सिद्धान्तस्तु

सिद्धान्ते ब्रह्मजने: चेतनाचेतनजनिविलक्षणत्वनिरूपणत्वम्

तात्पर्यचन्द्रिका

सिद्धान्तस्तु ।

अचेतनजनेरन्या चेतनस्य जनिर्यथा ।

तथोभयजनेरन्या ब्रह्मणोऽपि जनिर्मता ।। १ ।।

‘‘अजायमानो बहुधाविजायत’’ इति ब्रह्मणोऽपि जनेः प्रमितत्वात् प्रसिद्धाच्चेतनाचेतनजननादन्यैव प्रादुर्भावरूपा ब्रह्मणो जनिरस्तु ।

किंतु निर्दोषचैतन्यसुखां नित्यां स्वकां तनुम् ।

प्रकाशयति सैवेयं जनिर्विष्णोर्न चापरा ।। इत्यादिस्मृतेः ।

‘‘अजायमान’’ इत्यादिवाक्यं च ब्रह्मपरमेव । ‘‘तमेवं विद्वानमृत इह भवती’’त्यादितल्लिङ्गात्पुरुषसूक्तस्थत्वाच्च । एवं चात्मश्रुत्याद्यनुसाराज्जायमानत्वलिङ्गमेव गौणं नेयम् । न तु विपरीतम् । समाख्यापि सावकाशा । भाष्योक्तश्रुतिस्मृतिभी रुद्रादिशब्दानां विष्णावेव मुख्यत्वात् । मुक्तोपसृप्यत्वादिकं तु निरवकाशमिति भाष्य एवोक्तम् । अत्र चाद्ये सूत्रे विषयवाक्येनातिसन्निहितश्रुतिरूपस्वपक्षसाधकोक्तिः । स्वशब्दादित्येतच्च स्वेति शब्दः स्वशब्द इति विग्रहाश्रयणेन विषयवाक्ये स्वशब्दाभावात्तत्पर्यायात्मशब्दपरम् । यथा ‘‘सभाराजामनुष्यपूर्वे’’त्यत्र राजशब्दस्तत्पर्यायेश्वरादिशब्दपरः । एतदेवाभिप्रेत्य विष्णुतत्वनिर्णये भगवत्पादैरत्रापि टीकाकारैः ‘‘स्वशब्दपर्यायात्मशब्दा’’दित्युक्तम् ।

प्रकाशिका

अत्र निरवकाशजन्मरूपजीवलिङ्गादिना ‘‘स्वशब्दा’’दिसिद्धान्तहेतूनामन्यथानयनात्तत्सावकाशत्वोक्तयैव स्वशब्दादेस्साधकत्वं नान्यथेति भावेन ‘‘अतच्छब्दा’’दिति सूत्रखण्डसूचितं ‘‘अजायमानो बहुधा विजायत इति तस्यैव बहुधाजन्मोक्ते’’रिति भाष्याद्युक्तं जीवलिङ्गसावकाशत्वं तावद्व्यनक्ति ।। अचेतनेति ।। परिणामरूपजनेरन्या देहयोगरूपेत्यर्थः । ‘‘ज्ञोत एवे’’त्यत्राग्रे स्पष्टेति भावः । चेतनाचेतनजनेः प्रमितत्वात् साऽन्याऽन्यास्तु । न चैवं ब्रह्मणीत्यतः प्रमाणं वदन्नन्येत्युक्तजनिस्वरूपं चाह ।। अजायमान इति ।। देहादिना जननहीनस्सन् बहुधा नाना मत्स्यकूर्मवराहाद्यात्मना प्रादुर्भवतीत्यर्थः । प्रादुर्भावरूपेति कुत इत्यत आह ।। किं त्विति ।।

स्त्रीपुंमलाभियोगात्मा देहो विष्णुर्न जायते ।

किंतु निर्दोषचैतन्यसुखां नित्यां स्वकां तनुम् ।।

प्रकाशयति सैवेयं जनिर्विष्णोर्न चापरा ।

तथाप्यसुरमोहाय परेषां च क्वचित् क्वचित् ।।

दुःखाज्ञानश्रमादींश्च दर्शयेच्छुद्धसद्गुणः ।

इत्यादिविष्णुतत्वनिर्णयोदाहृतब्रह्माण्डपुराणवचनादित्यर्थः । ‘‘प्रत्यक्षत्वं हरेर्जन्मे’’ त्यादिरादिपदार्थः । ननूक्तं जीवविषयं तद्वाक्यमिति तत्राह ।। अजायमान इति ।। मुक्तिहेतुज्ञानविषयत्वरूपाल्लिङ्गादित्यर्थः । प्रकरणवशाच्च ब्रह्मपरमेतद्वाक्यमित्याह ।। पुरुषसूक्तस्थत्वाच्चेति ।। पुरुषसूक्तं च विष्णुपरमिति पूर्वाधिकरणे छन्दोधिकरणे च भाष्यादौ समर्थितमिति भावः । अस्त्वेवं जीवलिङ्गं सावकाशम् । ततःकिमित्यत आह ।। एवं चेति ।। सावकाशत्वे सतीत्यर्थः ।। लिङ्गमेवेति ।। श्रुत्यादितो लिङ्गमात्रस्य दुर्बलत्वादिति भावः ।। गौणमिति ।। परिणामरूपजनेरेव मुख्यत्वादिति भावः ।। नत्विति ।। श्रुत्यादिबहुबाधायोगादिति भावः । लिङ्गस्य सावकाशत्वमुक्त्वा समाख्याया अपि ‘‘अतच्छब्दा’’दिति सूत्रांशाभिमतमेव तदाह ।। समाख्यापीति ।। ‘‘सोऽन्तकस्सरुद्रस्स प्राणभृत् सप्राणनायकस्स ईशो यो हरि’’रित्यादिश्रुत्या ‘‘रुजं द्रावयते यस्माद्रुद्रस्तस्माज्जनार्दन’’ इत्यादिब्रह्माण्डस्मृतिभिर्विष्णावेव मुख्यवृत्त्युक्तेरिति भावः । यद्यपि समाख्याश्रुतौ निरवकाशविष्णुलिङ्गाभावेन ‘‘अन्तस्तद्धर्मोपदेशादि’’त्युक्तन्यायाविषयत्वं भाति । तथापि श्रुत्यर्थनिर्णयार्थत्वात् स्मृतेस्तत्र निरूपितोऽर्थो ग्राह्यो वेदवाक्ये । तदयोगे तु लौकिक इति ‘‘कम्पना’’दिति सूत्राभिमतवक्ष्यमाणन्यायेन ‘‘इतिहासपुराणाभ्यां वेदं समुपबृंहये’’दिति स्मृत्या श्रुत्युपबृंहकेषु ‘‘रुजं द्रावयत’’ इत्यादिस्मृतिवाक्येष्वन्वर्थसंज्ञाकरणस्य श्रुत्यर्थनिर्णयार्थत्वात् अन्यथा तस्य वैयर्थ्येन निरवकाशतया स्मार्तयोगस्याज्ञरूढितो बलवत्त्वात् ‘‘रुजं द्रावयत’’ इत्यादिस्मृतौ योगमुक्त्वा ‘‘वेदेषु सपुराणेषु गीयत’’ इति प्रयोगबाहुल्यरूपरूढिकथनाच्चाज्ञरूढितो विद्वद्रूढेर्बलवत्ताया यववराहाद्यधिकरणोक्तन्यायैर्निपुणतरं जन्मादिनये प्रतिपादितत्वादिति भावेनोक्तं मुख्यत्वादिति । तथा च ‘‘मुख्यामुख्ययोर्मुख्ये सम्प्रत्यय’’ इति न्यायेन मुख्यार्थस्य ‘‘विदेहि रुद्रो रुद्रियं महित्वम् । कुमारश्चित्पितरं वन्दमानं प्रति नानामरुद्रः । नमिनन्ति रुद्रः । रुद्रस्य शिर उत्पिपेषे’’त्यादावयोगेपि ‘‘रुद्रोवाव लोकाधार’’इत्यादिश्रुतिषु रुद्रादिशब्दैर्मुख्यार्थस्य विष्णोरेव गृहीतेस्समाख्यानरुद्रादेर्द्युभ्वाद्यायतनत्वप्रापिकेति भावः । एतेन ‘‘नन्वत्र रुद्रादिज्ञापकाभावेपि प्राणानां ग्रन्थिरसीत्यादिटीकाया निष्कृष्टार्थ उक्तो भवति ।

विष्णुप्रापकस्यापि सावकाशत्वे निर्णयो दुश्शक इत्यत आह ।। मुक्तेति ।। उक्तमित्यनन्तरं तथाचात्मश्रुत्यादिबलाद्विष्णुरेव द्युभ्वाद्यायतनमिति वाक्यशेषः । नन्वेवं सूत्रेष्वादौ परसाधकानां सावकाशत्वोक्तिपरमतच्छब्दादित्येतदुक्त्वा स्वशब्दादित्यादिहेतूपन्यासः कार्य इत्यतो वादकथारूपेण ग्रन्थस्य प्रवृत्तत्वात्तत्र च कथालक्षणतट्टीकाद्युक्तदिशा स्वपक्षसाधकस्यादौ वाच्यत्वाद्युक्तस्सूत्रक्रम इति भावेनाह ।। अत्र चाद्य इति ।। श्रुतिरूपेति ।। आत्मश्रुतिरूपेत्यर्थः । तत्र टीकादौ स्वशब्दादिति सौत्रपदस्य स्वशब्दपर्यायेति कस्मादुक्तम् । कथं चोपपद्यतामित्यत आह ।। स्वशब्दादित्येतच्चेति ।। स्वेतिशब्दस्स्वशब्द इति ।। स्वश्चासौ शब्दश्चेति ‘‘विशेषणं विषेष्येण बहुल’’मिति कर्मधारयः । स्वेतीति विग्रहप्रदर्शनम् ।। यथेति ।। व्याकरणे द्वितीयाध्यायस्य चतुर्थपादे ‘‘सभाराजाऽमनुष्यपूर्वे’’ति सूत्रम् । तस्यार्थः । राजशब्दपूर्वकोऽमनुष्यशब्दोपात्तरक्षःपिशाचशब्दपूर्वकश्च सभाशब्दः ‘‘स नपुंसक’’मिति प्रकृतनपुंसकं भवतितत्पुरुष इति । तत्र राजशब्दस्तत्पर्यायपरो न तु राजशब्दपरः । इनसभम् । ईश्वरसभम् । राजपूर्वकत्वे तु राजसभेत्येव । न तु राजसभमिति । वृत्तौ ‘‘पर्यायवचनस्यैवेष्यते’’ इत्युक्तेः । स्वं रूपं शब्दस्याशब्दसङ्ज्ञेत्यत्राद्याध्यायस्याद्यपादे ‘‘जित्पर्याय वचनस्यैव राजाद्यर्थमिति भाष्यवार्तिकयोरुक्तत्वात् । तस्य चायमर्थः । सभाराजेति सूत्रे सभाराजाजमनुष्यपूर्वेति राजशब्दात्परं जकारव्यञ्जनमुच्चार्य राजशब्दो जित्त्वेन जकारेत्संज्ञकत्वेन निर्देष्टव्यः । तदनन्तरं स्वं रूपं शब्दस्येति सूत्रे जित्पर्यायवचनस्यैवेति पठनीयम् । इनसभमित्यादिरूपसिद्ध्यर्थमिति । अत्र यद्यपि स्वरूपं शब्दस्येति सूत्रे कैयटे सभाराजेत्यत्र ‘‘अराजेति पर्युदास आश्रीयते । तेन राजशब्दसदृशानां तत्पर्यायाणामेव ग्रहणं सिध्यती’’त्युक्तत्वात् सभाराजेति सूत्र एव च मञ्जर्यां ‘‘द्वावत्र नञौ । अराजपूर्वा अमनुष्यपूर्वेति । तत्र नञिवयुक्तन्यायेन राजशब्दसदृशशब्दाः पर्याया एव गृह्यन्त’’ इत्युक्तेस्तत्राराजेति पदच्छेदेन पर्यायग्रहणं युक्तम् । प्रकृते तु नैवम् । तथापि भाष्यवार्तिकयोर्मते राजशब्दे पर्युदासानाश्रयणात्तन्मतावष्टम्भेन वा न्यायतो वा वचनतोवा यथाकथञ्चिदुपात्तपर्यायस्य ग्रहणमित्यत्राविवादाद्वा राजशब्दस्तत्पर्यायपर इत्युक्तम् । यद्वा तत्र पर्युदासेन नञ्युक्तमिव युक्तमन्यस्मिन् सदृशाधिकरणे प्रतिपत्तिं गमयतीति न्यायेन पर्यायपरत्वस्य सिद्धत्ववदिहापि विषयवाक्ये स्वशब्दाभावेन तदन्यथानुपपत्तिरूपन्यायसिद्धत्वमेव पर्यायपरत्वस्येति भावेनायं दृष्टान्त उक्तः । अत एव प्राग्विषयवाक्ये स्वशब्दाभावादित्यन्यथानुपपत्तिरूपन्याय उपात्तः । केचित्तु कैयटाद्युक्तमेवायुक्तम् । अराजेत्युक्तावपि स्वं रूपं शब्दस्यैव ग्रहणापत्त्या नञिवयुक्तन्यायाप्रवृत्तेरिति भावेनैवमुक्तमित्याहुः ।

पाण्डुरङ्गि

अतिसन्निहितेति ।। द्वितीयसूत्रोक्तामृतसेतुत्वापेक्षयातिसन्निहितेत्यर्थः ।। यथा सभाराजेत्यादि ।।

वृक्षादौ तद्विशेषाणां स्वेपर्यायविशेषयोः ।

पर्यायस्यैव राजादौ मत्स्यादौ तद्विशेषयोः ।।

इति वचनार्थः । पर्यायवचनस्यैव न स्वरूपस्य नापि विशेषाणां चन्द्रादीनामित्यर्थः । कथं पुनरेतल्लभ्यते । द्वावत्रनञौ । अराजपूर्वाऽमनुष्यपूर्वाचेति । तत्राराजपूर्वेति न प्रसज्यनिषेधार्थस्य ग्रहणम् । असामर्थ्येन समासानुपपत्तेः । किन्तु पर्युदासार्थस्यैव । तथा च नञिवयुक्तन्यायेन राजशब्दसदृशाः पर्याया एव गृह्यन्त इति ध्येयम् ।