अत्र यद्यपि भूमशब्दो बहुशब्दात् ..
भूमाधिकरणम्
तात्पर्यचन्द्रिका
भूमशब्दस्य धर्मिपरत्वनिरूपणम्
।। ॐ भूमासम्प्रसादादध्युपदेशात् ॐ ।।
अत्र यद्यपि भूमशब्दो बहुशब्दात् ‘‘बहोर्लोपो भू च बहो’’रिति भावे निष्पन्नः । बहुत्वसङ्ख्या च लोकतोऽन्यत्र प्रसिद्धा । तथापि बहुशब्दस्य ‘‘बहुषु बहुवचन’’मित्यादौ सङ्ख्यायामिव बह्वन्नमित्यादौ वैपुल्येऽपि प्रयोगात् । अत्रैव च श्रुतौ ‘‘यो वै भूमा तदमृतं यदल्पं तन्मर्त्य’’मिति बहुत्वसङ्ख्यायुक्तस्याल्पस्य भूमप्रतियोगित्वेनोपादानात् नामादिभ्योऽधिकसङ्ख्याहीने च वागादौ ‘‘वाग्वाव नाम्नो भूयसी । आकाशो वाव तेजसो भूया’’नित्यादौ बहुशब्दान्निष्पन्नभूयःशब्दप्रयोगात् प्राणो भूमेति पूर्वपक्षेऽपि सङ्ख्यार्थत्वाभावाच्च वैपुल्यार्थत्वात् । गुणादिना च वैपुल्यस्य ब्रह्मण्यपि सम्भवात् इहैव च श्रुतौ भूमशब्दस्य ‘‘यो वै भूमा तदमृतम् । यो वै भूमा तत्सुखम् । स एवाधस्तात्स उपरिष्टा’’दित्यादौ धर्मिणि प्रयोगात् पूर्वपक्षेऽपि च धर्मिपरत्वात् टीकानुव्याख्यानयोश्च नामत्वोक्तया धर्मिणि रूढेरभिप्रेतत्वात् व्याकरणस्य च साधुत्वान्वाख्यानपरत्वात् भूमशब्दस्य विपुलरूपधर्मिपरतैव । न त्वनेकपरता । न वा बहुत्वानेकत्ववैपुल्यरूपधर्मपरतेति न स्वतोऽन्यत्रप्रसिद्धता । नाप्यन्यत्रप्रसिद्धप्राण श्रुतिसाहित्यादन्यत्रप्रसिद्धत्वम् । तस्य ‘‘अत एव प्राण’’ इत्यत्रोक्तब्रह्मपरतामुपेत्योत्क्रमणादिलिङ्गादेवेह पूर्वपक्षकरणात् । उत्क्रमणादिलिङ्गसाहित्यादन्यत्रप्रसिद्धता तु पूर्ववन्निरसनीया । उभयत्र प्रसिद्धत्वं तु ‘‘प्राणो वा आशाया भूयान् विष्णुर्वै देवेभ्यो भूयांस्तस्माद्भूयान्नामेत्यादेर्भूमशब्दोऽज्ञानां साधारण’’ इति न्यायविवरण एवोक्तम् ।। ननु ‘‘प्राणो वा’’ इत्युपक्रमात् ‘‘विष्णुर्वा’’ इति समाख्याया दुर्बलत्वात्कथं ततः साधारण्यमिति चेन्न । समाख्यायाः साभ्यासत्वात्सोपपत्तिकत्वाच्चादौर्बल्यात् । अत एव न्यायविवरणे समाख्यायामभ्यासोपपत्ती उक्ते । यद्वा उपक्रमसमाख्ययोर्बलाबलाज्ञानदशायां साधारण्यम् । अत एव न्यायविवरणे ‘‘अज्ञाना’’मित्युक्तम् ।
प्रकाशिका
अत्र टीकायां ‘‘प्राणो वा आशाया भूयानित्युपक्रमेण विष्णुर्वै देवेभ्यो भूयांस्तस्माद्भूयान्नामेति श्रुत्या च वायुविष्णुसाधारणस्य भूमनाम्न’’ इत्याद्युक्तम् । तच्च न्यायविवरणटीकायां ‘‘ननु भूमशब्दो भाववाची । तत्कथं धर्मिणोश्शङ्क्यते । कथं च भूयानित्यनेन समानार्थः । कथं च नामात्मकः । मैवम् । यो वै भूमा तत्सुखमित्युत्तरवाक्यपर्यालोचनया भावभवित्रोरभेदाभिप्रायेण भवितृविषयतावगमा’’दिति ग्रन्थेनाक्षिप्य समाहितम् । तद्विवरीतुकामस्तदाक्षेपसमाधानयोरन्यत्र प्रसिद्धत्वशङ्काव्युदासोऽपि फलमिति भावेनाक्षेपमनूद्य समाधिं च प्रपञ्चयति ।। अत्र यद्यपीत्यादिना स्वतोऽन्यत्र प्रसिद्धतेत्यन्तेन ।। बहुशब्दात् ‘‘पृथ्वादिभ्य इमनिज्वा’’ इति सूत्रेण भावे इमनिच्प्रत्यये सति बहोरिति सूत्रेण बहोः परस्येमनिच्प्रत्ययस्यादेरिकारस्य लोपो बहुशब्दस्य भू इत्यादेशश्चेति विधानाद्भूमेति रूपमिति भावः । अन्यत्र सेनावनादौ । गुहानयन्यायेन भगवत्यप्यस्ति प्रसिद्धिरित्यतो लोकत इत्युक्तम् । यथा प्राचीनवैश्वानरनाम्नो लोकतोऽन्यत्रप्रसिद्धिस्तथेति भावः ।
भूमशब्दस्य पूर्णपर्यायस्य धर्मिपरस्यैवात्र ग्रहणं न पुनर्भावार्थकस्य सङ्ख्यावाचिन इति भावेन तत्र प्रयोगोपपत्ती दर्शयति ।। तथापीत्यादिना ।। भूमशब्दस्य विपुलरूपधर्मिपरतैवेत्यन्वयः । तत्र हेतुर्बहुशब्दस्य वैपुल्यार्थत्वादिति । धर्मिणि प्रयोगादित्यादिश्च । वैपुल्यार्थत्वे हेतुर्वैपुल्येऽपि प्रयोगादित्यादि । इत्यादावित्यादिपदेन ‘‘बहवः पुरुषा ब्रह्मन्नुताहो एक एव’’ त्वित्यादिग्रहः ।। वैपुल्येऽपीति ।। उक्तं च ‘‘बहुगणवतुडति सङ्ख्ये’’त्यत्र वृत्त्यादौ ‘‘बहु ओदनं इति वैपुल्यार्थकोऽप्यस्ती’’ति । उपपत्तिमाह ।। अत्रैव चेति ।। उपपत्त्यन्तरमाह ।। नामादिभ्य इति ।। पूर्वपक्षेऽपीत्युभयसाधारण्यकथनाय । एवमग्रेऽपि । वैपुल्यार्थत्वं भूमशब्दस्य समर्थ्य वैपुल्ययुक्तधर्मिपरत्वं साधयति ।। इहैव चेति ।। टीकानुव्याख्यानयोश्चेति ।। टीकायां स्पष्टम् । अनुव्याख्याने तु ‘‘लिङ्गं साधारणं शब्दा’’विति शब्दपदेन नामत्वोक्तिरिति भावः ।। रूढेरिति ।। तथा चाव्युत्पन्न एवायमखण्डश्शब्द इत्युक्तं भवति । पाणिनीयव्युत्पादनस्य तर्हि का गतिरित्यत आह ।। व्याकरणस्य चेति ।।
यत्रार्थस्य विसंवादः प्रत्यक्षेणोपलभ्यते ।
स्वरसंस्कारमात्रार्था तत्र व्याकरणस्मृतिः ।।
इत्युक्तेः स्वरसंस्कारमात्रार्थत्वाच्चेत्यपि ध्येयम् । अत एव ‘‘स एषोऽणिमा धातुःप्रसादान्महिमानमीश’’मित्यादिश्रुतिषु ‘‘स चाहभूमा परमेष्ठिनं प्रभुर्बद्धांजलिं सस्मितपूर्वया गिरे’’त्यादिस्मृतिषु च प्रयोगो धर्मिणि बहुलमुपलभ्यते । क्वचित्तु ‘‘तत्सिद्धिजातिसारूप्यप्रशंसाभूमे’’ति जैमिनीये ‘‘अध्यात्मसम्बन्धभूमे’’त्यत्र च धर्मेऽपि प्रयोगात्तदर्थत्वाच्च व्याकरणस्येत्यपि ध्येयम् । स्वत इति ।। श्रुतिलिङ्गसाहित्यं विनेत्यर्थः । प्रकारान्तरेण जातामन्यत्रप्रसिद्धत्वशङ्कां ‘‘प्राणो वा आशाया भूया’’नित्युक्तप्राणशब्दस्य ‘‘अत एव प्राण’’ इत्युक्तरीत्या विष्णुपरत्वा’’दित्यादिटीका सूचितपरिहारेण निराह ।। नापीति ।। यथादित्यश्रुतिसाहित्यात्सर्वगतत्वस्यान्यत्रप्रसिद्धत्वं तथेह न शङ्क्यम् । तत्रादित्यश्रुतेरन्तर्नये साक्षादश्रवणेन लोकतोऽन्यत्रप्रसिद्ध्याश्रयेण वा संवत्सरसारत्वादिलिङ्गवशेनादित्यश्रुतेरन्यत्रप्रसिद्धत्वेन वा तत्साहित्येनान्यत्रप्रसिद्धेस्सर्वगतत्वस्योक्तावपि नेह तथेति भावेनोक्तं ब्रह्मपरतामुपेत्येति ।
पूर्ववदिति ।। समाख्याश्रुतितौल्याभावस्यान्यत्र प्रसिद्धलक्षणानुप्रवेशादत्र च तत्तौल्यस्यैव वक्ष्यमाणदिशा सत्त्वेन वा स्वत एवान्यत्रप्रसिद्धत्वस्यान्यत्रप्रसिद्धलक्षणत्वादिह च तदभावस्योक्तत्वान्न लिङ्गसाहित्येनान्तर्यामित्वमिवान्यत्रप्रसिद्धत्वं शङ्कनीयमिति निरसनीयमित्यर्थः । ‘‘प्राणो वा आशाया भूया’’नित्यादिटीकोक्तेर्विशेषविवक्षया मूलमाह ।। उभयत्रेति । न्यायविवरणेऽत्र टीकायां च ‘‘तस्माद्भूयान्नामे’’त्यंशोक्तेरुपयोगं ‘‘आसन्नस्योपक्रमस्यानासन्नायाः समाख्यायाश्च कथं साधारण्यप्रतीतिहेतुत्वमिति चे’’दिति न्यायविवरणटीकास्थशङ्कातात्पर्याभिव्यक्तिपूर्वकमाह ।। नन्वित्यादिना ।। साभ्यासत्वादिति ।। भूयानित्यस्य द्विःश्रवणात्तस्माद्देवेभ्यो भूयस्त्वादित्युपपत्त्युक्तेरिति भावः । अस्मिन्पक्षेऽज्ञानामित्येतन्नापेक्ष्यमेवेति वा पूर्वात्तरपक्षनिर्णायकानभिज्ञानामित्यर्थकं वा नेयम् । अत एव टीकायामज्ञानामित्यस्यानुक्तिरिति भावः । इदानीं ‘‘अज्ञानामित्युक्तत्वा’’दिति न्यायविवरणटीकां विवृण्वन्नज्ञानामित्यनुरोधेन समाध्यन्तरमाह ।। यद्वोपक्रमेति ।।
पाण्डुरङ्गि
बहोर्लोप इति ।। बहोर्भाव इति विग्रहे पृथ्वादिभ्य इमनज्वेतीमनिच्प्रत्यये बहुशब्दोपरिकृते बहोर्लोपो भू च बहोरिति सूत्रेण बहोरुत्तरेषामिमनिजादीनामिकारलोपे बहोः स्थाने भू आदेशे च भूमेति रूपसिद्धिरिति भावः । नन्वन्यत्र प्रसिद्धशरीरित्वसाहित्यादन्तर्यामित्वमिव भूमशब्दस्याप्यन्यत्रप्रसिद्धप्राणश्रुतिसाहित्यादन्यत्रप्रसिद्धत्वात्तस्योभयत्रप्रसिद्धसमन्वयप्रतिपादके पादेऽसङ्गतिरित्यत आह ।। नापीति ।। पूर्ववदिति ।। अन्यत्रप्रसिद्धजायमानत्वलिङ्गेन द्युभ्वाद्यायतनत्वस्यान्यत्रप्रसिद्धत्वे शङ्किते तस्य येन प्रकारेणान्यत्रप्रसिद्धत्वं निराकृतं तेनैव प्रकारेणेत्यर्थः । स चेत्थम् । अन्यत्रप्रसिद्धसाहचर्येण परतोऽन्यत्रप्रसिद्धत्ववन्न्यायविवरणोदाहृताभ्यः प्राणो वा आशाया भूयान्विष्णुर्वै देवेभ्यो भूयानित्यादिश्रुतिभ्य उभयत्रप्रसिद्धसाहचर्यं विना स्वतः उभयत्र प्रसिद्धत्वस्य सत्वादिति वा अन्यत्रप्रसिद्धेरन्यत्रप्रसिद्धान्यसाहित्यसापेक्षत्वादुभयत्रप्रसिद्धेश्च तन्निरपेक्षत्वान्निरपेक्षादराद्वा समाख्याश्रुत्यादितौल्याभावस्याप्यन्यत्रप्रसिद्धलक्षणान्तर्गतत्वात्तस्य च प्रकृतेऽसत्वेनान्तर्यामित्वे सत्त्वात्तस्यान्यत्रप्रसिद्धतेति वा सर्वगतत्वादीनां ब्रह्मण्ययुक्तत्वादेवान्यत्रप्रसिद्धतेति वा पूर्ववदित्यर्थः । ननु तथापि नोभयत्र प्रसिद्धता । अभ्यासोपपत्तिसहितसमाख्यायास्स काशादुपक्रममात्रस्य दुर्बलत्वादित्यरुच्या पक्षान्तरमाह ।। यद्वेति ।।