रकरणेनास्तीति कृत्वाचिन्तयेदमारब्धम् । न च तथात्वे ‘‘प्रकरणा’’दिति सूत्रायोगः । तस्य कृत्वाचिन्तात्वोद्घाटनार्थत्वादिति । तन्न । कृत्वाचिन्तात्वस्यागतिकगतित्वात् । जायमानत्वादिलिङ्गैः प्रकरणस्याब्रह्मपरत्वेनैव वा प्रकरणादुत्कर्षेण वा पूर्वपक्षसम्भवाच्च । केचित्तु । लिङ्गैः प्रकरणविच्छेदाशङ्कायां तन्निरासायेदमित्याहुः । तन्न । भाष्यटीकोक्तरीत्या यत्तदद्रेश्यमित्यादेरपि जीवविषयत्वमित्येकवाक्यत्वेनैव पूर्वपक्षसम्भवे प्रकरणविच्छेदायोगात् । न हि जीवस्य द्युभ्वाद्यायतनत्वं शङ्कमानेनादृश्यत्वादिकं शङ्कितुमशक्यम् । त्वयाऽपि हि ‘‘सर्वत्र प्रसिद्धोपदेशा’’दित्यत्रैकवाक्यत्वाय ‘‘मनोमयः’’ इत्यादिवत् ‘‘सर्वं खल्विदं ब्रह्मे’’त्याद्यपि जीवविषयमित्येव पूर्वपक्षितमिति ।
टीकाक्षरार्थस्तु । आरभ्याधीतत्वादित्यनेनान्यप्रकरणाधीतत्वं न विवक्षितम् । येनान्यप्रकरणाधीतस्याप्रकरणित्वनियमाद्विरुद्धो हेतुः स्यात् । किं तु स्वस्यैवोपक्रम्य पठितत्वम् । इतरत् स्पष्टम् ।। अतो न मिथ्याभेदपरत्वमिति ।। नानुमानमिति सूत्रस्यानुमानं भेदमिथ्यात्वे न मानम् । भेदस्य सत्यत्वप्रतिपादकशब्दात् । अनुमानमूलभूतस्य भेदमिथ्यात्वप्रतिपादकशब्दस्याभावाच्चेति वर्णकान्तरं सूचितमिति द्रष्टव्यम् ।।
प्रकाशिका
।। केचित्त्विति ।। द्युभ्वाद्यायतनं जीवः परमात्मा वेति संशये मनःप्रभृतींद्रियाधारत्वनाडीसम्बन्धजायमानत्वादिलिङ्गानां श्रवणात्तद्बलेन द्युपृथिव्याद्यायतनत्वादेर्जीवे स्वरूपेण वा कर्मद्वारावा मुक्तावस्थायां विकसितेन ज्ञानेन वा कथञ्चिन्नेयत्वाज्जीव एव द्युभ्वाद्यायतनमिति प्राप्ते, ‘‘तमेवैकं जानथात्मानम् । अमृतस्यैष सेतुः । यस्सर्वज्ञ’’ इत्यादिपरमात्मासाधारणशब्दात् ‘‘नामरूपाद्विमुक्तः परात्परं पुरुषमुपैती’’ति नामरूपात्मकबन्धान्मुक्तस्य प्राप्यतया व्यपदेशात् मनःप्रभृतीन्द्रियाधारत्वस्य सर्वाधारे परे परमात्मनि ‘‘सन्तत सिराभिस्तुलंबत्याकोश सन्निभ’’मित्यादिश्रुत्या नाड्याधारत्वस्य हृदयाधारद्वारा ‘‘अजायमानो बहुधाविजायत’’ इति श्रुत्या चाकर्मकृतः स्वेच्छोपात्तदिव्यविग्रहयोगेन जायमानत्वस्यापि परमात्मनि सम्भवात्स एव द्युभ्वाद्यायतनमिति सिद्धान्त इत्याहुरित्यर्थः ।
ननु नानुमानमिति सूत्रे प्रधाननिरासप्रतीतेर्जीव एवेति कथं पूर्वपक्ष इत्यतश्श्रुतप्रकाशोक्तमनुवदति ।। गौणश्चेदिति ।। तत्र हि तदैक्षतेतीक्षणं प्रधाने गौणमिति शङ्किते ‘‘अनेन जीवेनात्मने’’त्यात्मपदप्रयोगात्तस्य जडेऽयोगादित्युक्तेरिति भावः । नानुमानमिति प्रधाननिरासो दृष्टान्तत्वेनोपयुज्यते । यथाप्रधानं न भवति तथा प्राणभृज्जीवोऽपि नेतीति भावः ।। रुद्रादीति ।। रुद्रवाय्वादेरपीशशब्दसमाख्याभ्यां प्राप्तिभावादिति भावः । नानुमानमिति सूत्र इति दृष्टान्तत्वकल्पनं त्वयुक्तम् । कल्पकाभावादतिशयाभावाच्चेति भावः ।। अस्मिन्निति ।। ‘‘रसशब्दनिर्दिष्टेऽस्मिन्नानंदमयेऽस्य जीवस्य तल्लाभादानन्दयोगं शास्ति ‘‘रसोवैसः । रसह्येवायं लब्ध्वाऽऽनन्दीभवती’’ति शास्त्रम् । अतो न जीव’’ इत्यर्थोक्तेरिति भावः ।। प्रकाशेति ।। तत्र यथास्वरूपार्थत्वमात्मशब्दस्य तथाजीव (दीप) वज्जडेऽपि प्रधाने ममात्माभद्रसेन इतिवदात्मीये प्रधान आत्मशब्दप्रयोग इति तन्निष्ठसूत्रव्यावर्त्यशङ्कायां त्वदुक्तरीत्या कथञ्चिदर्थोस्त्वित्यर्थः । एवं पूर्वपक्षं निरस्य सूत्रार्थमपि निराह ।। किञ्चेति ।। आदिपदेन स्थित्यदनप्रतिपादकशब्दग्रहः । उभाभ्यामुक्तं समाधिं निरस्य भाष्याद्युक्तं स्थापयितुं गतार्थत्वमाशङ्कते ।। नन्विति ।। कृत्वाचिन्तयेति ।। ‘‘प्रपञ्चार्थ’’मिति भाष्यस्य ‘‘तन्मध्यापठितमिति कृत्वाचिन्तयेदमधिकरणं प्रवृत्तमित्यर्थ’’ इति भामत्युक्तेरिति भावः । कल्पतरूक्तमाह ।। न चेति ।। गत्यन्तराभावादेवमाश्रीयत इति अत आह ।। जायमानत्वेति ।। अनुकृतेरित्यधिकरणे ‘‘असम्भवानुकारसामर्थ्यलक्षणेन लिङ्गेन प्रकरणबाधया तेजोधातुरेव गम्यत’’ इति भामत्युक्तदिशा तत्र लिङ्गात्प्रकरणबाधेन यथा पूर्वपक्षस्तथेति भावः ।। उत्कर्षेण वेति ।। पूषानुमन्त्रणमन्त्रस्येवास्मन्मतेऽत्तेत्यधिकरणपूर्वपक्षोक्तदिशेति भावः ।। केचित्त्विति ।। यत्तदद्रेश्यमित्यादिकमस्तूक्तरीत्या ब्रह्मप्रकरणम् । यस्मिन्द्यौरित्यादिकं तु जीवस्यैव प्रकरणम् । इन्द्रियाधारत्वनाडीसम्बद्धत्वजायमानत्वादिजीवलिङ्गैरिति ब्रह्मप्रकरणविच्छेदाशङ्कायामित्यर्थः । ननु यत्तदद्रेश्यमित्यादिनोक्तमदृश्यत्वादिकमनुभवविषयतया दृश्ये जीवे कथं शङ्कितुं शक्यमित्यत आह ।। न हीति ।। द्युभ्वाद्यायतनत्वं जीवेऽनुभवविरुद्धमपि शङ्कमानेन तस्यापि शङ्कितुं शक्यत्वादित्यर्थः ।। त्वयाऽपीति ।। तत्रैवास्माभिर्विवृतमेतत् ।
यत्कश्चिदाह द्युभ्वाद्यायतनं वायुप्रधानजीवानामन्यतम उत शिव इति संशये वाय्वादिलिङ्गदर्शनेन तेषामन्यतम इति प्राप्ते आत्मशब्दान्मुक्तोप सृप्यत्वलिङ्गात् अथ परा यया तदक्षरमिति प्रकरणाच्च शिव एवेति सिद्धान्त इति तदपेशलम् । ‘‘लोकाश्च लोकिनश्च विष्णावेवोताश्च प्रोताश्चे’’ति विष्णुप्रापकस्यापि सत्त्वात् । आत्मश्रुत्यादेर्भाष्योक्तवचनजातेन विष्ण्वेकनिष्ठत्वात् । रुद्रश्रुतिलिङ्गानां विष्ण्वेकनिष्ठताया भाष्य एव प्रमाणगणेन समर्थनाच्च । आथर्वणभाष्ये सर्वशब्दप्रतिपाद्यत्वस्य सर्वशब्दवाच्यत्वस्य सर्वोत्तमत्वेन तस्यैव ज्ञेयत्वस्य प्रमाणनिचयोदाहरणेन तत्रैव समर्थितत्वात् । विस्तरभयान्नात्र तानि लिख्यन्ते । प्रकरणस्य वैष्णवतायाः प्रागेव समर्थितत्वाच्चेति । ‘‘प्रकरणा’’दिति सूत्रे टीकायां ‘‘द्वेविद्ये वेदितव्ये इति परविद्याविषयस्य वस्तुनोऽत्रारभ्याधीतत्वेनास्य विष्णुप्रकरणत्वा’’दिति वाक्ये विरुद्धप्रतीतिं निरस्यन्नर्थमाह ।। आरभ्येति ।। स्पष्टमिति ।। उपन्यासमुखेन विवृतमिति भावः । सूत्रोक्तभेदस्य मिथ्यात्वशङ्कां निरस्यान्ते ‘‘अतो न मिथ्याभेदपरत्वं श्रुते’’रित्युक्तम् । तस्य सूत्रारूढतामाह ।। अतोन मिथ्येति ।। सूत्रेऽतच्छब्देन मिथ्यात्वविरोधिसत्यत्वं गृह्यत इत्युक्तं भवति । तच्छब्देनानुमानं परामृश्यार्थांतरमाह ।। अनुमानेति ।।
पाण्डुरङ्गि
ननु शुद्धस्य मुक्ताभेदेन तत्प्राप्यत्वासम्भवेऽपि सगुणस्य ब्रह्मणो मुक्ताभेदाभावेन तस्य मुक्तप्राप्यत्वमुपपन्नमित्यत आह ।। सगुणेति ।। एवं सूत्रान्तरेति ।। यत्र साक्षाद्भेदव्यपदेशः सम्भवति तत्र भेदकव्यपदेशग्रहणानुपपत्तिरूह्येत्यर्थः । अन्यार्थः स्वरूपार्थः ।।
।। इति द्युभ्वाद्यधिकरणम् ।। १ ।।