परमतद्वयेऽपीदमन्तस्तद्धर्मेत्यनेन गतार्थम्
परमतद्वयाभिमतपूर्वपक्षसिद्धान्तयो: निरास:
तात्पर्यचन्द्रिका
परमतद्वयेऽपीदमन्तस्तद्धर्मेत्यनेन गतार्थम् । तत्रादित्यस्थत्ववदक्षिस्थत्वस्याप्युक्तेः । न च तत्रोद्गीथोपासनस्थमक्षिवाक्यं विषयः । अत्र तूपकोसलविद्यास्थमक्षिवाक्यमित्येतावतैवागतार्थत्वम् । श्रूयन्ते च तत्रेवात्राप्यन्यत्रासम्भववन्तोऽमृतत्वादयो ब्रह्मधर्माः । ब्रह्मशब्दश्चात्राधिकः । न चात्र ‘‘य एषोऽन्तरक्षिणि पुरुषो दृश्यत’’ इति प्रसिद्धवदभिधानाद्दृश्यत्वोक्तेश्चाधिका शङ्का । तत्रापि ‘‘य एषोंऽतरक्षिणि पुरुषो दृश्यत’’ इति श्रुतेः । अत्रोक्तं भामत्याम् । तत्राक्षिस्थो जीवविशेष इति पूर्वः पक्षः । अत्र तु छायेति । भाष्ये तु सम्भवमात्रेण जीवाद्युक्तिः । तथा च जीवविशेषस्यापि ब्रह्मवत्परोक्षत्वाद्दृश्यत्वादिकमयुक्तम् । छायायां तु युक्तमित्यधिकाशङ्केति ।। तन्न । दृश्यत्वानुपपत्त्या जीवपक्षत्यागे छायायां विषयवाक्यस्थपुरुषत्वामृतत्वादेः पूर्ववाक्योक्तस्य तज्ज्ञानेन पापालेपस्य चोत्तरवाक्योक्तस्य संयद्वामत्वादेश्च सर्वथाप्ययुक्तया छायापक्षस्य सुतरां त्याज्यत्वात् । छायायां स्तुत्यर्थममृतत्वाद्युक्तिश्चेज्जीवेऽपि तदर्थमेव दृश्यत्वाद्युक्तिरस्तु । तस्मान्न परमते पूर्वपक्षोत्थानम् । अस्माकं मते तु अन्तस्तद्धर्मेत्यत्रेन्द्रादि श्रुत्येन्द्रादेरन्तस्स्थत्वमिति प्राप्ते नेति सिद्धान्तः । अत्रत्वग्नेश्चक्षुरन्तस्स्थत्वमभ्यासार्थवादसहितबहुश्रुतिभ्य इति प्राप्ते नेति सिद्धान्त इति भेदः ।
प्रकाशिका
।। परमतद्वयेऽपीति ।। मायिनामिदमधिकरणशरीरम् । ‘‘य एषोऽन्तरक्षिणि पुरुषो दृश्यत’’ इति श्रुतोऽक्षिस्थः किं छायापुरुष उत ब्रह्मेति संशये पूर्वं ऋतं पिबन्तावित्यत्र पातृत्वलिङ्गेन प्रथममवगतचेतनद्वयानुरोधेन पश्चादवगतगुहाप्रवेशादयः कथञ्चिद्व्याख्याताः । तद्वदिहापि ‘‘दृश्यत’’ इति प्रत्यक्षाभिधानात्तस्य च छायायामेव सम्भवाद्दृश्यत्वेन प्रथममवगते छायापुरुषे तदनुरोधेनामृतत्वाभयत्वादयस्स्तुतिरूपेण कथञ्चिद्व्याख्येयाः । उक्तं च भामत्यां—
‘‘एष दृश्यत इत्येतत्प्रत्यक्षेऽर्थे प्रयुज्यते ।
परोक्षं ब्रह्म न तथा प्रतिबिम्बं तु युज्यते ।। १ ।।
उपक्रमवशात्पूर्वमितरस्योपवर्णनम् ।
कृतं न्यायेन येनैव स खल्वत्रानुषज्यते’’ ।। २ ।। इति ।।
एवं प्राप्ते ब्रह्मैव अमृतत्वाभयत्वादेस्तस्मिन्नेवोपपत्तेः । न च दृश्यत्वेन प्रथमावगतछायैवात्रोच्यत इति वाच्यम् । दृश्यत इत्येतस्मादपि पूर्वं चेतनवाचिपुरुषपदेन परमात्मन एवावगतत्वात् । य एष इति सर्वनामशब्दौ सन्निहितपुरुषपदार्थं प्राप्य निराकाङ्क्षौ । दृश्यत इत्येतदपि सन्निहितपुरुषपदार्थं प्राप्य निराकाङ्क्षम् । पुरुषे च तद्विषयकशास्त्रजन्यज्ञानस्यातिस्फुटत्वाद्दृश्यत्वोपचारः । तदुक्तं भामत्यां
अनिष्पन्नाभिधाने द्वे सर्वनामपदे सति ।
प्राप्य सन्निहितस्यार्थं भवेतामभिधातृणी ।। इति ।।
यद्यपि भाष्ये ‘‘किं प्रतिबिम्ब उत जीवोऽथेन्द्रियस्याधिष्ठातृदेवतोत परमात्मे’’ति कोटिचतुष्टयं प्रदर्शितम् । तथापि भामत्यां ‘‘जीवदेवतयोरधिकाशङ्कायोगात्सम्भवमात्रेण जीवदेवते भाष्य उपन्यस्ते’’ इत्युक्त्वा कोटिद्वयमेव प्रदर्शितम् । रामानुजीयानां तु किमक्ष्याधारः पुरुषः प्रतिबिम्बजीवदेवताविशेषेष्वन्यतम उत परमात्मेति संशये य एष इति पदाभ्यां प्रसिद्धत्वेन दृश्यत इत्यभिधानाच्चोपक्रमानुगुण्येनान्यस्य स्तुत्यर्थत्वेन नेयत्वात् प्रतिबिम्बादिष्वन्यतम इति प्राप्ते निरुपाधिकात्मत्वामृतत्वाभयत्वब्रह्मत्वसंयद्वामत्वादीनां परमात्मन्येवोपपत्तेः प्रसिद्धत्वेन निर्देशस्य ‘‘यश्चक्षुषि तिष्ठन्नि’’त्यादिश्रुत्यन्तरे प्रसिद्धत्वेनोपपत्तेः आपरोक्ष्यस्य च तदुपासनानिष्ठयोग्यापेक्षयोपपत्तेः परमात्मैवाक्षिस्थ इति सिद्धान्त इति । तत्र मतद्वयस्यैकरूप्येणान्तर्नयसुधावाक्यानि विवृण्वन्मिलित्वा दोषमाह ।। गतार्थमिति ।।
ननु तत्र ‘‘य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यत’’ इत्यादित्यस्थत्वमुक्तम् । इह त्वक्षिस्थत्वमुच्यत इति वा तत्राद्याध्यायगतोद्गीथोपासनागतवाक्यं विषय इह तु चतुर्थाध्यायगतोपकोसलविद्यास्थं विषय इति वाक्यभेदेन वा तत्र ‘‘सैवर्क्तत्साम तदुक्थं तद्यजुस्तद्ब्रह्मे’’त्यादिसार्वात्म्यादेरिवात्र ब्रह्मलिङ्गाभावेन वा य एष इति प्रसिद्धत्वेन दृश्यत इत्यपरोक्षत्वेनात्र निर्देशेन तद्वाक्यवैलक्षण्येन विशेषशङ्कासत्त्वेन वा पौनरुक्तयनिरासस्सेत्स्यतीत्यत आद्यं निराचष्टे ।। तत्रेति ।। ‘‘इत्यधिदैवत’’मित्युक्त्वाऽनन्तरं ‘‘अथाध्यात्म’’ मित्युपक्रम्य ‘‘य एषोऽन्तरक्षिणि पुरुषो दृश्यते सैवकर्तत्सामे’’त्यादिश्रवणात् । उदाहृतं चैतत्त्वयापि तत्रेति भावः । द्वितीयं निराह ।। न चेति ।। एतावतैवेति ।। तथात्वे वाक्यानंत्येन प्रतिवाक्यमधिकरणारम्भे शास्त्रापर्यवसानं स्यादिति भावः । तृतीयं निराह ।। श्रूयन्ते चेति ।। ब्रह्मशब्दश्चेति ।। यद्यपि तत्रापि तद्यजुस्तद्ब्रह्मेत्यस्ति ब्रह्मशब्दः । तथापि ब्रह्मणश्शब्दो ब्रह्मशब्द इत्यात्मशब्दश्चात्राधिक इत्यर्थ इत्याहुः । अन्ये तु लेखकदोषमूलोऽयम् । आत्मशब्दश्चात्राधिक इत्येव पाठ इत्याहुः । अत एवान्तर्नयसुधायां सन्ति च तत्राप्यमृतत्वादयो ब्रह्मधर्मा इत्येवोक्तम् । अपरे तु ब्रह्मशब्दश्चेति यथाश्रुत एव पाठः । अयमर्थः । कं ब्रह्म खं ब्रह्मेत्युपक्रमे द्विर्ब्रह्मशब्दः एतदमृतमभयमेतद्ब्रह्मेति मध्ये स एनान्ब्रह्म गमयतीत्यन्ते च ब्रह्मशब्दश्रवणाद्ब्रह्मशब्दश्चात्राधिको बहुल इत्यर्थ इत्याहुः । चतुर्थं प्रत्याह ।। न चात्रेति ।। एवं मतद्वयसाधारण्येन पौनरुक्तयमुपपाद्य यद्भामत्यां गतार्थत्वमाशङ्क्य समाहितं तदनूद्य निराह ।। अत्रोक्तमिति ।। छायेति ।। प्रतिबिम्ब इत्यर्थः । कथं तर्हि भाष्ये जीवदेवते अप्युपन्यस्ते इत्यत उक्तं भाष्य इति ।। तदीयभाष्ये । किमतो यद्येवमित्यतस्ततो विशेषशङ्कामाह ।। तथा चेति ।। पूर्ववाक्येति ।। ‘‘अहं तु ते तद्वक्ष्यामि तद्यथा पुष्करपलाश आपो न श्लिष्यन्त एवमेवंविदि पापं कर्म न श्लिष्यत इति । ब्रवीतु मे भगवानिति । तस्मै स होवाच य एषोंऽतरक्षिणि पुरुषो दृश्यत’’ इति श्रवणादक्षिस्थज्ञानेन पापालेपस्य पूर्ववाक्योक्तस्यायुक्तयेत्यर्थः । ‘‘एष उ एव वामनिरेष हि सर्वाणि वामानि नयती’’त्यत्र त्वदुक्तरीत्या पुण्यफलोत्पत्तिकारणत्वादिरूपसंयद्वामत्वादेरित्यर्थः । ननूक्तममृतत्वादिकं स्तुत्यैव कथञ्चिन्नेयमिति तत्राह ।। छायायामिति ।। जीवेऽपीति ।। अविद्यमानकथनस्योभयत्र तुल्यत्वात् । तथा च न ततो विशेषाशङ्केति भावः ।
ननु भवन्मतेऽपि ‘‘ब्रह्मेन्द्रमग्निं जगतः प्रतिष्ठा’’मित्यग्निश्रुत्याऽग्नेः ‘‘अन्तः प्रविष्टं कर्तार’’मित्यादावन्तस्स्थत्वमिति प्राप्ते विष्णोरेवेति तत्रैवोक्तत्वादिह पुनरग्नेरन्तस्स्थत्वशङ्कायोगात्पौनरुक्तयमित्यत आह ।। अस्माकमिति ।। तत्रान्तस्स्थत्वसामान्यमिह चक्षुरन्तस्स्थत्वं तत्रेन्द्रादीनामनेकेषामिह त्वग्नेरेव तत्र श्रुतिमात्रेणेह त्वभ्यासादिभिरिति महान् भेद इत्यर्थः ।।
चन्द्रिकाबिन्दुः
छायेति ।। छायापुरुषो नाम अक्षिणी सर्वैर्दृश्यमाना प्रतिमा ।
पाण्डुरङ्गि
इत्येतावतैवेति ।। अन्यथा विषयवाक्यभेदमात्रेणाधिकरणभेदेऽति-प्रसङ्गस्स्यादित्यर्थः ।