अत्रान्यैः..
अद्वैत-विशिष्टाद्वैतमतपरीक्षा
तात्पर्यचन्द्रिका
अत्रान्यैः कैश्चिच्चोक्तं दहराकाशस्य भूताकाशत्वे जीवत्वे वा प्राप्ते ब्रह्मत्वेन सिद्धान्तः । सूत्रे दहरपदं च प्रथमान्तं न तु सप्तम्यन्तमिति । तन्न । दहराकाशस्य ब्रह्मत्वे तस्मिन्यदन्तरिति दहराकाशस्थस्यान्वेष्टव्यत्वाद्युक्तययोगात् । अत्रोक्तं परैः तस्मिन्यदन्तरिति तच्छब्देन हृत्पुण्डरीकं एव परामृश्य तदन्तर्गत दहरस्यैव अन्वेष्टव्यवादि उच्यते इति । तन्न तस्मिन् इत्यस्य सन्निहितदहरपरित्यागेन व्यवहित पुण्डरीक परत्वायोगात् । अत एव सप्तमे चातुर्मास्यस्य तृतीये पर्वणि साकमेधीये ‘‘एतद्ब्राह्मण एककपाल’’ इति श्रुतस्यैतच्छब्दस्य व्यवहितवैश्वदेविकैककपालत्यागेन सन्निहितवारुणप्रघासिकैककपालपरत्वमुक्तम् । दहरस्य हृत्पुण्डरीकस्थतायाः ‘‘दहरोऽस्मि’’न्नित्यत्रैवोक्तत्वेन पुनस्तदुक्तिवैयर्थ्याच्च । यदन्तरित्यत्र यच्छब्दस्य ‘‘तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्य’’मित्यत्र तच्छब्दस्य च दहरपरत्वे पुल्लिङ्गतापत्तेश्च । केचित्तु यदन्तरित्यत्राध्याहृतेन य इत्यनेन पुल्लिङ्गेन दहरः परामृश्यते । श्रुतेन यदित्यनेन तु दहरान्तर्वर्तिगुणजातमुच्यते । यद्वा यः यत् इति पुंनपुंसकलिङ्गयोर्यच्छब्दयोः ‘‘त्यदादीनि सर्वैर्नित्य’’मित्यनेनैकशेषे ‘‘नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्या’’मिति नपुंसके एकवचने च कृते यदिति रूपम् । एवं च यो दहरः यच्च तदन्तर्वर्तिगुणजातं तदुभयमन्वेष्टव्यमिति श्रुत्यर्थ इत्याहुः । तन्न । अन्यथोपपत्तावध्याहारस्यैकशेषादिकल्पनस्य चायोगात् । लोके प्रातिपदिकार्थैकदेशस्य पदार्थान्तरेणान्वयस्याव्युत्पन्नतया यच्छब्दोक्तयोर्द्वयोरप्यन्तर्वर्तित्वान्वयापाताच्च । न हि यावन्तर्वर्तेते तावानयेत्युक्त एकस्यैवान्तर्वर्तित्वधीः । किं तु द्वयोः ।
प्रकाशिका
अत्रान्यैः कैश्चिच्चेति ।। अन्येषामयं भावः । अथ यदिदमस्मिन्ब्रह्मपुर इति वाक्ये श्रुतो दहराकाशः किं भूताकाश उत जीवोऽथ ब्रह्मेति संशये आकाशशब्दस्य भूताकाशे रूढत्वात् ‘‘यावा’’निति वाक्ये हृत्पुण्डरीकावच्छिन्नस्याकाशस्य बाह्याकाशेनोपमितत्वाद्द्यावापृथिव्यादिसर्वाधारत्वस्योपचारेणोपपत्तेर्भूताकाश एव दहराकाश इत्येकः पक्षः । अयं चाकाशशब्दस्य ‘‘तल्लिङ्गा’’दित्यादौ रूढित्यागस्याश्रितत्वाद्वाक्यशेषगतबहुतरश्रुतिलिङ्गादिविरोधात् गत्यन्तरसम्भवेऽगतिकस्य स्वेनैव स्वस्योपमेयत्वस्यायोगाच्च भूतपक्षस्तुच्छ इति जीव एव दहर इति पक्षान्तरमुक्तम् । तथा हि । जीवं प्रति देहस्य ब्रह्मपुरशब्दोक्तपुरत्वं युज्यते । जीवस्य परिच्छिन्नत्वेन ‘‘ब्रह्मपुर’’ इति सप्तमीनिर्दिष्टाधारं प्रत्याधेयत्वसम्भवात् । देहस्य जीवकर्मार्जितत्वेन तत्सम्बन्धविशेषसद्भावाज्जीवस्य ब्रह्मणः पुरमिति षष्ठ्युक्तसम्बन्धोपपत्तेः । ब्रह्मणस्तु स्वमहिमि्न प्रतिष्ठितस्य तदाधेयत्वाभावातदार्जकर्मशून्यत्वाच्च देहस्य तदीयताव्यपदेशायोगात् । ब्रह्मपुर इति ब्रह्मशब्दस्य देहबृंहणादिना जीवेऽप्युपपत्तेः । नीरूपत्वादिना सादृश्यनिमित्तेन गौणस्याकाशशब्दस्य जीवेऽप्युपपत्तेश्च । न च राजपुरे स्वगृहे चैत्र इव जीवस्वामिके देहाख्यपुरे स्ववेश्मनि हृत्पुण्डरीक आकाशाख्यं ब्रह्म वर्ततामिति वाच्यम् । ‘‘पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाश’’ इत्यत्रास्मिन्निति निर्दिष्टाधारत्वस्याधेयाकांक्षायां ब्रह्मपुरशब्दसन्निधापितपुरस्वामिनो जीवस्यैवाधेयत्वेनान्वयादिति । तदुक्तं भामत्यां
आधेयत्वाद्विशेषाच्च पुरं जीवस्य युज्यते ।
देहो न ब्रह्मणो युक्तो हेतुद्वयवियोगतः ।। इति ।
एवं प्राप्ते ब्रह्मप्रातिपदिकार्थस्य विशेष्यस्य प्रधानतया तदनुसारेणाप्रधानषष्ठयर्थसम्बन्धस्य नेयत्वात् ब्रह्मणो देह एवोपलब्ध्या तस्य देहेन सहोपलब्धिद्वारकसम्बन्धसम्भवादाधारपरसप्तम्या अपि प्रथमश्रुतब्रह्मशब्दानुसारेण ब्रह्मोपलब्ध्याधारपरत्वात् ब्रह्मपुरस्य जीवपुरत्वेऽपि वा राजपुरे चैत्र सद्मवज्जीवपुरे ब्रह्मसद्महृत्पुण्डरीकसम्भवात् प्रागुक्त सन्निधानस्य चोत्तरवाक्यगतब्रह्मलिङ्गैर्बाधसम्भवाद्दहरो ब्रह्मेति सिद्धान्त इति । उक्तं च भामत्यां
उपलब्धेरधिष्ठानं ब्रह्मणो देह इष्यते ।
तेनासाधारणत्वेन देहो ब्रह्मपुरं भवेत् ।। इति ।
केषाञ्चिद्दहराकाश एव पूर्ववत्संशये आकाशशब्दस्य भूते प्रसिद्धेः ‘‘तस्मिन्यदन्तस्तदन्वेष्टव्य’’मित्यन्यस्यैवान्वेष्टव्यत्वोक्तेर्दहरस्य ब्रह्मत्वायोगाच्च भूताकाश इत्येकः पूर्वपक्षः । सम्प्रसादवाक्ये जीवप्रतीतेस्तस्यैव चोत्तरत्रेन्द्रविरोचनयोर्हिरण्यगर्भसंवादाख्यायिकायां ‘‘य आत्माऽपहतपाप्मे’’त्यादिनाऽपहतपाप्मत्वादिप्रतीतेश्च जीव इति द्वितीयः । एवं प्राप्ते ‘‘किं तदत्र विद्यत’’ इति प्रश्ने ‘‘यावान्वा’’ इत्यादिना ‘‘एतत्सत्यं ब्रह्मपुर’’मित्यन्तेन दहरस्यातिमहत्त्वसर्वाश्रयत्वाद्युक्त्वा ‘‘तस्मिन्कामास्समाहिता’’ इत्याकाशान्तर्वर्तिनः कामा अन्वेष्टव्या इति प्रतिपाद्य कोऽयं दहर इति निर्दिष्टः, के तदाश्रया अन्वेष्टव्या इत्यपेक्षायां ‘‘एष आत्माऽपहतपाप्मे’’त्यारभ्य ‘‘सत्यसंकल्प’’ इत्यन्तेनाकाशशब्दनिर्दिष्टः परमात्मा, तदाश्रिता अन्वेष्टव्याः कामा अपहतपाप्मत्वादय इत्युक्त्वा ‘‘तद्यदात्मानमनुविद्ये’’त्यादिना ‘‘कामचारो भवती’’त्यन्तेनान्वेष्टव्याधारतया प्रतिज्ञात आकाशः परमात्मा तद्विशेषणीभूता अन्वेष्टव्याः कामा अपहतपाप्मत्वादय इत्युपसंहाराच्च न भूताकाशो दहरः । नापि जीवः । प्रजापतिवाक्ये कर्मपरवशतया जाग्रदाद्यवस्थाभिस्तिरोहितापहतपाप्मत्वादिगुणकस्य परमात्मोपसत्तिमतस्तत्प्रसादाविर्भूतगुणकस्य प्रत्यगात्मनः प्रतिपादितत्वेऽपि पूर्ववाक्येऽतिरोहितनिरुपाधिकापहतपाप्मत्वादिगुणकत्वेन जीवेऽसम्भाव्यमानजगद्विधारणसर्वचिदचिद्वस्तु नियमनाद्यनन्तगुणकत्वेन दहराकाशस्य प्रतिपन्नतया दहरो ब्रह्मेति सिद्धान्त इति । अत्रावान्तरवैलक्षण्यमल्पं विहाय दूष्यांशमात्रं साधारण्येनानुवदति ।। दहरेति ।। यदवादि भामत्यां भूतपक्षस्तुच्छ इति तदयुक्तम् । तल्लिङ्गादित्यत्र निरवकाशब्रह्मलिङ्गेन रूढित्यागेऽपि इह प्रागुक्तनिरवकाश सुषिरश्रुतिरूपसमाख्याविरोधेन वाक्यशेषस्थापहतपाप्मत्वादिधर्माणां पूर्वं चन्द्रिकोक्तदिशा भूताकाशे सावकाशत्वेन वैषम्यात् । बाह्याभ्यन्तरत्वोपाधिनाऽऽकाशभेदेनोपमानसम्भवाच्च । आकाशशब्दस्य जीवेऽस्वारस्याच्च ।
यदपि मतद्वयेऽप्याकाशस्य जीवत्वेन पूर्वपक्षान्तरकरणं तदप्यसाधु । भूतेरूढस्याकाशशब्दस्य जीवेऽस्वारस्यात् । सम्प्रसादवाक्यादावुत्तरत्रापहतपाप्मत्वादिना जीवप्रतीत्यादिना पूर्ववाक्ये तस्य ग्राह्यत्वेऽपि आकाशान्तर्वर्तित्वेनापि जीवग्रहणसम्भवे दहराकाशत्वेनैव तस्य ग्रहणे प्रमाणाभावात् । य एष आत्मेत्याद्युत्तरवाक्ये दहराकाशस्थस्यैव परामर्शसम्भवेन दहरस्य परामर्शे प्रमाणाभावाच्चेत्यादि पूर्वपक्षदोषस्य स्फुटत्वात्तमुपेक्ष्य सिद्धान्तांशमात्रं मतद्वयेऽपि दूषयति ।। दहराकाशस्येति ।। तस्मिन्यदन्तरित्यत्र तच्छब्दोऽनन्तरमप्याकाशमतिलङ्घ्य हृत्पुण्डरीकं परामृशतीति भामत्युक्तमनुवदति ।। अत्रोक्तं परैरिति ।। अत एवेति ।। सन्निहितत्यागेन व्यवहितपरत्वायोगादेवेत्यर्थः । सप्तमस्याद्यपादे ‘‘एककपालानां वैश्वदेविकः प्रकृतिराग्रयणे सर्वहोमापरिवृत्तिदर्शनादवभृथे च सकृद्व्यवदानस्य वचना’’दित्यन्तिमेऽधिकरणे चातुर्मास्याख्ये कर्मणि चत्वारः पर्वशब्दिताः कर्मसमुदाया वैश्वदेववरुणप्रघाससाकमेधशुनासीरीयनामकाः । तत्र वैश्वदेवे द्यावापृथिव्य एककपालश्श्रुतः । वरुणप्रघासेष्वपि काय एककपालः । तयोः पृथग्ब्राह्मणं समाम्नातम् । साकमेधेषु वैश्वकर्मण एककपालः । तत्र साकमेधेषु श्रूयते ‘‘एतद्ब्राह्मण एककपाल’’ इति । तत्र साकमेधीयैककपाले किं वैश्वदेविकैककपालब्राह्मणस्यातिदेश उत वारुणप्रघासिकस्येति संशये वैश्वदेवे बहवो धर्माः आविः प्रष्टः कार्यः इत्यादयः प्रकृतित्वात् । वारुणप्रघासेषु विकृतित्वादल्पा एव धर्मविशेषाश्शमीमय्यो हिरण्मय्यो वा स्रुचो भवन्तीत्यादय उपदिष्टाः । अतो बह्वनुग्रहाय वैश्वदेविकस्येति प्राप्ते वारुणप्रघासिकस्य सन्निहितत्वाद्वारुणप्रघासिकैककपालब्राह्मणातिदेश इति सिद्धान्तितम् । तत्र यथैतच्छब्दस्य व्यवहितपरत्वपरित्यागेन सन्निहितपरत्वं तथाऽत्रापि न्याय्यमित्यर्थः । यद्यपि ‘‘यच्चातुर्मास्यैर्यजत’’ इत्युत्पत्तिवाक्यगतबहुत्वस्य विवक्षितत्वाच्चातुर्मास्यानामिति वाच्यम् । तथापि सामान्याभिप्रायेणैकवचनम् । एतेन वाक्यशेषस्थबहुतरश्रुतिलिङ्गानुरोधेन दहराकाशस्यैवान्वेष्टव्यत्वावश्यम्भावाद्बह्वनुग्रहाय सन्निधित्यागो युक्तः । ‘‘लिङ्गैः सन्निधिर्बाध्यत’’ इति कल्पतरूक्तेरिति प्रत्युक्तम् । तथात्वे साकमेधीयैककपालेऽपि बह्वनुग्रहाय वैश्वदेविकैककपालब्राह्मणातिदेश एव स्यान्न तु वारुणप्रघासिकैककपालब्राह्मणातिदेशः । स च नेत्युक्तम् । तथा च तन्न्यायविरोध इति ।
किञ्च ‘‘एष आत्माऽपहतपाप्मे’’त्यादिवाक्यशेषे न दहराकाशपरामर्शः । येन बह्वनुग्रहाय सन्निधित्यागः । किन्तु ‘‘किं तदत्र विद्यत’’ इति दहराकाशस्थ आधेये पृष्टे ‘‘यावान्वा’’ इति सन्निहितवाक्ये हृदयशब्देन हृदयननिमित्तकेन दहराकाशमनूद्याकाशशब्देन प्रथमान्तेनाधेयस्य ब्रह्मत्वं विधाय यावानित्यनेन च तस्य व्याप्तत्वं चोक्त्वा ‘‘उभेऽस्मि’’न्नित्यादिना सर्वाधारत्वं च तस्योक्त्वा ‘‘एष आत्माऽपहतपाप्मे’’त्यादिवाक्यशेषे व्याप्ताकाशशब्दितस्य दहराकाशस्थस्य सर्वाधारत्वेनोक्तस्य ब्रह्मण एव परामर्शेनात्मत्वापहतपाप्मत्वाद्युक्तिरिति प्रागेव व्यक्तमेतत् । ननु तत्र न सन्निहितत्वमात्रेण वारुणप्रघासिकस्य परामर्शः । किंतु वैश्वदेविकधर्माणां ‘‘स्वरसामैककपालामिक्षं च लिङ्गदर्शनात्’’ इति सप्तमस्य तृतीयपादीयदशमाधिकरणेऽन्यत्र श्रुतैककपालस्य वैश्वदेविकैककपालविकारत्वमित्युक्तया तन्न्यायेनैव सिद्धेः ‘‘एतद्ब्राह्मण’’ इति वचनानर्थक्यप्रसङ्गादपीति चेत्तर्हीहाप्युक्तसुषिरश्रुतिविरोधवाक्यानन्वयादेरप्युक्तत्वाद्वक्ष्यमाणबाधकाच्च तथाऽस्तु । किं चेहापि तस्मिन्यदन्तरिति वाक्यावैयर्थ्यायैव सन्निहितदहराकाशपरत्वमुपेयमिति भावेनाह ।। दहरस्येति ।। अस्मिन्नित्यस्याधिकरणसप्तम्यन्तस्य सन्निहितपुण्डरीकपरत्वादिति भावः । उपलक्षणमेतत् । तस्मिन्यदन्तरिति वाक्यं दहराकाशस्य पुण्डरीकवेश्माधारत्वप्रतिपादनपरं चेत्तदनन्तरवाक्यस्य तदाक्षेपपरतया व्याख्यानं चायुक्तम् । परमात्मनोंऽतर्वर्तितत्कारणसूक्ष्मं किमपि न सम्भवतीति ‘‘किं तदत्र विद्यत’’ इति वाक्येनाक्षिप्य द्यावापृथिव्यादिकार्यस्य तदन्तर्वर्तितया समाधानमिति परैर्व्याख्यातत्वादिति ध्येयम् । प्रागुक्तदोषनिरासाय श्रुतप्रकाशोक्तं समाधानद्वयमनूद्यापाकरोति ।। केचित्त्विति ।। गुणजातमिति ।। सत्यकामत्वादीत्यर्थः ।। त्यदादीनीति ।। त्यद्तद्यदित्यादीनि शब्दरूपाणि सर्वैस्त्यदादिभिरन्यैश्च सह वचने नित्यं शिष्यन्त इति ।। एकस्य शेषे पुल्लिङ्गशेषः कुतो नेत्यत आह ।। नपुंसकमिति ।। नपुंसकानपुंसकमात्रकृतविशेषेऽनपुंसकेन सहोक्तौ च नपुंसकं शिष्यते एकवच्चास्य कार्यं विकल्पेन भवतीति नपुंसकस्य शेष एकवचनं चेत्यर्थः । ननु किमिह सूत्रद्वयोदाहरणेन कृत्यम् । यावता ‘‘नपुंसकमनपुंसकेने’’ति सूत्रेणैव यः यत् इति पुन्नपुंसकयोर्विग्रहे, नपुंसकैकशेषस्सिध्यति । न च नित्यमेकशेषसिद्ध्यर्थं त्यदादीनीत्यस्योक्तिरिति वाच्यम् । एकवद्भावसूत्र एकवद्भावस्यैव वैकल्पिकत्वेनैकशेषस्य तत्रापि नित्यत्वात् । यथोक्तं मञ्जर्यां ‘‘अन्यतरस्यां ग्रहणमानन्तर्यादेकवच्चेत्यनेन सम्बध्यते । न त्वेकशेषेणेत्याहे’’तीति । सत्यम् । तथापि यः यत् इत्यनयोः ‘‘नपुंसक’’मिति सूत्रविषयत्वेऽपि त्यदादिषु पाठाद्विशिष्य त्यदादिविषयसूत्रेणैवैकशेषनिर्वाहश्श्रुतप्रकाशे दर्शित इत्यभिप्रेत्य यथाश्रुततद्ग्रन्थानुवादोऽत्र कृत इत्यदोषः ।
ननु च यच्छब्दस्य त्यदादिषु पाठेऽपि ‘‘नपुंसकमनपुंसकेने’’त्यनेनैवैकशेषो वाच्यः । अन्यथैकवद्भावाप्राप्तेः । सूत्रेऽस्येत्यनेन ‘‘नपुंसकेने’’त्यनेन प्राप्तैकशेषस्यैव परामर्शेनैकवद्भावोक्तेः । यथोक्तं मञ्जर्यां ‘‘अस्य ग्रहणमेकवच्चेत्यस्योत्तरत्रानुवृत्तिर्मा भूदि’’तीति । मैवम्। ‘‘त्यदादीनी’’त्यनेन सामान्यत एकशेषप्राप्तौ नपुंसकैकशेषस्य ‘‘नपुंसक’’मिति सूत्रेणैव प्राप्तत्वेनैकवद्भावसिद्धेरिति । ‘‘यदन्त’’रित्यत्र यच्चाकाशश्चेति यदित्यभिप्रायेण त्यदादिसूत्रोक्तिः । यच्च यश्चेति यदित्याशयेन नपुंसकसूत्रोक्तिरिति केचित् । यच्छब्दद्वयनिर्दिष्टमुभयं तच्छब्देन प्रतिनिर्दिश्यत इति भावेनाह ।। एवं चेति ।। यथोक्तं तद्भाष्ये ‘‘तस्मिन्दहरपुण्डरीकवेश्मनि यो दहराकाशो यच्च तदन्तर्वर्तिगुणजातं तदुभयमन्वेष्टव्य’’मिति ।। अन्यथेति ।। सिद्धान्ते प्रागुपपादितदिशेति भावः । एतेन दहराकाशस्य तद्गुणजातस्य चोत्तरवाक्ये श्रवणात्तदनुरोधेनोक्तकल्पनं न्याय्यमिति प्रत्युक्तम् । उक्तरीत्याऽन्यथोपपत्तेः । दहरस्य ब्रह्मत्वे बाधकानां भावाच्चेति भावः । यदुक्तं तस्मिन्हृदयवेश्मनि यदन्तर्वर्तते दहराख्यं तदन्तर्गुणजातं च यच्छब्दप्रातिपदिकार्थः । तत्र गुणजाते दहरान्तर्वृत्तित्वमन्वेति । दहरे च पुण्डरीकस्थत्वमिति । तदयुक्तमित्याह ।। लोक इति ।। तदेव व्यनक्ति ।। न हीति ।। एतेन तस्मिन्नित्यनेन वेश्मनिर्देशे व्यवहितपरामर्शदोषः । दहरवद्गुणजातस्यापि वेश्मस्थतापत्त्या दहराकाशान्तर्वर्तित्वासिद्धिः । दहराकाशनिर्देशे तु दहरस्य स्वान्तर्वर्तित्वाभावेनान्तर्वर्तिन एवान्वेष्टव्यत्वोक्तया दहरस्यान्वेष्टव्यत्वासिद्धिः । उभयनिर्देशस्तु सति गत्यन्तरे क्लिष्टः । यच्छब्दप्रातिपदिकार्थयोर्दहराकाशगुणजातयोर्द्वयोरपि साक्षाद्वेश्मस्थत्वस्य वा दहराकाशान्तर्वर्तित्वस्य वाऽऽपातेन दहरस्य वेश्मस्थत्वं गुणजातस्य दहरान्तर्वर्तित्वमित्यस्यासिद्धिरेव । तथा व्युत्पत्त्यभावादित्यपि सूचितम् ।
चन्द्रिकाबिन्दुः
ननु दहरे इति सप्तम्यन्ततया पदविच्छेदात् दहरस्थं भूताकाशं ब्रह्म वेत्यादिविचारस्सङ्गतो न तु दहरविषयकविचार एवेत्यत आह ।। दहरपदं चेति ।। दहराकाशस्थस्येति ।। तस्य ब्रह्मभिन्नत्वादिति भावः । तदन्तर्गतहृत्पुण्डरीकान्तर्गतदहरस्यैव ब्रह्मत्वात् तस्यान्वेष्टव्यत्वादिकं युक्तमिति भावः ।। पुनस्तदुक्तीति ।। तस्मिन्यदन्तरित्यनेनेति शेषः ।। त्यदादीनीति ।। यद्यपि नपुंसकमनपुंसकेन इत्येतत्सत्त्वादुदाहरणमेव प्रकृते सङ्गतम् । सूत्रान्तरोदाहरणं तु किमित्याशङ्क्य श्रुतप्रकाशिकायां समाधानमुक्तं तत्रैवानुसन्धेयम् ।। द्वयोरिति ।। ब्रह्मतद्गुणजातयोरित्यर्थः । ब्रह्मगुणजातस्य हृदयान्तर्गतत्वाभावादिदमापादनमनिष्टमिति ध्येयम् ।।
पाण्डुरङ्गि
अत एवेति ।। सन्निहितपरत्वसम्भवे तत्त्यागेन व्यवहितपरत्वस्यायोगादेवेत्यर्थः । ननु च सन्निहितपरत्वसम्भवे व्यवहितकल्पनमन्याय्यम् । न तु तदसम्भवे । प्रकृते च सन्निहितदहरपरामर्शे ब्रह्मान्तःस्थस्यान्वेष्टव्यत्वं समायाति । न च तत्संभवतीत्यतो व्यवहितपुण्डरीकपरत्वमभ्युपगम्यत इत्यतो दोषान्तरमाह ।। दहरस्येति ।।