अत्र चाद्ये सूत्रे स्वपक्षसाधकोक्तिः

सूत्रतात्पर्यनिरूपणम्

तात्पर्यचन्द्रिका

अत्र चाद्ये सूत्रे स्वपक्षसाधकोक्तिः । तत्र यद्यपि विषयवाक्ये वसन्तादिशब्दः प्रथमस्तथापि कर्मान्तरप्रकृतित्वफलकारणत्वादिना प्रधानभूतज्योतिष्टोमवाचित्वात्सूत्रे ज्योतिशब्दः प्रयुक्तः । उपक्रमादिति पञ्चमी ल्यब्लोपनिमित्ता । अत एव सुधायां ‘‘उपक्रमं विधाये’’त्युक्तम् । द्वितीये बाधकोद्धारः । अत्र च ‘‘कल्पनोपदेशा’’ दित्यस्य लोकतः क्लृप्ततत्तद्वाचित्वमबाधित्वैव लोकक्लृप्तयोगवृत्तेः कल्पनयाव्युत्पादनेन ब्रह्मणः सर्वशब्दवाच्यत्वेनोपदेशादिति वा ब्रह्मणः सर्वशब्दवाच्यत्वेन कल्पनाया उपासनाया उपदेशादिति वार्थः ।।

प्रकाशिका

तन्मूलोक्तिपूर्वकं हरौ वृत्तिद्वयोक्तिपरटीकां व्यनक्ति ।। अत्रेति ।। आद्य इति ।। ज्योतिरुपक्रमात्तु तथा ह्यधीयत एक इत्यत्र । ‘‘ज्योतिष्टोमादिकर्मतदङ्गवाचकत्वेन प्रसिद्धज्योतिरादिशब्दाभिधेयो हरिरेव । यस्मादेके शाखिनस्तावा एता इति तथा सर्वशब्दाभिधेयत्वेन हरिमेवाधीयत’’ इति टीकोक्तेस्सर्वशब्दाभिधेयत्वेनाधीयमानत्वादिति साधकोक्तिपरत्वादाद्यत्वमित्यर्थः । ‘‘ज्योतिश्शब्दस्याप्रथमपठितत्वेपि प्रधानकर्माभिधायकत्वात्तस्यैवान्योपलक्षकत्वसम्भवाच्च सङ्ग्रह’’ इति टीकावाक्यं व्यनक्ति ।। तत्र यद्यपीति ।। टीकायामस्फुटत्वादाह ।। उपक्रमादितीति ।। ल्यब्लोपनिमित्तापञ्चमी वाच्येति वार्तिकोक्तेरिति भावः । द्वितीये कल्पनोपदेशाच्च मध्वादिवदविरोध इत्यत्र कर्मक्रमादि विरोधाद्य्वुत्पत्त्यसम्भवाच्च न ज्योतिरादिशब्दार्थत्वं विष्णोरिति शङ्कानिवर्तकतया टीकायामवतारितत्वादिति भावः । टीकोक्तमर्थद्वयं कल्पनाशब्दारूढतया दर्शयति ।। तत्र चेति ।। नन्वस्य सूत्रस्य कथमत्र निवेशः । ज्योतिरादिशब्दानां भगवद्वाचित्वे कर्मक्रमादिविरोध इव पूर्वत्र देवतातारतम्यस्यासिद्धिरुत्तरत्र च देहतदन्तर्गतप्राणादेर्भूतोत्पत्तेः प्रकृत्यादेरसिद्धिरिति बाधकस्य चानेनैव परिहार्यत्वेन सर्वशेषतयैतत्पादस्यादावन्ते वा निवेशस्योचितत्वात् । सत्यम् । अत्र कल्पनेतिसूत्राभावेऽन्यत्र रूढेरसिद्ध्या ज्योतिरादिशब्दानामवयवरूढेरभावेन व्युत्पत्त्यनुपपत्त्या विवक्षितसर्वसमन्वयोऽत्र न सिद्ध्येदिति सिद्धान्तानुत्थितिरेव स्यात् । अत एवोक्तं टीकायां ‘‘व्युत्पत्त्यसम्भवाच्चे’’त्येतदवतारिकायाम् । तथा चैतस्य सर्वसाधारण्येऽप्युक्तरीत्या तच्छेषत्वेन निवेशो युक्त इति भावः । यदत्र केनचिद्रामानुजमतानुवर्तिनोक्तं उपक्रमादित्यपपाठः । ब्रह्मोपक्रम्यादीयत इति ब्रह्मपदाध्याहारश्चाद्यसूत्रे दोषः । द्वितीये ‘‘कल्पनोपदेशा’’दिति व्यर्थम् । लोकक्लृप्तार्थांतरवाचित्वाविरोधस्य विरोधहेतुत्वेन पूर्वसूत्रसिद्धार्थानुवादरूपस्यास्याविरोधहेत्वर्थानुपस्थापकत्वात् । दृष्टान्तश्चायुक्तः । मधुशब्दस्य मधुसदृशपरतया मधुपरत्वाभावादिति तन्न । ज्योतिरुपक्रमेत्येव सुपाठ उपक्रमादित्यपपाठ इत्यस्यार्वाचीनेन त्वया निर्णेतुमशक्यत्वात् । प्रत्युत ‘‘दशप्रमति’’मित्यादिश्रुत्यादिना सर्वज्ञत्वेन प्रमितास्मदाचार्योक्तपाठस्यैव सुपाठत्वेनानीदृशत्वद्भाष्यकारोक्तपाठस्यैवापपाठत्वात् । त्वद्भाष्यकारस्य स्खलितवाक्त्वस्य प्रतिसूत्रं ग्रन्थकृता प्रदर्शितत्वात् । त्वदुक्तास्मदाचार्योक्तिस्खालित्यस्यासम्बद्धतायाः प्रदर्शितत्वात् । प्रतिनयं ब्रह्मार्पकस्य तत्त्विति पदस्याध्यायसमाप्त्यनुवृत्त्याऽध्याहाराभावात् । द्वितीये लोकसिद्धार्थाविरोधहेतुभूतार्थान्तरस्य कल्पनापदेनोपस्थित्याऽनुपस्थापकत्वादिति त्वदुक्तहेत्वसिद्धेः । अत एवोक्तं ‘‘लोकतः क्लृप्ततत्तद्वाचित्वमबाधित्वैवे’’त्यादि । मध्वादीत्यस्य मध्वादिशब्दवदित्यर्थपरत्वेन मधुसदृशपरत्वाभावात् । एतेन समन्वयसूत्रे सर्वपदानां वा सर्ववाक्यानां वा समन्वय इत्यादिविकल्पेन दोषोत्कीर्तनमप्यसम्बद्धं बोध्यम् । अनन्तवेदराशेः पदादिविधया वाक्यविधया च हरौ समन्वयप्रतिज्ञानेनानन्दमयनयादौ वाक्यसमन्वयाशयेन अत्र तु पदसमन्वयाभिप्रायेण विचारप्रवृत्तेरभिमतत्वात् । पूर्वत्राव्यक्तनये वाक्यमर्यादया सत एव तस्य वाक्यस्य ब्रह्मणि समन्वयोपगमात् ।

चन्द्रिकाबिन्दुः

ननु कर्मान्तरप्रकृतत्वेन कर्मान्तरापेक्षया प्राधान्येऽपि वसन्तशब्दापेक्षया प्राधान्यं ज्योतिश्शब्दस्य नोक्तमित्यत आह ।। फलकारणत्वादिनेत्यादिनेति ।। आदिपदेन मुख्यतात्पर्यविषयत्वम् । सूत्रस्थकल्पनापदोपादानलब्धमर्थं कथयन् तत्पदार्थमप्याह ।। लोकतः क्लृप्तमिति ।।