अत्तृत्वानशनयोरविरोधस्तु..
अत्तृत्वानशनयो: विरोधाभावनिरूपणम्
तात्पर्यचन्द्रिका
अत्तृत्वानशनयोरविरोधस्तु ‘‘अनशनोक्तिस्त्वनुपजीवनार्थत्वेने’’ति न्यायविवरण एवोक्तः ।
साशनानशनत्वेन नरदेवौ यथोदितौ ।
अत्तिं विनाप्यदौर्बल्यात्तथाऽनत्तिर्हरेर्भुजिः ।।
इति च स्मृतिः । ‘‘सर्वत्र प्रसिद्धे’’त्यत्र सर्वगतस्याप्येकदेशवृत्तिः शते पञ्चाशन्न्यायेनाविरुद्धा । एकदेशमात्रगतत्वं त्वसिद्धमित्युक्तम् । भूमाधिकरणे तु सर्वगतेऽप्यणुत्वमत्र वक्ष्यमाणं सिद्धं कृत्वा तद्बलादुत्क्रान्तिरुक्ता । इह तु पुनर्महतोऽप्यणुत्वमुच्यते । ‘‘अल्पश्रुते’’रित्यत्र तु गगनवन्नावयविरूपेणैव महत्त्वम् । किंत्ववयवरूपेणापीति वक्ष्यत इति भेदः । अत्र चाद्ये सूत्रे विषयवाक्यस्थसाधकोक्तिः । द्वितीये तदुत्तरवाक्यस्थस्य । तृतीये यद्यपि विषयवाक्यस्थास्थूलत्वादिरूपसाधकोक्तिः तथापि तेनैव ब्रह्माक्षरं चेत्स्थौल्यादिरहितत्वान्निःस्वभावं स्यादिति शङ्कितस्य बाधकस्य पदार्थांतरस्वभावरूपप्राकृतस्थौल्यादिरहितम् । न तु सर्वथेत्येवमुद्धारात् तथाऽणुत्वमहत्त्वादिकं विरुद्धमिति शङ्कितस्य बाधकस्याणुत्वमहत्त्वयोर्विरोधे प्राकृतत्वं तन्त्रम् । ब्रह्म तु प्राकृतपदार्थव्यावृत्तमित्येवमुद्धारात्तस्यांत्यता ।
प्रकाशिका
एवं सूत्रोपात्तसाधकान्युपपाद्य यत्पूर्वपक्षिणाऽनशनं बाधकमिति शङ्कितं तत् ‘‘अनेनैव न तदश्नाति किञ्चनेत्येतदपि जीवस्वभावभूतोपजीवनार्थाशनव्यावृत्त्यर्थ’’मिति टीकोक्तेर्मूलं वदन्निराह ।। अत्तृत्वेति ।। नन्वर्भकौकस्त्वादिनाऽणुत्वमुक्तम् । ‘‘महतोऽल्पत्वमपि हि व्योमवत् प्राह वेदवि’’दित्यनुव्याख्यानोक्तेः । अतः पौनरुक्तयमित्यत आह ।। सर्वत्रेति ।। विवृतं चैतत्तत्रैवाऽस्माभिरल्पश्रुतेरिति दहराधिकरणे ।। विषयवाक्यस्थेति ।। ननु भाष्यटीकारीत्या ‘‘अदृष्टं द्रष्ट्रि’’त्यादिचरमवाक्यस्य विषयत्वे तत्र ‘‘एतस्मिन्खल्वक्षरे गार्ग्याकाश ॐतश्चे’’ति श्रवणेऽप्यंबरधृतेरेव श्रवणेनाम्बरान्तसर्वधृतिर्न श्रुता । चन्द्रिकोक्तरीत्या ‘‘तद्वा एतदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूल’’मित्यादेर्विषयत्वे तत्राम्बरस्यैव सर्वाधारत्वश्रवणेन सर्वाधाराम्बराधारत्वस्य तत्राश्रवणात्कथं विषयवाक्यस्थसाधकोक्तिरिति । मिलित्वा सर्वस्य विषयत्वाद्विषयवाक्यस्थेत्युक्तिरित्युक्तावपि द्वितीये तदुत्तरवाक्यस्थेत्युत्तरग्रन्थासङ्गतिः । तस्य मध्यवाक्यस्थसाधकत्वात् । मैवम् । भाष्याद्युक्तेस्सङ्गत्याद्यर्थतयोपपत्त्या चन्द्रिकोक्तस्यैव विषयत्वात् । तत्राम्बरे सर्वाधारत्वमात्रश्रवणेऽपि सर्वाधाराम्बरस्याक्षराधारकत्वविवक्षयाऽक्षरस्यास्थूलमित्यादिना महिमोक्तेरम्बरान्ताधारत्वं तत्राभिमतमिति विषयवाक्यस्थेत्युक्तम् । यद्वा विषयवाक्यस्थेत्यस्याद्यन्तविषयवाक्यस्थेत्यर्थः । आदावंबरे सर्वाधारत्वस्यान्तेऽक्षरेम्बराधारत्वस्य श्रवणात् । अत्रान्तपदं प्रकृतिद्वाराऽक्षरस्य सर्वाधारतोक्तयर्थमम्बरस्य चित्प्रकृतित्वोक्तयर्थं च । तेनान्तपदं व्यर्थमिति कस्यचिद्दूषणमलग्नकं ध्येयम् । ‘‘द्वितीये तदुत्तरवाक्यस्थे’’त्यस्य त्वादिवाक्यापेक्षयोत्तरवाक्यस्थेत्यर्थः । ‘‘एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठत’’ इत्युत्तरवाक्ये सा च धृतिराज्ञामात्रेणोच्यत इत्यर्थः । ‘‘अन्यभावव्यावृत्ते’’ रित्यस्याद्यत्वमाशङ्क्यान्त्यत्वमुपपादयति ।। तृतीय इति ।।
चन्द्रिकाबिन्दुः
नित्य इत्यनेन भिन्नतादृशावयवत्वे अनित्यत्वप्रसङ्गं ध्वनयति ।। अनुपजीवनार्थत्वेनेति ।। अस्मदादीनामशनं यथोपजीवनार्थम् । अशनाभावेऽस्मदादीनां दौर्बल्यात् । ईश्वरस्य तु तादृशमशनं नास्ति । अशनं विना दौर्बल्याभावात् । एवं च बलाद्यापादकमशनमीश्वरे नास्त्येवेत्यर्थः ।। नरदेवौ यथोदिताविति ।। नराः जीवाः देवा इन्द्राद्याः । समुदायाभिप्रायेण द्विवचनम् । नरदेवौ ‘ततो विष्वङ् व्यक्रामत् साशनानशने अभि’ इत्यत्राशनानशनशब्दाभ्यां यथा जीवदेवावुच्येते । देवानां जीवापेक्षया अधिकभोजित्वेऽपि उपजीवनार्थमशनाभावेन अनशनशब्देनोक्तिस्तथेहापीति भावः । अत्र चाद्ये सूत्र इति ।। विषयवाक्यस्थसाधकोक्तिः एतस्मिन्नक्षर इत्यादि वाक्यस्थसाधकोक्तिः ।। तदुत्तरवाक्यस्थस्येति ।। यद्यपि एतस्य वा अक्षरस्य प्रशासन इति प्रशासनवाक्यं पूर्वम् । अनन्तरं एतस्मिन् खल्वक्षर’ इति वाक्यमस्ति ।
तथा च प्रशासनवाक्यस्य न विषयवाक्योत्तरत्वम् । तथापि कस्मिन् खल्वाकाशः प्रतिष्ठित इति गार्ग्या प्रश्ने कृते उत्तरत्वेनादौ एतस्मिन् खल्वक्षर इति वाक्यमेव सम्बध्यते । तदनन्तरमक्षरस्तुत्यर्थं एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्तीत्याद्यारभ्य प्रशासनादिवाक्यानि प्रवर्तन्त इति अर्थगत्या एतस्मिन् खल्विति वाक्यादुत्तरत्वं प्रशासनवाक्यस्येति स्वामिनः । केचित्तु तैर्व्यत्यासेन पाठो दृष्टो भविष्यति । अत एव भावबोधे द्वितीयसूत्रक्रमे निमित्तान्तरं कथितमित्याहुः ।
पाण्डुरङ्गि
तेनैवेति ।। तृतीयसूत्रेणैवेत्यर्थः । अत्र तेनेत्यस्योद्धारादित्यनेनान्वयः ।।